सामदानं च भेदश्च दण्डोपेक्षेन्द्रजालकं । मायोपायाः सप्त परे निक्षिपेत्साधनाय तान् ।। २४१.
चतुर्विधं स्मृतं साम उपकारानुकीर्त्तनात् । मिथःसम्बन्धकथनं मृदुपूर्व्वं च भाषणं ।। २४१.
आयाते दर्शनं वाचा तवाहमिति चार्पणं । यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः ।। २४१.
प्रतिदानं तदा तस्य गृहीतस्यानुमोदनं । द्रव्यदानमपूर्व्वं च स्वयङ्ग्राहप्रवर्त्तनं ।। २४१.
देयश्च चप्रतिमोक्षश्च दानं पञ्चविधं स्मृतं । स्नेहरागापनयनसंहर्षोत्पादनं तथा ।। २४१.
मिथो भेदश्च भेदज्ञैर्भेदश्च त्रिविधः स्मृतः । बधोऽर्थहरणं चैव परिक्लेशस्त्रिधा दमः ।। २४१.
प्रकाशश्चाप्र्काशश्च लोकद्विष्टान् प्रकाशतः । उद्विजेत हतैर्ल्लोकस्तेषु पिण्डः प्रशस्यते ।। २४१.
विशेषेणोपनिषद्योगैर्हन्याच्छस्त्रादिना द्विषः । जातिमात्रं द्विजं नैव हन्यात् सामोत्तरं वशे ।। २४१.
प्रलिम्पन्निव चेतांसि दृष्ट्वासाधु पिबन्निव । ग्रसन्निवामृतं साम प्रयुञ्जीत प्रियं वचः ।। २४१.
मिथ्याभिशस्तः श्रीकाम आहूयाप्रतिमानितः । राजद्वेषी चातिकर आत्मसम्बावितस्तथा ।। २४१.
विच्छिन्नधर्म्मकामार्थः क्रुद्धो मानी विमानितः । अकारणात् परित्यक्तः कृतवैरोऽपि सान्त्वितः ।। २४१.
हृतद्र्व्यकलत्रश्च पूजार्होऽप्रतिपूजितः । एतांस्तु भेदयेच्छत्रौ स्थितान्नित्यान् सुशङ्कितान् ।। २४१.
आगतान् पूजयेत् कामैर्न्निजांश्च प्रशमन्नयेत् । सामदृष्टानुसन्धानमत्युग्रभयदर्शनं ।। २४१.
प्रधानदानमानं च भेदोपायाः प्रकीर्त्तिताः । मित्रं हतं क्काष्ठमिव घुणजग्धं विशीर्य्यते ।। २४१.
त्रिशक्तिर्द्देशकालज्ञो दण्डेनास्तं नयेदरीन् । मैत्रीप्रधानं कल्याणबुद्धिं सान्त्वेन साधयेत् ।। २४१.
लुब्धं क्षीणञ्च चदानेन मित्रानन्योन्यशङ्कया । दण्डस्य दर्शनाद्दुष्टान् पुत्रभ्रातादि सामतः ।। २४१.
दानभेदैश्चमूमुख्यान् योधान् जनपदादिकान् । सामन्ताटविकान् भेददण्डाभ्यामपराद्धकान् ।। २४१.
देवताप्रतिमानान्तु पूजयान्तर्गतैर्न्नरैः । पुमान् स्त्रीवस्त्रसंवीतो निशि चाद्भुतदर्शनः ।। २४१.
वेतालोल्कापिशाचानां शिवानां च स्वरूपिकी । कामतो रूपधारित्वं शस्त्रागन्यश्माम्बुवर्षणं ।। २४१.
तमोऽनिलोऽनलो मेव इति माया ह्यमानुषी। जघान कीचकं भीम आस्थितः स्त्रीस्वरूपतां ।। २४१.
अन्याये व्यस्ने युद्धे प्रवृत्तस्यानिवारणं । उपेक्षेयं स्मृता भ्रातोपेक्षितश्च हिडिम्बया ।। २४१.
मेघान्धकारवृष्टग्निपर्वताद्भुतदर्शनं । दरस्थानं च सैन्यानां दर्शनं ध्वजशालिनां ।। २४१.
छिन्नपाटितभिन्नानां संसृतानां व दर्शनं । इतीन्द्रजालं द्विषताम्भीत्यर्थमुपकल्पयेत् ।। २४१.
अग्निरुवाच रामोक्तोक्ता मथा नीतिः स्त्रीणां राजन् नृणां वदे । लक्षणं यत्समुद्रेण गर्गायोक्तं यथा पुरा ।। २४३.
समुद्र उवाच । पुंसाञ्च लक्षणं वक्ष्ये स्त्रीणाञ्चैव शुभाशुभं । एकाधिको द्विशुक्लश्च त्रिगम्भीरस्तथैव च ।। २४३.
त्रित्रिकस्त्रिप्रलम्बश्च त्रिभिर्व्याप्नोति यस्तया । त्रिबलीमांस्त्रिविनतस्त्रिकालज्ञश्च सुव्रत ।। २४३.
पुरुषः स्यात्सुलक्षण्यो विपुलश्च तथा त्रिषु । चतुर्ल्लेशस्तथा यश्च तथैव च चतुःसमः ।। २४३.
चतुष्किष्कुश्चतुर्दंश्च सप्तस्नेहो नवामलः । दशपद्मो दशव्यूहो न्यग्रोधपरिमण्डलं ।। २४३.
षडुन्नतोऽष्टवंशश्च सप्तस्नहो नवामलः । दशपद्मो दशव्यूहो न्यग्रोधपरिमण्डलः ।। २४३.
चतुर्दशसमद्वन्द्वः षोडशाक्षश्च शस्यते । धर्मार्थकामसंयुक्तो धर्मो ह्येकाधिको मतः ।। २४३.