ववन्देऽजञ्च तन्देवा अभ्यनन्दन्त हर्षिताः । तस्मात्स नन्दकः खड्गो देवोक्तो हरिरग्रहीत् ।। २४५.
तं जग्राह शनैर्देवो विकोषः सोऽभ्यपद्यत। खड्गो नीलो रत्नमुष्टिस्ततोऽभूच्छतबाहुकः ।। २४५.
दैत्यः स गदया देवान् द्रावयामास वै रणे । विष्णुना खड्गच्छिन्नानि दैत्यगात्राणि भूतले ।। २४५.
पतितानि तु संस्पर्शान्नन्दकस्य च तानि हि । लोहभूतानि सर्वाणि हत्वा तस्मै हरिर्वरं ।। २४५.
ददौ पवित्रमङ्गन्ते आयुधाय भवेद्भुवि । हरिप्रसादाद् ब्रह्मापि विना विघ्नं हरिं प्रभुं ।। २४५.
पूजयामास यज्ञेन वक्ष्येऽथो शड्गलक्षणं । खटीखट्टरजाता ये दर्शनीयास्तु ते स्मृताः ।। २४५.
कायच्छिदस्त्वार्षिकाः स्युर्दृढाः सूर्पारकोद्बवाः । तीक्ष्णाश्छेदसहा वङ्गास्तीक्ष्णाःस्युश्चाङ्गदेशजः ।। २४५.
शातार्द्धमङ्गुलानाञ्च श्रेष्ठं खड्गं प्रकीर्त्तितं । तदर्द्धं मध्यमं ज्ञेयं ततो हीनं न धारयेत् ।। २४५.
दीर्घं सुमधुरं शब्दं यस्य खड्गस्य सत्तम । किङ्किणीसदृशन्तस्य धारणं श्रेष्ठमुच्यते ।। २४५.
ख़़ड़गः पद्मपलाशाग्रो मण्डलाग्रश्च शस्यते । करवीरदलाग्राभो घृतगन्धो वियत्प्रभः ।। २४५.
समाङ्गुलस्थाः शस्यन्ते व्रणाः खड्गेषु लिङ्गवत् । काकोलूकसवर्णाभा विषमास्ते न शोभनाः ।। २४५.
खड्गे न पश्येद्वदनमुच्छिष्टो न स्पृशेदसिं । मूल्यं जातिं न कथयेन्निशि कुर्यान्न शीर्षके ।। २४५.
अग्निरुवाच रत्नानां लक्षणां वक्ष्ये रत्नं धार्य्यमिदं नपैः । वज्रं मरकतं रत्नं पद्मरागञ्च मौक्तिकं ।। २४६.
इन्द्रनीलं महानीलं वैदूर्य्यं गन्धशस्यकं । चन्द्रकान्तं सूर्यकान्तं स्फटिकं पुलकं तथा ।। २४६.
कर्केतनं पूष्परागं तथा ज्योतीरसं द्विज । स्फटिकं राजपट्टञ्च तथा राजमयं शुभं ।। २४६.
सौगन्धिकं तथा गञ्जं शङ्खब्र्ह्ममयं तथा । गोमेदं रुधिराक्षञ्च तथा भल्लातकं द्विज ।। २४६.
धूलीं मरकतञ्चैव तुथकं सीसमेव च । पीलुं प्रवालकञ्चैव गिरिवज्रं द्विजोत्तम ।। २४६.
भूजङ्गममणिञ्चैव तथा वज्रमणिं शुभं । टिट्टिभञ्च तथा पिण्डं भ्रामरञ्च तथोत्पलं ।। २४६.
सुवर्णप्रतिबद्धानि रत्नानि श्रीजयादिके । अन्तःप्रभावं वैमल्यं सुसंस्थानत्वमेव च ।। २४६.
सुधार्या नैव धार्य्यास्तु निष्प्रभा मलिनास्तथा । खण्डाः सशर्करा ये च प्रशस्तं वज्रधारणम् ।। २४६.
अम्भस्तरति यद्वज्रमभेद्यं विमलं च यत् । षट्कोणं शक्रचापाबं लघु चार्कनिभं शुभम् ।। २४६.
शुकपक्षनिभः स्निग्धः कान्तिमान्विमलस्तथा । स्वर्णचूर्णनिभैः सूक्ष्मैर्मरकतश्च विन्दुभिः ।। २४६.
स्फटिकजाः पद्मरागाः स्यू रागवन्तोऽतिनिर्म्मलाः । जातवङ्गा भवन्तीह कुरुविन्दसमुद्भवाः ।। २४६.
सौगन्धिकोत्थाः काषाया मुक्ताफलास्तु शुक्तिजाः । विमलास्तेभ्य उत्कृष्टा ये च शङखोद्भवा मुने ।। २४६.
नागदन्तभवाश्चाग्र्याः कुम्भशूकरमत्स्यजाः । वेणुनागभवाः श्रेष्ठा मौक्तिकं नागजं वरं ।। २४६.
thumb|500px|वास्तुपुरुष (८१पद) thumb|500px|वास्तुपुरुषः. अग्निरुवाच वास्तुलक्ष्म प्रवक्ष्यामि विप्रादीनां च भूरिह । श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ।। २४७.
घृतरक्तान्नमद्यानां गन्धाढ्या वसतश्च च भूः । मधुरा च कषाया च अम्लाद्युपरसा क्रमात् ।। २४७.
कुशैः शरैस्तथाकाशैर्दूर्वाभिर्या च संश्रिता । प्रार्च्य विप्रांश्च निःशल्पां खातपूर्वन्तु कल्पयेत् ।। २४७.
चतुःषष्टिपदं कृत्वा मध्ये ब्रह्मा चतुष्पदः । प्राक् तेषां वै गृहस्वामी कथितस्तु तथार्य्यमा ।। २४७.
दक्षिणेन विवस्वांश्च मित्रः पश्चिमतस्तथा । उदङ्महीधरश्चैव आपवत्सौ च वह्विगे ।। २४७.