तृतीयेऽहनि दिक्पालान् रुद्रांस्तान् दिक्पतीन्यजेत् । ग्रहन् यजेच्चतुर्थेऽह्नि पञ्चमे चाशिवनौ यजेत् ।। २३६.
मार्गे या देवतास्तासान्नद्यादीनाञ्च पूजनं । दिव्यान्तरीक्षभौमस्थदेवानाञ्च तथा बलिः ।। २३६.
रात्रौ भूतगणानाञ्च वासुदेवादिपूजनं । भद्राकाल्याः श्रियः कुर्य्यात् प्रार्थयेत् सर्व्देवताः ।। २३६.
वासुदेवः सङ्कर्षणः प्रद्यम्नश्चानिरुद्धकः । नारायणोऽब्जजो विष्णुर्न्नारसिंहो वराहकः ।। २३६.
सूर्य्यः सोमः कुकजचश्चान्द्रिजीवशुक्रशनैश्चराः ।। २३६.
राहुः केतुर्गणपतिः सेनानी चण्डिका ह्युमा । लक्ष्मीः सरस्वती दुर्गा ब्रह्माणीप्रमुखा गणाः ।। २३६.
रुद्रा इन्द्रादयो वह्निर्न्नागास्तार्क्ष्योऽपरे सुराः । दिव्यान्तरीक्षभूमिष्ठा विजयाय भवन्तु मे ।। २३६.
मर्दयन्तु रणे शत्रून् सम्प्रगृह्योपहारकं । सपुत्रमातृभृत्योऽहं देवा वः शरणङ्गतः ।। २३६.
विनिवृत्तः प्र्दास्यामि दत्तादभ्यधिकं बलिं ।। २३६.
षष्ठेऽह्नि विजयस्नानं कर्त्तव्यं चाभिषेकवत् । यात्रादिने सप्तमे च पूजयेच्च त्रिवक्रमं ।। २३६.
नीराजनोक्तमन्त्रैश्च आयुधं वाहनं यजेत् । पुण्याहजयशब्देन मन्त्रमेतन्निशामयेत् ।। २३६.
दिव्यान्तरीक्षभूमिष्ठाः सन्त्वायुर्दाः सुराश्च ते । देवसिद्धिं प्रप्नुहि त्वं देवयात्रास्तु सा तव ।। २३६.
रक्षन्तु देवताः सर्वा इति श्रुत्वा नृपो व्रजेत् । गृहीत्वा सशरञ्चापं धनुर्नागेति मन्त्रतः ।। २३६.
नद्विण्णोरिति जप्त्वाथ दद्याद्रिपुमुख पदं । दक्षिणं पदं द्वात्रिंशद्दिक्षुं प्राच्यादिषु क्रमात् ।। २३६.
नागं रथं हयञ्चैव धुर्यांश्चैवारुहेत् क्रमात् । आरुह्य वाद्यैर्गच्छेत पृष्ठतो नावलोकयेत् ।। २३६.
क्रोशमात्रं गतस्तिष्ठेत् पूजयेद्देवता द्विजान् । परदेशं व्रजेत् पश्चादात्मसैन्यं हि पालयन् ।। २३६.
देवानां पूजनं कुर्य्यान्न छिन्द्यादायमत्र तु ।। २३६.
नावमानयेत्तद्देश्यानागत्य स्वपुरं पुनः । जयं प्राप्यार्च्चयेद्देवान् दद्याद्दानानि पार्थिपः ।। २३६.
द्वितीयेऽहनि सङ्ग्रामो भविष्यति यदा तदा । स्नापयेद्गजमश्वादि यजेद्देवं नृसिंहकं ।। २३६.
छत्रादिराजलिङ्गानि शस्त्राणि निशि वै गणान् । प्रातर्नृसिंहकं पूज्य वाहनाद्यमशेषतः ।। २३६.
पुरोधसा हुतं पश्येद्वह्निं हुत्वा द्विजान्यदेत्। गृहीत्वा सशरञ्चापं गजाद्यारुद्य वै ब्रजेत् ।। २३६.
देशे त्वदृश्यः शत्रूणां कुर्य्यात् प्रकृतिकल्पनां । संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् ।। २३६.
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह। व्यूहाः प्राण्यङ्गरूपाश्च द्रव्यरूपाश्च कीर्त्तिताः ।। २३६.
गरुडो मकरव्यूहश्चक्रः श्येनस्तथैव च । अर्द्धचन्द्रश्च वज्रश्च शकटव्यूह एव च ।। २३६.
मण्डलः सर्वतोभद्रः सूचीव्यूहश्च ते नराः । व्यूहानामथ सर्वेषां पञ्चधा सैन्यकल्पना ।। २३६.
द्वौ पक्षावनुपक्षौ द्वाववश्यं पञ्चमं भवेत् । एकेन यदि वा द्वाभ्यां भागाभ्यां युद्धमाचरेत् ।। २३६.
भागत्रयं स्थापयेत्तु तेषां रक्षार्थमेव च । न व्यूहकल्पना कार्य्या राज्ञो भवति कर्हिंचित् ।। २३६.
मूलच्छेदे विनाशः स्यान्न युध्येच्च स्वयन्नृपः । सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः ।। २३६.
भग्नसन्धारणं तत्र योधानां परिकीर्त्तितं । प्रधानभङ्गे सैन्यस्य नावस्थानं विधीयते ।। २३६.
न संहतान्न विरलान्योधान् व्यूहे प्रकल्पयेत् । आयुधानान्तु सम्मर्द्दो यथा न स्यात् परस्परं ।। २३६.