प्रत्यक्षतो विजानीयाद भद्रतां क्षुद्रतामपि । फलानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ।। २३९.
शस्याकरवती पुण्या खनिद्रव्यसमन्विता । गोहिता भूरिसलिला पुन्यैर्जनपदैर्युता ।। २३९.
रम्या सकुञ्जरबला वारिस्थलपथान्विता । अदेवमातृका चेति शस्यते भूरिभूतये ।। २३९.
शूद्रकारुवणिक्प्रायो महारम्भः कृषीबलः । सानुरागो रिपुद्वेषी पीड़ासहकरः पृथुः ।। २३९.
नानादेश्यैः समाकीर्णो धार्म्मिकः पशुमान् बली । ईदृक्जनपदः शस्तोऽमूर्खव्यसनिनायकः।। २३९.
पृथुसीमं महाखातमुच्चप्राकारतोरणं । पुरं समावसेच्छैलसरिन्मरुवनाश्रयं ।। २३९.
जलवद्धान्यधनवद्दुर्गं कालसहं महत् । औदकं पार्वतं वार्क्षमैरिणं धन्विनं च षट् ।। २३९.
ईप्सितद्रव्यसम्पूर्णः पितृपैताम्होचितः । धर्मार्जितो व्ययसहः कोषो धर्मादिवृद्धये ।। २३९.
पितृपैतामहो वश्यः संहतो दत्तवेतनः । विख्यातपौरुषो जन्यः कुशलः शकुनैर्वृतः ।। २३९.
नानाप्रहरणोपेतो नानायुद्धविशारदः । नानायोधसमाकीर्णो नीराजितहयद्विपः ।। २३९.
प्रवासायासदुःखेषु युद्धेषु च कृतश्रमः । अद्वैधक्षत्रियपयो दण्डो दण्डवतां मतः ।। २३९.
योगविज्ञानसत्त्वाढ्यं महापक्षं प्रियम्बदं । आयतिक्षममद्वैधं मित्रं कुर्वीत सत्कुल ।। २३९.
दूरादेवाभिगमनं स्पष्टार्थहृदयानुगा । वाक् सत्कृत्य प्रदानञ्च त्रिविधो मित्रसङ्ग्रहः ।। २३९.
धर्मकामार्थसंयोगो मित्रात्तु त्रिविधं फलं । औरसं तत्र सन्नद्धं१६ तथा वंशक्रमागतं ।। २३९.
रक्षइतं व्ससनेभ्यश्च मित्रं ज्ञेयं चतुर्विधं । मित्रे गुणाः सत्यताद्याः समानसुखदुःखता ।। २३९.
वक्ष्येऽनुजीविनां वृत्तं सेवी सेवेत भूपतिं । दक्षता भद्रता दार्ढ्य क्षान्तिः क्लेशसहिष्णुता ।। २३९.
सन्तोषः शीलभुत्साहो मण्डयत्यनुजीविनं । यथाकालमुपासीत राजानं सेवको नयात् ।। २३९.
परस्थानगमं क्रौर्य्यमौद्धत्यं मत्सरन्त्यजेत् । विगृह्य कथनं भृत्यो न कुर्य्याज् ज्यायसा सह ।। २३९.
गुह्यं मर्म्म च मन्त्रञ्च न च भर्त्तुः प्रकाशयेत् । रक्ताद् वृत्तिं समीहेत् विरक्तं सन्त्यजेन्नृपं ।। २३९.
आजीव्यः सर्व्वसत्त्वानां राजा पर्जन्यवद्भवेत् । आयद्वारेषु चाप्त्यर्थं धनं चाददतीति च ।। २३९.
कुर्य्यादुद्योगसम्पन्नानध्यक्षआन् सर्वकर्म्मसु । कृषिर्व्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनं ।। २३९.
खन्याकरबलादानं शुन्यानां च निवेशनं । अष्टवर्गमिमं राजा साधुवृत्तोऽनुपालयेत् ।। २३९.
आमुक्तिकेभ्यश्चौरेभ्यः पौरेब्यो राजवल्लभात् । पृथिवीपतिलोभाच्च चप्रजानां पञ्चधा भयं ।। २३९.
अवेक्ष्यैतद्भ्यं काले आददीत करं नृपः । अभ्यन्तरं शरीरं स्वं वाह्यं राष्ट्रञ्च रक्षयेत् ।। २३९.
दड्यांस्तु दण्डयेद्राजा स्वं रक्षेच्चःविषादितः । स्त्रियः पुत्रांश्च शत्रुभ्यो विश्वसेन्न कदाचन ।। २३९.
राम उवाच प्रभावोत्साहशक्तिभ्यां मन्त्रशक्तिः प्रशस्यते । प्रभावोत्साहवान् काव्यो जितो देवपुरोधसा ।। २४१.
मन्त्रयेतेह कार्य्याणि नानाप्तैर्न्नाबिपश्चिता । अशक्यारम्भवृत्तीनां कुतः क्लेशादृते फलं ।। २४१.
अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः । अर्थद्वैधस्य सन्देहच्छेदनं शेषदर्शनं ।। २४१.
सहायाः साधनोपाया विभागो देशकालयोः । विपत्तेश्च प्रतीकारः पञढ्चान्नो मन्त्र इष्यते ।। २४१.
मनःप्रसादः श्रद्धा च तथा करणपाटवं । सहायोत्थानसम्पच्च कर्म्मणां सिद्धिलक्षणं ।। २४१.