पानं स्त्री मृगया द्यूतं व्यसनानि महीपतेः । आलस्यं स्तब्धता दर्पः प्रमादो द्वैधकारिता ।। २४१.
इति पूर्व्वेपदिष्टञ्च सचिवव्यसनं स्मृतं । अनावृष्टिश्च पीडादी राष्ट्रव्यसनमुच्यते ।। २४१.
विशीर्णयन्त्रप्राकारपरिखात्वमशस्त्रता । क्षीणया सेनया नद्धं दुर्गव्यसनमुच्यते ।। २४१.
व्ययीकृतः परिक्षिप्तोऽप्रजितोऽसञ्चितस्तथा । दषितो दरसंस्थश्च कोषव्यसनमुच्यते ।। २४१.
उपरुद्धं परिक्षिप्तोऽप्तममानितविमानितं । अभूतं व्याधितं श्रान्तं दूरायातन्नवागतं ।। २४१.
परिक्षीणं प्रतिहतं प्रहताग्रतरन्तथा । आशानिर्वेदभूयिष्ठमनृतप्राप्तमेव च ।। २४१.
कलत्रगर्भन्निक्षिप्तमन्तःशल्पं तथैव च । विच्छिन्नवीवधासारं शून्यमूलं तथैव च ।। २४१.
अस्वाम्यसंहतं वापि भिन्नकूटं तथैव च । दुष्पार्ष्णिग्राहमर्थञ्च बलव्यसनमुच्यते ।। २४१.
दैवोपपीडितं मित्रं ग्रस्तं शत्रुवलेन च । कामकोधादिसंयुक्तमुत्साहादरिभिर्भवेत् ।। २४१.
अर्थस्य दूषणं क्रोधात् पारुष्यं वाक्यदण्डयोः । कामजं मृगया द्यूतं व्यसनं पानकं स्त्रियः ।। २४१.
वाक्पारुष्यं परं लोके उद्वेजनमनर्थकं । असिद्धसाधनं दण्डस्यं युक्त्यावनयोन्नृपः ।। २४१.
उद्वेजयति भूतानि दण्डपारुष्यवान् नृपः । भूतान्युद्वेज्यमानानि द्विषतां यान्ति संश्रयं ।। २४१.
विवृद्धाः शत्रवश्चैव विनाशाय भवन्ति ते । दूष्यस्य दूषणार्थञ्च परित्यागो महीयसः ।। २४१.
अर्थस्य नीतितत्त्वज्ञैरर्थदूषणमुच्यते । पानात् कार्य्यादिनो ज्ञानं मृगयातोऽरितः ।। २४१.
जितश्रमार्थं मृगयां विचरेद्रक्षिते वने । धर्म्मार्थप्राणनाशादि द्यूते स्यात् कलहादिकं ।। २४१.
कालातिपातो धर्म्मार्थपीडा स्त्रीव्यसनाद्भ्वेत् । पानदोषात् प्राणनाशः कार्य्याकार्यविनिश्चयः ।। २४१.
स्कन्धावारनिवेशज्ञो निमित्तज्ञो रिपुं जयेत् । स्कन्धावारस्य मध्ये तु सकोषं नृपतेर्गृहं ।। २४१.
मौलीभूतं श्रेणिसुहृद्द्विषदाटविकं बलं । राजहर्म्यं समावृत्य क्रमेण विनिवेशयेत् ।। २४१.
सैन्यैकदेशः सन्नद्धः सेनापतिपुरःसरः । परिभ्रमेच्चत्वरांश्च मण्डलेन वहिर्न्निशि ।। २४१.
वार्त्ताः स्वका विजानीयाद्दरसीमान्तचारिणः । निर्गच्छेत् प्रविशेच्चैव सर्व्व एवोपलक्षितः ।। २४१.
सामदानं च भेदश्च दण्डोपेक्षेन्द्रजालकं । मायोपायाः सप्त परे निक्षिपेत्साधनाय तान् ।। २४१.
चतुर्विधं स्मृतं साम उपकारानुकीर्त्तनात् । मिथःसम्बन्धकथनं मृदुपूर्व्वं च भाषणं ।। २४१.
आयाते दर्शनं वाचा तवाहमिति चार्पणं । यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः ।। २४१.
प्रतिदानं तदा तस्य गृहीतस्यानुमोदनं । द्रव्यदानमपूर्व्वं च स्वयङ्ग्राहप्रवर्त्तनं ।। २४१.
देयश्च चप्रतिमोक्षश्च दानं पञ्चविधं स्मृतं । स्नेहरागापनयनसंहर्षोत्पादनं तथा ।। २४१.
मिथो भेदश्च भेदज्ञैर्भेदश्च त्रिविधः स्मृतः । बधोऽर्थहरणं चैव परिक्लेशस्त्रिधा दमः ।। २४१.
प्रकाशश्चाप्र्काशश्च लोकद्विष्टान् प्रकाशतः । उद्विजेत हतैर्ल्लोकस्तेषु पिण्डः प्रशस्यते ।। २४१.
विशेषेणोपनिषद्योगैर्हन्याच्छस्त्रादिना द्विषः । जातिमात्रं द्विजं नैव हन्यात् सामोत्तरं वशे ।। २४१.
प्रलिम्पन्निव चेतांसि दृष्ट्वासाधु पिबन्निव । ग्रसन्निवामृतं साम प्रयुञ्जीत प्रियं वचः ।। २४१.
मिथ्याभिशस्तः श्रीकाम आहूयाप्रतिमानितः । राजद्वेषी चातिकर आत्मसम्बावितस्तथा ।। २४१.