कुर्य्यादुद्योगसम्पन्नानध्यक्षआन् सर्वकर्म्मसु । कृषिर्व्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनं ।। २३९.
खन्याकरबलादानं शुन्यानां च निवेशनं । अष्टवर्गमिमं राजा साधुवृत्तोऽनुपालयेत् ।। २३९.
आमुक्तिकेभ्यश्चौरेभ्यः पौरेब्यो राजवल्लभात् । पृथिवीपतिलोभाच्च चप्रजानां पञ्चधा भयं ।। २३९.
अवेक्ष्यैतद्भ्यं काले आददीत करं नृपः । अभ्यन्तरं शरीरं स्वं वाह्यं राष्ट्रञ्च रक्षयेत् ।। २३९.
दड्यांस्तु दण्डयेद्राजा स्वं रक्षेच्चःविषादितः । स्त्रियः पुत्रांश्च शत्रुभ्यो विश्वसेन्न कदाचन ।। २३९.
राम उवाच प्रभावोत्साहशक्तिभ्यां मन्त्रशक्तिः प्रशस्यते । प्रभावोत्साहवान् काव्यो जितो देवपुरोधसा ।। २४१.
मन्त्रयेतेह कार्य्याणि नानाप्तैर्न्नाबिपश्चिता । अशक्यारम्भवृत्तीनां कुतः क्लेशादृते फलं ।। २४१.
अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः । अर्थद्वैधस्य सन्देहच्छेदनं शेषदर्शनं ।। २४१.
सहायाः साधनोपाया विभागो देशकालयोः । विपत्तेश्च प्रतीकारः पञढ्चान्नो मन्त्र इष्यते ।। २४१.
मनःप्रसादः श्रद्धा च तथा करणपाटवं । सहायोत्थानसम्पच्च कर्म्मणां सिद्धिलक्षणं ।। २४१.
मदः प्रमादः कामश्च सुप्तप्रलपितानि च । भिन्दन्ति मन्त्रं प्रच्छन्नाः कामिन्यो रमतान्तथा ।। २४१.
प्रगल्भः स्मृतिमान्वाग्मी शस्त्रे शास्त्रे च निष्ठितः । अब्यस्तकर्म्मां नृपतेर्दूतो भवितुमर्हति ।। २४१.
सामर्थ्यात् पादतो हीनो दूतस्तु त्रिविधः स्मृतः ।। २४१.
नाविज्ञातं पुरं शत्रोः प्रविशेच्च न शंसदं। कालमीक्षेत कार्य्यार्थमनुज्ञातश्च निष्पतेत् ।। २४१.
छिद्रञ्च शत्रोर्जानीयात् कोषमित्रबलानि च । रागापरागौ जानीयाद् दृष्टिगात्रविचेष्टितैः ।। २४१.
कुर्य्याच्चतुर्विधं स्तोत्रं पक्षयोरुभयोरपि । तपस्विव्यञ्जनोपेतैः सुचरैः सह संवसेत् ।। २४१.
चरः प्रकाशो दूतः स्यादप्र्काशश्चरो द्विधा । बणिक् कृषीबलो लिङ्गी बिक्षुकाद्यात्मकाश्चराः ।। २४१.
यायादरिं व्यसनिनं निष्फले दूतचेष्टिते । प्रकृतिव्यसनं यत्स्यात्तत् समीक्ष्य समुत्पतेत् ।। २४१.
अनयाद्व्यस्यति श्रेयस्तस्मात्तद्व्यसनं स्मृतं । हुताशनो जलं व्याधिर्दुर्भिक्षं मरकं तथा ।। २४१.
इति पञ्चविधं दैवं व्यसनं मानुषं परं। दैवं पुरुषकारेण शान्त्या च प्रशमन्नयेत् ।। २४१.
उत्थापितेन नीत्या च मानुषं व्यसनं हरेत् । मन्त्रो मन्त्रफलावाप्तिः कार्य्यानुष्ठानमायतिः ।। २४१.
आयव्ययौ दण्डनीतिरमित्रप्रतितषेधनं । व्यसनस्य प्रतीकारो राज्यराजाभिरक्षणं ।। २४१.
इत्यमात्यस्य कर्म्मदं इन्ति सव्यसनान्वितः । हिरण्यधान्यवस्त्राणि वाहनं प्रजया भवेत् ।। २४१.
तथान्ये द्रव्यनिचया हन्ति सव्यसना प्रजा । प्र्जानामापदिस्थानां रक्षणं कोषदण्डयोः ।। २४१.
पौराद्याश्चोपकुर्वन्ति संश्रयादिह दुर्द्दिनं । तूष्णीं युद्धं जनत्राणं मित्रामित्रपरिग्रहः ।। २४१.
सामन्तादि कृते दोषे नश्येत्तद्व्यसनाच्च तत् । भृत्यानां भरणं दानं प्र्जामित्रपरिग्रहः ।। २४१.
धर्म्मकामादिभेदश्च दुर्गसंस्कारभूषणं । कोषात्तद्व्यसनाद्धन्ति कोषमूलो हि भूपतिः ।। २४१.
मित्रामित्रावनीहेमसाधनं रिपुमर्द्दनं । दूरकार्य्याशुकारित्वं दण्डात्तद्व्यसनाद्धरेत् ।। २४१.
संस्तम्भयति मित्राणि अमित्रं नाशयत्यपि । धनाद्यैरुपकारित्वं मित्रात्तद्व्यसनाद्धरेत् ।। २४१.
राजाच सव्यसनी हन्याद्राजकार्य्याणि यानि च । वाग्दण्डयोश्च पारुष्यमर्थदूषणमेव च ।। २४१.