तारकाभ्यां विना नेत्रे शुक्लदन्तो द्विशुक्लकः । गाम्बीरस्त्रिश्रवा नाभिः सत्त्वञ्चैकं त्रिकं स्मृतं ।। २४३.
अनसूया दया क्षान्तिर्मङ्गलाचारयुक्तता । शौचं स्पृहा त्वकार्पण्यमनायासश्च शौर्य्यता ।। २४३.
त्रित्रिकस्त्रिप्रलम्बः स्याद्वृषणो भुजयोर्नरः । दिग्देशजातिवर्गांश्च तेजसा यशसा श्रिया ।। २४३.
व्याप्नोति यस्त्रिकव्यापि त्रिबलीमान्नरस्त्वसौ । उदरे बलयस्तिस्त्रो नरन्त्रिविनतं श्रृणु ।। २४३.
देवतानां द्विजानाञ्च गुरूणां प्रणतस्तु यः । धर्मार्थकामकालज्ञस्त्रिकालज्ञोऽभिधीयते ।। २४३.
उरो ललाटं वक्त्रञ्च त्रिवस्तीर्णो विलेखवान् । द्वौ पाणी द्वौ तथा पादौ ध्वजच्छत्रादिभिर्युतौ ।। २४३.
अङ्गुल्यो हृदयं पृष्ठं कटिः शस्तं चतुःसमं । षण्णवत्यह्गुलोत्सेधश्चतुष्किष्कुप्रमाणतः ।। २४३.
द्रंष्ट्राश्चतस्रश्चन्द्राभाश्चतुःकृष्णं वदामि ते । नेत्रतारौ ब्रुवौ श्मश्रुः कृष्णाः केशास्तथैव च ।। २४३.
नासायां वदने स्वेदे कक्षयोर्विडगन्धकः । ह्रस्वं लिङ्गं तथा ग्रीवा जङ्घे स्याद्वेदह्रस्वकं ।। २४३.
सूक्ष्माण्यह्गुलिपर्वाणि नखकेशद्विजत्वचः । हनू नेत्रे ललाटे च नासा दीर्घा स्तनान्तरं ।। २४३.
वक्षः कक्षौ खा नासोन्नतं वक्त्रं कृकाटिका । स्रिग्धास्त्वक्केशदन्ताश्च लोम दृष्टिर्नखाश्च वाक् ।। २४३.
जान्वोरुर्वोश्च पृष्ठस्थ वंशौ द्वौ करनासयोः । नेत्रे नासपुटौ कर्णौ मेढ्रं पायुमुखेऽमलं ।। २४३.
जिह्वोष्ठे तालुनेत्रे तु हस्तपादौ नखास्तथा । शिश्नाग्रवक्त्रं शस्यन्ते पद्माभा दश देहिनां ।। २४३.
पाणिपादं सुखं ग्रीवा श्रवणे हृदयं शिरः । ललाटमुदरं पृष्ठं वृहन्तः पूजिता दश ।। २४३.
प्रसारितभुजस्येह मध्यमाग्रद्वयान्तरं । उच्छ्रायेण समं यस्य न्यग्रोधपरिमण्डलः ।। २४३.
पादौ गुल्फौ स्फिचौ पर्श्वौ वङ्क्षणौ वृषणौ कुचौ । कर्णौष्ठे सक्थिनी जह्घे हस्तौ बाहू तथाक्षिणी ।। २४३.
चतुर्द्दशमद्वन्द्व एतत्सामान्यतो नरः । विद्याश्चतुर्द्दश द्व्यक्षैः पश्येद्यः षोडशाक्षकः ।। २४३.
रूक्षं शिराततं गात्रमशुभं मांसवजितं । दुर्गन्धिविपरीतं यच्छस्तन्दृष्ट्या प्रसन्नया ।। २४३.
धःयस्य मधुरा वाणी गतिर्म्मत्तेभसन्निभा । एककूपभवं रोम भये रक्षा सकृत् सकृत् ।। २४३.
समुद्र उवाच शस्ता स्त्री चारुसर्वाङ्गी मत्तमातङ्गगामिनी । गुरूरुजघना या च मत्तपारावतेक्षणा ।। २४४.
सुनीलकेशी तन्वङ्गी विलोमाऱङ्गी मनोहरा । समभूमिस्पृशौ पादौ संहतौ च तथा स्तनौ ।। २४४.
नाभिः प्रदक्षिणावर्त्ता गुह्यमश्वत्थपत्रवत् । गुल्फौ निगूढौ मध्येन नाभिरङ्गुष्ठमानिका ।। २४४.
जठरन्न प्रलम्बञ्च चरोमरूक्षा न शोभना । नर्क्षवृक्षनदीनाम्नी न सदा कलहप्रिया ।। २४४.
न लोलुपा न दुर्भाषा शुभा देवादिपूजीता । गण्डैर्म्मघूकपुष्पाभैर्न शिराला न लोमशा ।। २४४.
न संहतभ्रूकुटिला पतिप्राणा पतिप्रिया । अलक्षणापि लक्षण्या यत्राकारस्ततो गुणाः।। २४४.
अग्निरुवाच चामरो रुक्मदण्डोऽग्र्यः छत्रं राज्ञः प्रशस्यते । हंसपक्षैर्विरचितं मयूरस्य शुकस्य च ।। २४५.
पक्षैर्वाथ बलाकाया न कार्य्यं मिश्रपक्षकैः । चतुरस्त्रं ब्राह्मणस्य वृत्तं राज्ञश्च शुक्लकं ।। २४५.
त्रिचतुश्पञ्चषट्सप्ताष्टपर्वश्च दण्डकः । भद्रासनं क्षीरवृक्षैः पञ्चाशदङ्गुलोच्छ्रयैः ।। २४५.
विस्तारेण त्रिहस्तं स्यात् सुवर्णाद्यैश्च चित्रितं । धनुर्द्रव्यत्रयं लोहं श्रृह्गं दारु द्विजोत्तम ।। २४५.
ज्याद्रव्यत्रितयञ्चैव वंशभङ्गत्वचस्तथा । दारुचापप्रमाणन्तु श्रेष्ठं हस्तचतुष्टयं ।। २४५.