अयमात्मा परं ब्रह्म अहं ब्रह्मास्मि विद्धि तम् । सिद्ध्यसिद्ध्योः समो योगी राजधर्म्मं प्रपालय
कृष्णोक्तोथार्जुनोऽयुध्यद्रथस्थो वाद्यशब्दवान्। भीष्मः सेनापतिरभूदादौ दौर्योधने बले
पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह। धार्त्तराष्ट्राः पाण्डवांश्च जघ्नुर्युद्धे सभीष्मकाः
धार्त्तराष्ट्रान् शिखण्ड्याद्याः पाण्डवा जघ्नुराहेवे। देवासुरसमं युद्धं कुरुपाण्डवसेनयोः
बभूव स्वः स्थदेवानां पश्यतां प्रीतिबर्द्धनम्। भीष्मोस्त्रैः पाण्डवं सैन्यं दशाहोभिर्न्यपातयत्
दशमे ह्यर्जुनौ बाणैर्भिष्मं वीरं ववर्ष ह। शिखण्डी द्रुपदोत्तोऽस्त्रैर्ववर्ष जलदो यथा
हस्त्यश्वरथपादातमन्योन्यास्त्रनिपातितम् । भीष्मः स्वच्छन्दमृत्युश्च युद्धमार्गं प्रदर्श्य च
वसूक्तो वसुलोकाय शरशय्यागतः स्थितः। उत्तरायणमीक्षंश्च ध्यायन् विष्णुंस्तुवन् स्थितः
दुर्योधने तु शोकार्त्ते द्रोणः सेनापतिस्त्वभूत्। पाण्डवे हर्षिते सैन्ये धृष्टद्युम्नश्चमूपतिः
तयोर्युद्धं बभूवोग्रं यमराष्ट्रविवर्धनम्। विराटद्रुपदाद्याश्च निमग्ना द्रोणसागरे
दौर्योधनी महासेना हस्त्यश्वरथपत्तिनी। धृष्टद्युम्नाधिपतिता द्रोणः काल इवाबभौ
हतोश्वत्थामा चेत्युक्ते द्रोणः शस्त्राणि चात्यजत्। धृष्टद्युम्नशराक्रान्तः पतितः स महीतले
पञ्चमेहनि दुर्द्धर्षः सर्वक्षत्रं प्रमथ्य च। दुर्योधने तु शोकार्ते कर्णः सेनापतिस्त्वभूत्
अर्जुनः पाण्डवानाञ्च तयोर्युद्धं बभूव ह। शस्त्रशस्त्रि महारौद्रं देवासुररणोपमम्
कर्णार्जुनाख्ये सङ्प्रामे कर्णोरीनवधीच्छरैः। द्वितीयेहनि कर्णस्तु अर्जुनेन निपातितः
शल्यो दिनार्द्धं युयुधे ह्यबधीत्तं युधिष्ठिरः। युयुधे भीमसेनेन हतसैन्यः सयोधनः
बहून् हत्वा नरादींश्च भीमसेनमथाब्रबीत्। गदया प्रहरन्तं तु भीमस्तन्तु न्यपातयत्
गदयान्यानुजांस्तस्य तस्मिन्नष्टादशेहनि। रात्रौ सषुप्तञ्च बलं पाण्डवानां न्यपातयत्
अक्षौहिणीप्रमाणन्तु अश्वत्थामा महाबलः। द्रौपदेयान् सापञ्चालान् धृष्टद्युन्नञ्च सोऽवधीत्
पुत्रहीनां द्रौपदीं तां रुदन्तीमर्जुनस्ततः। शिरोमणिं तु जग्राह ऐषिकास्त्रेण तस्य च
अश्वत्थामास्त्रनिर्द्दग्धं जीवयामास वै हरिः। उत्तरायास्ततो गर्भं स परीक्षिदभून्नृपः
कृतवर्म्मा कृपो द्रौणिस्त्रयो मुक्तास्ततो रणात् । पाण्डवाः सात्यकिः कृष्णः सप्त मुक्ता न चापरे
स्त्रियश्चार्त्ताः समाश्वास्य भीमाद्यैः स युधिष्ठिरः । संस्कृत्य प्रहतान् वीरान् दत्तोदकधनादिकः
भीष्माच्छान्तनवाच्छ्रुत्वा धर्म्मान् सर्वांश्च शान्तिदान् । राजधर्म्मान्मोक्षधर्न्मान्दानधर्म्मान् नृपोऽभवत्
अश्वमेधे ददौ दानं ब्राह्मणेभ्योरिमर्द्दनः। श्रुत्वार्जुनान्मौषलेयं यादवानाञ्च सङ्क्षयम्
अग्निरुवाच युधिष्ठिरे तु राज्यस्थे आश्रमादाश्रमान्तरम्। धृतराष्ट्रो वनमगाद् गान्धारी च पृथा द्विच
विदुरस्त्वग्निना दग्धो वनजेन दिवङ्गतः। एवं विष्णुर्भुवो भारमहरद्दानवादिकम्
धर्म्मायाधर्म्मनाशाय निमित्तीकृत्य पाण्डवान्। स विप्रशापव्याजेन मुषलेनाहरत् कुलम्
यादवानां भारकरं वज्रं राज्येभ्यषेचयत्। देवादेशात् प्रभासे स देहं त्यक्त्वा स्वयं हरिः
इन्द्रलोके ब्रह्मलोके पूज्यते स्वर्गवासिभिः। बलभद्रोनन्तमूर्त्तिः पातालस्वर्गमीयिवान्