वाक्पारुष्यं परं लोके उद्वेजनमनर्थकं । असिद्धसाधनं दण्डस्यं युक्त्यावनयोन्नृपः ।। २४१.
उद्वेजयति भूतानि दण्डपारुष्यवान् नृपः । भूतान्युद्वेज्यमानानि द्विषतां यान्ति संश्रयं ।। २४१.
विवृद्धाः शत्रवश्चैव विनाशाय भवन्ति ते । दूष्यस्य दूषणार्थञ्च परित्यागो महीयसः ।। २४१.
अर्थस्य नीतितत्त्वज्ञैरर्थदूषणमुच्यते । पानात् कार्य्यादिनो ज्ञानं मृगयातोऽरितः ।। २४१.
जितश्रमार्थं मृगयां विचरेद्रक्षिते वने । धर्म्मार्थप्राणनाशादि द्यूते स्यात् कलहादिकं ।। २४१.
कालातिपातो धर्म्मार्थपीडा स्त्रीव्यसनाद्भ्वेत् । पानदोषात् प्राणनाशः कार्य्याकार्यविनिश्चयः ।। २४१.
स्कन्धावारनिवेशज्ञो निमित्तज्ञो रिपुं जयेत् । स्कन्धावारस्य मध्ये तु सकोषं नृपतेर्गृहं ।। २४१.
मौलीभूतं श्रेणिसुहृद्द्विषदाटविकं बलं । राजहर्म्यं समावृत्य क्रमेण विनिवेशयेत् ।। २४१.
सैन्यैकदेशः सन्नद्धः सेनापतिपुरःसरः । परिभ्रमेच्चत्वरांश्च मण्डलेन वहिर्न्निशि ।। २४१.
वार्त्ताः स्वका विजानीयाद्दरसीमान्तचारिणः । निर्गच्छेत् प्रविशेच्चैव सर्व्व एवोपलक्षितः ।। २४१.
सामदानं च भेदश्च दण्डोपेक्षेन्द्रजालकं । मायोपायाः सप्त परे निक्षिपेत्साधनाय तान् ।। २४१.
चतुर्विधं स्मृतं साम उपकारानुकीर्त्तनात् । मिथःसम्बन्धकथनं मृदुपूर्व्वं च भाषणं ।। २४१.
आयाते दर्शनं वाचा तवाहमिति चार्पणं । यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः ।। २४१.
प्रतिदानं तदा तस्य गृहीतस्यानुमोदनं । द्रव्यदानमपूर्व्वं च स्वयङ्ग्राहप्रवर्त्तनं ।। २४१.
देयश्च चप्रतिमोक्षश्च दानं पञ्चविधं स्मृतं । स्नेहरागापनयनसंहर्षोत्पादनं तथा ।। २४१.
मिथो भेदश्च भेदज्ञैर्भेदश्च त्रिविधः स्मृतः । बधोऽर्थहरणं चैव परिक्लेशस्त्रिधा दमः ।। २४१.
प्रकाशश्चाप्र्काशश्च लोकद्विष्टान् प्रकाशतः । उद्विजेत हतैर्ल्लोकस्तेषु पिण्डः प्रशस्यते ।। २४१.
विशेषेणोपनिषद्योगैर्हन्याच्छस्त्रादिना द्विषः । जातिमात्रं द्विजं नैव हन्यात् सामोत्तरं वशे ।। २४१.
प्रलिम्पन्निव चेतांसि दृष्ट्वासाधु पिबन्निव । ग्रसन्निवामृतं साम प्रयुञ्जीत प्रियं वचः ।। २४१.
मिथ्याभिशस्तः श्रीकाम आहूयाप्रतिमानितः । राजद्वेषी चातिकर आत्मसम्बावितस्तथा ।। २४१.
विच्छिन्नधर्म्मकामार्थः क्रुद्धो मानी विमानितः । अकारणात् परित्यक्तः कृतवैरोऽपि सान्त्वितः ।। २४१.
हृतद्र्व्यकलत्रश्च पूजार्होऽप्रतिपूजितः । एतांस्तु भेदयेच्छत्रौ स्थितान्नित्यान् सुशङ्कितान् ।। २४१.
आगतान् पूजयेत् कामैर्न्निजांश्च प्रशमन्नयेत् । सामदृष्टानुसन्धानमत्युग्रभयदर्शनं ।। २४१.
प्रधानदानमानं च भेदोपायाः प्रकीर्त्तिताः । मित्रं हतं क्काष्ठमिव घुणजग्धं विशीर्य्यते ।। २४१.
त्रिशक्तिर्द्देशकालज्ञो दण्डेनास्तं नयेदरीन् । मैत्रीप्रधानं कल्याणबुद्धिं सान्त्वेन साधयेत् ।। २४१.
लुब्धं क्षीणञ्च चदानेन मित्रानन्योन्यशङ्कया । दण्डस्य दर्शनाद्दुष्टान् पुत्रभ्रातादि सामतः ।। २४१.
दानभेदैश्चमूमुख्यान् योधान् जनपदादिकान् । सामन्ताटविकान् भेददण्डाभ्यामपराद्धकान् ।। २४१.
देवताप्रतिमानान्तु पूजयान्तर्गतैर्न्नरैः । पुमान् स्त्रीवस्त्रसंवीतो निशि चाद्भुतदर्शनः ।। २४१.
वेतालोल्कापिशाचानां शिवानां च स्वरूपिकी । कामतो रूपधारित्वं शस्त्रागन्यश्माम्बुवर्षणं ।। २४१.
तमोऽनिलोऽनलो मेव इति माया ह्यमानुषी। जघान कीचकं भीम आस्थितः स्त्रीस्वरूपतां ।। २४१.