भेत्तुकामः परनीकं संहतैरेव भेदयेत् । भेदरक्ष्याः परेणापि कर्त्तव्याः संहतास्तथा ।। २३६.
व्यूहं भेदावहं कुर्य्यात् परव्यूहेषु चेच्छया । गजस्य पादरक्षार्थाश्चत्वारस्तु तथा द्विज ।। २३६.
रथस्य चाश्वाश्चत्वारः समास्तस्य च चर्म्मिणः । धन्विनश्चर्मिभिस्तुल्याः पुरस्ताच्चर्म्मिणो रणे ।। २३६.
वृष्ठतो धन्विनः पश्चाद्धन्विनान्तुरगा रथाः । रथानां कुञ्जराः पश्चाद्धातव्याः पृथिवीक्षिता ।। २३६.
पदातिकुञ्जराश्वनां धर्म्मकार्य्यं प्रयत्नतः । शूराः प्रमुखतो देयाः स्कन्धमात्रप्रदर्शनं ।। २३६.
कर्त्तव्यं भीरुसङ्घेन शत्रुविद्रावकारकं । दारयन्ति पुरस्तात्तु न देया भीरवः पुरः ।। २३६.
प्रोत्साहयन्त्येव रणे भीरून् शूगः पुरस्थिताः । प्रांशवः शुकनाशाश्च ये चाजिह्मेक्षणा२ नराः ।। २३६.
संहतभ्रयुगाश्चैव क्रोधनाः कलहप्रियाः । नित्यहृष्टाः प्रहृष्टाश्च शूरा ज्ञेयाश्य कामिनः ।। २३६.
प्रप्तियुद्धं गजानाञ्च तोयदानादिकश्च यत् ।। २३६.
आयुधानयनं चैव पत्तिकर्म्मं विधीयते । रिपूणां भेत्तुकामानां स्वसैन्यस्य तु रक्षणं ।। २३६.
भेदनं संहतानाञ्च चर्मिणां कर्म्म कीर्त्तिंतं । विमुखीकरणं युद्धे धन्विनां च तथोच्यते ।। २३६.
दूरापसरणं यानं सुहतस्य तथोच्यते । त्रासनं रिपुसैन्यानां रथकर्म्म तथोच्यते ।। २३६.
भेदनं संहतानाञच भेदानामपि संहतिः । प्राकारतोरणाट्टालद्रुमभङ्गश्च सद्गजे ।। २३६.
पत्तिभूर्विषमा ज्ञेया रथाश्वस्य तथा सभा । सकर्द्दमा च नागानां युद्धभूमिरुदाहृता ।। २३६.
एवं विरचितव्यूहः कृतपृष्ठदिवाकरः । तथानुलोपशुक्रार्किदिक्पालमृदुमारुताः ।। २३६.
योधानुत्तेजयेत्सर्व्वान्नामगोत्रावदानतः । भोगप्राप्त्या च विजये स्वर्गप्राप्त्या मृतस्य च ।। २३६.
जित्वारीन् भोगसम्प्राप्तिः मृतस्य च परा गतिः । निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः ।। २३६.
शूराणां रक्तमायाति तेन पापन्त्यजन्ति ते । घातादिदुःखसहनं रणे तत् परमन्तपः ।। २३६.
वराप्सरः सहस्राणि यान्ति शूरं रणे मृतं । स्वामी सुकृतमादत्ते भग्नानां विनिवर्त्तिनां ।। २३६.
ब्रह्महत्याफलं तेषां तथा प्रोक्तं पदे पदे । त्यक्त्वा सहायान् यो गच्छेद्देवास्तस्य विनष्टये ।। २३६.
अश्वमेधफलं प्रोक्तं शूराणामनिवर्त्तिनां । धर्म्मनिष्ठे जयो राज्ञि योद्धव्याश्च समाः समैः ।। २३६.
गजाद्यैश्च गजाद्याश्च न हन्तव्याः पलायिनः । न प्रेक्षकाः प्रविष्टाश्च अशस्त्राः पतितादयः ।। २३६.
शान्ते निद्राभिभूते च अर्द्धोत्तीर्णे नदीवने । दुर्द्दिने कूटयुद्धानि शत्रुनाशार्थमाचरेत् ।। २३६.
बाहू प्रगृह्य विक्रोशेद्भग्ना भग्नाः परे इति। प्राप्तं मित्रं बलं भूरि नायकोऽत्र निपातितः ।। २३६.
सेनानीर्निहतश्चायं भूपतिश्चापि विप्लुतः । विद्रुतानान्तु योधानां सुखं धातो विधीयते ।। २३६.
धूपश्च देया धर्म्मज्ञ तथा च परमोहनाः । पताकाश्चैव सम्भारो वादित्राणां भयावहः ।। २३६.
सम्प्राप्य विजयं युद्धे देवान्विप्रांश्च संयजेत् । रत्नानि राजगामीनि अमात्येन कृते रणे ।। २३६.
तस्य स्त्रियो न कस्यापि रक्ष्यास्ताश्च परस्य च । शत्रुं प्राप्य रणे मुक्तं पुत्रवत् परिपालयेत् ।। २३६.
पुनस्तेन न योद्धव्यं देशाचारादि पालयेत् । ततश्च स्वपुरं प्राप्य ध्रुवे भे प्रविशेद् गृहं ।। २३६.
पुष्कर उवाच राज्यलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः । स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् ।। २३७.