इन्द्र उवाच । नमस्ये सर्वलोकानां जननीमब्धिसम्भवां । श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थितां ।। २३७.
त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनि । सन्ध्या रात्रिः प्रभा भूतिर्म्मेधा श्रद्धा सरस्वती ।। २३७.
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ।। २३७.
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्त्वमेव च । सौम्या सौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितं ।। २३७.
का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः । अध्यास्ते देव देवस्य योगिचिन्त्यं गदाभृतः ।। २३७.
त्वया देवि परित्यक्तं सकलं भुवनत्रयं । विनष्टप्रायमभवत् त्वयेदानीं समेधितं ।। २३७.
दाराः पुत्रास्तथागारं सुहृद्धान्यघनादिकं । भवत्येतन्महाभागो नित्यं त्वद्वीक्षणान् नृणां ।। २३७.
शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखं । देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्ल्लभं ।। २३७.
त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता । त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरं ।। २३७.
मानं कोषं तथा कोष्ठं मा गृहं मा परिच्छदं । मा शरीरं कलत्रञ्च त्यजेथाः सर्व्वपावनि ।। २३७.
मा पुत्रान्मासुहृद्वर्गान्मा पशून्मा विभूषणं । मम देवस्य विष्णोर्वक्षःस्थलालये ।। २३७.
सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः । त्यज्यन्ते ते नरा सद्यः सन्त्यक्ता ये त्वयामले ।। २३७.
त्वयावलोकिताः सद्यः शीलाद्यैरखिलैर्गुणेः । कुलैश्वर्य्यैश्च युज्यन्ते पुरुषा निर्गणा अपि ।। २३७.
सश्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् । स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ।। २३७.
सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः । परामुङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ।। २३७.
न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः । प्रसीद देवि पद्माक्षि नास्मांस्त्याक्षईः कदाचन ।। २३७.
पुष्कर उवाच । एवं स्तुता ददौ श्रीश्च वरमिन्द्राय चेप्सितं । सुस्थिरत्वं चराज्यस्य सङ्ग्रामविजयादिकं ।। २३७.
स्वस्तोत्रपाठश्रवणकर्तॄणां भुक्तिमुक्तिदं । श्रीस्तोत्रं तस्मात् पठेच्च श्रृणुयान्नरः ।। २३७.
अग्निरुवाच नीतिस्ते पुष्करोक्ता तु रामोक्ता लक्ष्मणाय या । जयाय तां प्रवक्ष्यामि श्रृणु धर्म्मादिवर्द्धनीं ।। २३८.
राम उवाच न्यायेनार्ज्जनमर्थस्य वर्द्धनं रक्षणं चरेत् । सत्पात्रप्रतिपत्तिश्च राजवृत्तं चतुर्विधं ।। २३८.
नयस्य विनयो मूलं विनयः शास्त्रनिश्चयात् । विनयो हीन्द्रियजयस्तैर्युक्तः पालयेन्महीं ।। २३८.
ग्रभावः शुचिता मैत्री त्यागः सत्यं कृतज्ञता । कुलं शीलं दमश्चेति गुणाः सम्पत्तिहेतवः ।। २३८.
प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनं । ज्ञानाङ्कुशेन कुर्व्वीत वश्यमिन्द्रियदन्तिनं ।। २३८.
कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा । षड्वर्गमुतसृजेदेनमस्मिंस्त्यक्ते सुखी नृपः ।। २३८.
आन्वीक्षिकीं त्रयीं वार्त्तां दण्डनीतिं च पार्थिवः । तद्विद्यैस्तत्क्रियोपैतैश्चिन्तयेद्विनयान्वितः ।। २३८.
आन्वीक्षिक्यार्थविज्ञानं धर्म्माधर्मौ त्रयीस्थितौ । अर्थानर्थौ तु वार्त्तायां दण्डनीत्यां नयानयौ ।। २३८.
अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा । वणिनां लिङ्गिनां चैव सामान्यो धर्म्म उच्यते ।। २३८.
प्रजाः समनुगृह्णीयात् कुर्य्यादाचारसंस्थितिं । वाक् सूनृता दया दानं हिनोपगतरक्षणं ।। २३८.
इति वृत्तं सतां साधुहितं सत्पुरुषव्रतं । आधिव्याधिपरीताय अद्य श्वो वा विनाशिने ।। २३८.
को हि राजा शरीराय धर्म्मापेतं समाचरेत् । न हि स्वसुखमन्विच्छन् पीडयेत् कृपणं जनं ।। २३८.