सुनीलकेशी तन्वङ्गी विलोमाऱङ्गी मनोहरा । समभूमिस्पृशौ पादौ संहतौ च तथा स्तनौ ।। २४४.
नाभिः प्रदक्षिणावर्त्ता गुह्यमश्वत्थपत्रवत् । गुल्फौ निगूढौ मध्येन नाभिरङ्गुष्ठमानिका ।। २४४.
जठरन्न प्रलम्बञ्च चरोमरूक्षा न शोभना । नर्क्षवृक्षनदीनाम्नी न सदा कलहप्रिया ।। २४४.
न लोलुपा न दुर्भाषा शुभा देवादिपूजीता । गण्डैर्म्मघूकपुष्पाभैर्न शिराला न लोमशा ।। २४४.
न संहतभ्रूकुटिला पतिप्राणा पतिप्रिया । अलक्षणापि लक्षण्या यत्राकारस्ततो गुणाः।। २४४.
अग्निरुवाच चामरो रुक्मदण्डोऽग्र्यः छत्रं राज्ञः प्रशस्यते । हंसपक्षैर्विरचितं मयूरस्य शुकस्य च ।। २४५.
पक्षैर्वाथ बलाकाया न कार्य्यं मिश्रपक्षकैः । चतुरस्त्रं ब्राह्मणस्य वृत्तं राज्ञश्च शुक्लकं ।। २४५.
त्रिचतुश्पञ्चषट्सप्ताष्टपर्वश्च दण्डकः । भद्रासनं क्षीरवृक्षैः पञ्चाशदङ्गुलोच्छ्रयैः ।। २४५.
विस्तारेण त्रिहस्तं स्यात् सुवर्णाद्यैश्च चित्रितं । धनुर्द्रव्यत्रयं लोहं श्रृह्गं दारु द्विजोत्तम ।। २४५.
ज्याद्रव्यत्रितयञ्चैव वंशभङ्गत्वचस्तथा । दारुचापप्रमाणन्तु श्रेष्ठं हस्तचतुष्टयं ।। २४५.
तदेव समहीनन्तु प्रोक्तं मध्यकनीयसि । मुष्टिग्राहनिमित्तानि मध्ये द्रव्याणि कारयेत् ।। २४५.
स्वल्पकोटिस्त्वचा श्रृङ्गं शर्ङ्गलोहमये द्विज। कामिनीभ्रूलताकारा कोटिः कार्य्या सुसंयता ।। २४५.
पृथग्वा विप्र मिश्रं वा लौहं शार्ङ्गन्तु कारयेत् । शर्ङ्गं समुचितं कार्य्यं रुक्मविन्दुविभूषितं ।। २४५.
कुटिलं स्पुटितञ्चापं सच्छिद्रञ्च न शस्यते । सुवर्णं रजतं ताम्रं कृष्णायो धनुषि स्मृतं ।। २४५.
माहिषं शारभं शार्ङ्ग रौहिषं वा धनुः शुभं । चन्दनं वेतसं सालं धावलङ्गकुभन्तरुः ।। २४५.
सर्वश्रेष्ठं धनुर्वंशैर्गृहोतैः शरदि श्रितैः । पूजयेत्तु धनुः खड्गमन्त्रैस्त्रैलोक्यमोहनैः ।। २४५.
अयसश्चाथ वंशस्य शरस्याप्यशरस्य च । ऋजवो हेमवार्णभाः स्नायुश्लिष्टाः सुपत्रकाः ।। २४५.
रुक्मपुङ्खाः सुपुङ्कास्ते तैलधौताः सुवर्णकाः । यात्रायामभिषेकादौ यजेद्वायणधनुर्मुखान् ।। २४५.
सपताकाश्त्रसङ्ग्राहसंवत्सरकरान्नृपः । ब्रह्मा वै मेरुशिखरे स्वर्गगङ्गातटेऽयजत् ।। २४५.
लोहदैत्यं स ददृशे विघ्नंयज्ञे तु चिन्तयन् । तस्य चिन्तयतो वह्नेः पुरुषोऽभूद्बली महान् ।। २४५.
ववन्देऽजञ्च तन्देवा अभ्यनन्दन्त हर्षिताः । तस्मात्स नन्दकः खड्गो देवोक्तो हरिरग्रहीत् ।। २४५.
तं जग्राह शनैर्देवो विकोषः सोऽभ्यपद्यत। खड्गो नीलो रत्नमुष्टिस्ततोऽभूच्छतबाहुकः ।। २४५.
दैत्यः स गदया देवान् द्रावयामास वै रणे । विष्णुना खड्गच्छिन्नानि दैत्यगात्राणि भूतले ।। २४५.
पतितानि तु संस्पर्शान्नन्दकस्य च तानि हि । लोहभूतानि सर्वाणि हत्वा तस्मै हरिर्वरं ।। २४५.
ददौ पवित्रमङ्गन्ते आयुधाय भवेद्भुवि । हरिप्रसादाद् ब्रह्मापि विना विघ्नं हरिं प्रभुं ।। २४५.
पूजयामास यज्ञेन वक्ष्येऽथो शड्गलक्षणं । खटीखट्टरजाता ये दर्शनीयास्तु ते स्मृताः ।। २४५.
कायच्छिदस्त्वार्षिकाः स्युर्दृढाः सूर्पारकोद्बवाः । तीक्ष्णाश्छेदसहा वङ्गास्तीक्ष्णाःस्युश्चाङ्गदेशजः ।। २४५.
शातार्द्धमङ्गुलानाञ्च श्रेष्ठं खड्गं प्रकीर्त्तितं । तदर्द्धं मध्यमं ज्ञेयं ततो हीनं न धारयेत् ।। २४५.
दीर्घं सुमधुरं शब्दं यस्य खड्गस्य सत्तम । किङ्किणीसदृशन्तस्य धारणं श्रेष्ठमुच्यते ।। २४५.
ख़़ड़गः पद्मपलाशाग्रो मण्डलाग्रश्च शस्यते । करवीरदलाग्राभो घृतगन्धो वियत्प्रभः ।। २४५.