सधौम्यो द्रौपदीषष्ठस्ततः प्रायाद्विराटकम्। कङ्को द्विजो ह्यविज्ञातो राजा भीमोथ सूपकृत्
बृहन्नलार्जुनो भार्या सैरिन्ध्री यमजौ तथा। अन्यनाम्ना भीमसेनः कीचकञ्चाबधीन्निशि
द्रौपदीं हर्त्तुकामं तमर्जुनश्चाजयत् कुरून्। कुर्वतो गोग्रहादींश्च तैर्ज्ञाताः पाण्डवा अथ
सुभद्रा कृष्णभगिनी अर्जुनात्समजीजनत्। अभिमन्युन्ददौ तस्मै विराटश्चोत्तरां सुताम्
सप्ताक्षौहिणीश आसीद्धर्म्मराजो रणाय सः। कृष्णो दूतोब्रवीद् गत्वा दुर्योधनममर्षणम्
एकादशक्षौहिणीशं नृपं दुर्योधनं तदा। युधिष्ठिरायार्द्धराज्यं देहि ग्रामांश्च पञ्च वा
युध्यस्व वा वचः श्रुत्वा कृष्णमाह सुयोधनः। भूसूच्यग्रं न दास्यामि योत्स्ये सङ्ग्रहणोद्यतः
विश्वरूपन्दर्शयित्वा अधृष्यं विदुरार्च्चितः । प्रागाद्युधिष्ठिरं प्राह योधयैनं सुयोधनम्
कुरुपाण्डवसङ्ग्रामवर्णनम् । अग्निरुवाच यौधिष्ठिरी दौर्योधनी कुरुक्षेत्रं ययौ चमूः। भीष्मद्रोणादिकान् हृष्ट्वा नायुध्यत गुरुनिति
पार्थं ह्युवाच भगवान्नशोच्या भीष्ममुख्यकाः। शरीराणि विनाशीनि न शरीरी विनश्यति
अयमात्मा परं ब्रह्म अहं ब्रह्मास्मि विद्धि तम् । सिद्ध्यसिद्ध्योः समो योगी राजधर्म्मं प्रपालय
कृष्णोक्तोथार्जुनोऽयुध्यद्रथस्थो वाद्यशब्दवान्। भीष्मः सेनापतिरभूदादौ दौर्योधने बले
पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह। धार्त्तराष्ट्राः पाण्डवांश्च जघ्नुर्युद्धे सभीष्मकाः
धार्त्तराष्ट्रान् शिखण्ड्याद्याः पाण्डवा जघ्नुराहेवे। देवासुरसमं युद्धं कुरुपाण्डवसेनयोः
बभूव स्वः स्थदेवानां पश्यतां प्रीतिबर्द्धनम्। भीष्मोस्त्रैः पाण्डवं सैन्यं दशाहोभिर्न्यपातयत्
दशमे ह्यर्जुनौ बाणैर्भिष्मं वीरं ववर्ष ह। शिखण्डी द्रुपदोत्तोऽस्त्रैर्ववर्ष जलदो यथा
हस्त्यश्वरथपादातमन्योन्यास्त्रनिपातितम् । भीष्मः स्वच्छन्दमृत्युश्च युद्धमार्गं प्रदर्श्य च
वसूक्तो वसुलोकाय शरशय्यागतः स्थितः। उत्तरायणमीक्षंश्च ध्यायन् विष्णुंस्तुवन् स्थितः
दुर्योधने तु शोकार्त्ते द्रोणः सेनापतिस्त्वभूत्। पाण्डवे हर्षिते सैन्ये धृष्टद्युम्नश्चमूपतिः
तयोर्युद्धं बभूवोग्रं यमराष्ट्रविवर्धनम्। विराटद्रुपदाद्याश्च निमग्ना द्रोणसागरे
दौर्योधनी महासेना हस्त्यश्वरथपत्तिनी। धृष्टद्युम्नाधिपतिता द्रोणः काल इवाबभौ
हतोश्वत्थामा चेत्युक्ते द्रोणः शस्त्राणि चात्यजत्। धृष्टद्युम्नशराक्रान्तः पतितः स महीतले
पञ्चमेहनि दुर्द्धर्षः सर्वक्षत्रं प्रमथ्य च। दुर्योधने तु शोकार्ते कर्णः सेनापतिस्त्वभूत्
अर्जुनः पाण्डवानाञ्च तयोर्युद्धं बभूव ह। शस्त्रशस्त्रि महारौद्रं देवासुररणोपमम्
कर्णार्जुनाख्ये सङ्प्रामे कर्णोरीनवधीच्छरैः। द्वितीयेहनि कर्णस्तु अर्जुनेन निपातितः
शल्यो दिनार्द्धं युयुधे ह्यबधीत्तं युधिष्ठिरः। युयुधे भीमसेनेन हतसैन्यः सयोधनः
बहून् हत्वा नरादींश्च भीमसेनमथाब्रबीत्। गदया प्रहरन्तं तु भीमस्तन्तु न्यपातयत्
गदयान्यानुजांस्तस्य तस्मिन्नष्टादशेहनि। रात्रौ सषुप्तञ्च बलं पाण्डवानां न्यपातयत्
अक्षौहिणीप्रमाणन्तु अश्वत्थामा महाबलः। द्रौपदेयान् सापञ्चालान् धृष्टद्युन्नञ्च सोऽवधीत्
पुत्रहीनां द्रौपदीं तां रुदन्तीमर्जुनस्ततः। शिरोमणिं तु जग्राह ऐषिकास्त्रेण तस्य च