भेदनं संहतानाञ्च चर्मिणां कर्म्म कीर्त्तिंतं । विमुखीकरणं युद्धे धन्विनां च तथोच्यते ।। २३६.
दूरापसरणं यानं सुहतस्य तथोच्यते । त्रासनं रिपुसैन्यानां रथकर्म्म तथोच्यते ।। २३६.
भेदनं संहतानाञच भेदानामपि संहतिः । प्राकारतोरणाट्टालद्रुमभङ्गश्च सद्गजे ।। २३६.
पत्तिभूर्विषमा ज्ञेया रथाश्वस्य तथा सभा । सकर्द्दमा च नागानां युद्धभूमिरुदाहृता ।। २३६.
एवं विरचितव्यूहः कृतपृष्ठदिवाकरः । तथानुलोपशुक्रार्किदिक्पालमृदुमारुताः ।। २३६.
योधानुत्तेजयेत्सर्व्वान्नामगोत्रावदानतः । भोगप्राप्त्या च विजये स्वर्गप्राप्त्या मृतस्य च ।। २३६.
जित्वारीन् भोगसम्प्राप्तिः मृतस्य च परा गतिः । निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः ।। २३६.
शूराणां रक्तमायाति तेन पापन्त्यजन्ति ते । घातादिदुःखसहनं रणे तत् परमन्तपः ।। २३६.
वराप्सरः सहस्राणि यान्ति शूरं रणे मृतं । स्वामी सुकृतमादत्ते भग्नानां विनिवर्त्तिनां ।। २३६.
ब्रह्महत्याफलं तेषां तथा प्रोक्तं पदे पदे । त्यक्त्वा सहायान् यो गच्छेद्देवास्तस्य विनष्टये ।। २३६.
अश्वमेधफलं प्रोक्तं शूराणामनिवर्त्तिनां । धर्म्मनिष्ठे जयो राज्ञि योद्धव्याश्च समाः समैः ।। २३६.
गजाद्यैश्च गजाद्याश्च न हन्तव्याः पलायिनः । न प्रेक्षकाः प्रविष्टाश्च अशस्त्राः पतितादयः ।। २३६.
शान्ते निद्राभिभूते च अर्द्धोत्तीर्णे नदीवने । दुर्द्दिने कूटयुद्धानि शत्रुनाशार्थमाचरेत् ।। २३६.
बाहू प्रगृह्य विक्रोशेद्भग्ना भग्नाः परे इति। प्राप्तं मित्रं बलं भूरि नायकोऽत्र निपातितः ।। २३६.
सेनानीर्निहतश्चायं भूपतिश्चापि विप्लुतः । विद्रुतानान्तु योधानां सुखं धातो विधीयते ।। २३६.
धूपश्च देया धर्म्मज्ञ तथा च परमोहनाः । पताकाश्चैव सम्भारो वादित्राणां भयावहः ।। २३६.
सम्प्राप्य विजयं युद्धे देवान्विप्रांश्च संयजेत् । रत्नानि राजगामीनि अमात्येन कृते रणे ।। २३६.
तस्य स्त्रियो न कस्यापि रक्ष्यास्ताश्च परस्य च । शत्रुं प्राप्य रणे मुक्तं पुत्रवत् परिपालयेत् ।। २३६.
पुनस्तेन न योद्धव्यं देशाचारादि पालयेत् । ततश्च स्वपुरं प्राप्य ध्रुवे भे प्रविशेद् गृहं ।। २३६.
पुष्कर उवाच राज्यलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः । स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् ।। २३७.
इन्द्र उवाच । नमस्ये सर्वलोकानां जननीमब्धिसम्भवां । श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थितां ।। २३७.
त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनि । सन्ध्या रात्रिः प्रभा भूतिर्म्मेधा श्रद्धा सरस्वती ।। २३७.
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ।। २३७.
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्त्वमेव च । सौम्या सौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितं ।। २३७.
का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः । अध्यास्ते देव देवस्य योगिचिन्त्यं गदाभृतः ।। २३७.
त्वया देवि परित्यक्तं सकलं भुवनत्रयं । विनष्टप्रायमभवत् त्वयेदानीं समेधितं ।। २३७.
दाराः पुत्रास्तथागारं सुहृद्धान्यघनादिकं । भवत्येतन्महाभागो नित्यं त्वद्वीक्षणान् नृणां ।। २३७.
शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखं । देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्ल्लभं ।। २३७.
त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता । त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरं ।। २३७.
मानं कोषं तथा कोष्ठं मा गृहं मा परिच्छदं । मा शरीरं कलत्रञ्च त्यजेथाः सर्व्वपावनि ।। २३७.