कृपणः पीड्यमानो हि मन्युना इन्ति पार्थिवं । क्रियतेऽभ्यर्हणीयाय स्वजनाय यथाञ्जलिः ।। २३८.
ततः साधुतरः कार्यो दुर्जनाय शिवाथिंना । प्रियमेवाभिघातव्यं सत्सु नित्यं द्विषत्सु च ।। २३८.
देवास्ते प्रियवक्तारः पशवः क्रूरवादिनः । शुचिरास्तिक्यपूतात्मा पूजयेद्देवताः सदा ।। २३८.
देवतावद् गुरुजनमात्मवच्च सुहृज्जनं । प्रणिपातेन हि गुरुं सतोऽमृषानुचेष्टितैः ।। २३८.
कुर्व्वीताभिमुखान् भृत्यैर्द्दवान् सुकृतकर्म्मणा । मद्भावेन हरेन्मित्रं सम्भ्रमेण च बान्धवान् ।। २३८.
स्त्रीभृत्यान् प्रेम्दानाभ्यां दाक्षिण्येनेतरं जनं । अनिन्दा परकृत्येषु स्वधर्म्मपरिपालनं ।। २३८.
कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः । प्राणैरप्यपकारित्वं मित्रायाव्यभिचारिणे ।। २३८.
गृहागते परिष्वङ्गः सक्त्या दानं सहिष्णुता । स्वसमृद्धिष्वनुत्सेकः पररवृद्धिष्वमत्सरः ।। २३८.
अपरोपतापि वचनं मौनव्रतचरिष्णुता । बन्धुभिर्बद्धसंयोगः स्वजने चतुरश्रता ।। २३८.
राम उवाच स्वाम्यमात्यञ्च राष्ट्रञ्च दुर्गं कोषो बलं सुहृतं । परस्परोपकारीदं सप्ताङ्गं राकज्यमुच्य्ते ।। २३९.
राज्याङ्गानां वरं राष्ट्रं साधनं पालयेत् सदा । कुलं शीलं वयः सत्त्वं दाक्षिण्यं क्षिप्रकारिता ।। २३९.
अविसंवादिता सत्यं वृद्धसेवा कृतज्ञता । दैवसम्पन्नता बुद्धिरक्षुद्रपरिवारता ।। २३९.
दीर्घदर्शित्वमुत्साहः शुचिता स्थूललक्षिता ।। २३९.
विनीतत्वं धार्मिकता साधोश्च नृपतेर्गुणाः । प्रख्यातवंशमक्रूरं लोकसङ्ग्राहिणं शुचिं ।। २३९.
कुर्व्वीतात्महिताकाङ्क्षी परिचारं महीपतिः । वाग्मी प्रगल्भः स्मृतिमानुदग्रो बलवान् वशी ।। २३९.
नेता दण्डस्य निपुणः कृतशिल्पपरिग्रहः । पराभियोगप्रसहः सर्वदुष्टप्रतिक्रिया ।। २३९.
परवृत्तान्ववेक्षी च सन्धिविग्रहतत्तववित् । गूढमन्त्रप्रचारज्ञो देशकालविभागवित् ।। २३९.
आदाता सम्यगर्थानां विनियोक्ता च पात्रवित् । क्रोधलोभभयद्रोहदम्भचापलवर्ज्जितः ।। २३९.
परोपतापपैशून्यमात्सर्येर्षानृतातिगः । वृद्धोपदेशसम्पन्नः शक्तो मधुरदर्शनः ।। २३९.
गुणानुरागस्थितिमानात्मसम्पद्गुणा स्मृताः । सुलीनाः शुचयः शूराः श्रुतवन्तोऽनुरागिणः ।। २३९.
दण्डनीतेः प्रयोक्तारः सचिवाः स्युर्म्महीपतेः । सुविग्रहो जानपदः कुलशीलकलान्वितः ।। २३९.
वाग्मी प्रगल्भश्चक्षुष्मानुत्साही प्रतिपत्तिमान् । स्तम्भ्चापलहीनश्च मैत्रः क्लेशसहः शुचिः ।। २३९.
सत्यसत्त्वधृतिस्थैर्य्यप्रबावारोग्यसंयुतः । कृतशिल्पश्च७ दक्षश्च प्रज्ञावान् धारणान्वितः ।। २३९.
दृढभक्तिरकर्त्ता च वैराणां सचिवो भवेत् । स्मृतिस्तत्परतार्थेषु चित्तज्ञो ज्ञाननिश्चयः ।। २३९.१५ दृढता मन्त्रगुप्तिश्च मन्त्रिसम्पत् प्रकीर्त्तिता । त्रय्यां च दण्डनीत्यां च कुशलः स्यात् पुरोहितः ।। २३९.
अथर्व्ववेदविहितं कुर्य्याच्छान्तिकपौष्टिकं । साधुतैषाममात्यानां तद्विद्यैः सह बुद्धिमान् ।। २३९.
चक्षुष्मत्तां च शिल्पञ्च परीक्षएत गुणद्वयं । स्वजनेभ्यो विजानीयात् कुलं स्थानमवग्रहं ।। २३९.
परिकर्म्म्सु दक्षञ्च विज्ञानं धारयिष्णुतां । गुणत्रयं परीक्षेत प्रागल्भ्यं प्रीतितां तथा ।। २३९.
कथायोगेषु बुद्ध्येत वाग्मित्वं सत्यवादितां । उत्साहं च प्रभावं च तथा क्लेशसहिष्णुतां ।। २३९.
धृतिं चैवानुरागं च स्थैर्य्यञ्चापदि लक्ष्येत् । भक्तिं मैत्रीं च शौचं च जानीयाद्व्यवहारतः ।। २३९.
संवासिभ्यो बलं सत्त्वमारोग्यं शीलमेव च । अस्तव्धतामचापल्यं वैराणां चाप्यकार्त्तनं ।। २३९.