चतुरङ्गं बलं राजा सहायययययार्थं दिवौकसां । बलन्तु दर्शयेत् प्राप्तं रक्तवृष्टिञ्चरेद्रिपौ ।। २३४.
छिन्नानि रिपूशीर्षाणि प्रासादाग्रेषु दर्शयेत् । षाड्गुण्यंसम्प्रवक्ष्यामि तद्वरौ सन्धिविग्रहौ ।। २३४.
सन्धिश्च विग्रहश्चैव यानमासनमेव च । द्वैधीभावः संशयश्च षड्गुणाः परिकीर्त्तिताः ।। २३४.
पणबन्धः स्मृतः सन्धिरपकारस्तु विग्रहः। जिगीषोः शत्रुविषये यानं यात्राऽभिवीयते ।। २३४.
विग्र्हेण स्वके देशे स्थितिरासनमुच्यंते । बलार्द्धेन प्रयाणन्तु द्वैधीभावः स उच्यते ।। २३४.
उदासीनो मध्यमो वा संश्रयात्संश्रयः स्मृतः । समेन सन्धिरन्वेष्योऽहीनेन च बलीयसा ।। २३४.
हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा । तत्रापि शुद्धपार्ष्णिस्तु बलीयांसं समाश्रयेत् ।। २३४.
आसीनः कर्मविच्छेदं शक्तः कर्त्तु रिपोर्यदा । अशुद्धपार्ष्णिश्चासीत विगृह्य वसुधाधिपः ।। २३४.
अशुद्धपार्ष्णिर्बलवान् द्वैधीभावं समाश्रयेत् । वलिना विगृहीतस्तु२ योऽसन्देहेन पार्थिवः ।। २३४.
संश्रयस्तेन वक्तव्यो गुणानामघमो गुणः । बहुक्षयव्ययायासं३ तेषां यानं प्रकीर्त्तितं ।। २३४.
बहुलाभकरं पश्चात्तदा राजा समाश्रयेत् । सर्वशक्तिविहीनस्तु तदा कुर्य्यात्तु संश्रयं ।। २३४.
पुष्कर उवाच अजस्रं कर्म वक्ष्यामि दिनं प्रति यदाचरेत् । द्विमुहूर्त्तावशेषायां रात्रौ निद्रान्त्यजेन्नृपः ।। २३५.
वाद्यवन्दिस्वनैर्गीतैः पश्येद् गूढास्ततो नरान् । विज्ञायते न ये लोकास्तदीया इति केनचित् ।। २३५.
आयव्ययस्य श्रवणं ततः कार्य्यं यथाविधि । वेगोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत् ।। २३५.
स्नानं कुर्य्यान्नृपः श्चाद्दन्तधावनपूर्वकं । कृत्वा सन्ध्यान्ततो जप्यं वासुदेवं प्रपूजयेत् ।। २३५.
वह्नौ पवित्रान् जुहुयात् तर्पयेदु दकैः पितृन् । दद्यात्सकाञ्चनीं धेनुं द्विजाशीर्वादसंयुतः ।। २३५.
अनुलिप्तोऽलङ्कृतश्च मुखं पश्येच्च दर्पणे । ससुवर्णे धृते राजा श्रृणुयाद्दिवसादिकं ।। २३५.
औषधं भिषजोक्तं च मङ्गलालम्भनञ्चरेत् । पश्येद् गुरुं तेन दत्ताशीर्वादोऽथ व्रजेत्सभां ।। २३६.
तत्रस्थो ब्राह्मणान् पश्येदमात्यान्मन्त्रिणस्तथा । प्रकृतीश्च महाभाग प्रतीहारनिवेदिताः ।। २३५.
श्रुत्वेतिहासं कार्य्याणि कार्याणां कार्य्यनिर्णयम् । व्यवहारन्ततः पश्येन्मन्त्रं कुर्य्यात्तु मन्त्रिभिः ।। २३५.
आकारैरिङ्गितैः प्राज्ञा मन्त्रं गृह्णन्ति पण्डिताः । सांवत्सराणां वैद्यानां मन्त्रिणां वचनेरतः ।। २३५.
राजा विभूतिमाप्नोति३ धारयन्ति नृपं हि ते । मन्त्रं कृत्वाथ व्यायामञ्चक्रे याने च शस्त्रके ।। २३५.
निःसत्त्वादौ नृपः स्नातः पश्येद्विष्णुं सुपूजितम् । हुतञ्च पावकं पश्येद्विप्रान् पश्येत्सुपूजितान् ।। २३५.
शास्त्राणि चिन्तयेद् दृष्ट्वा योधान् कोष्ठायुधं गृहं । अन्वास्य पश्चिमां सन्ध्यां कार्य्याणि च विचिन्त्य तु ।। २३५.
चरान् सम्प्रेष्य भुक्तान्नमन्तःपुरचरो भवेत् । वाद्यगीतैरक्षितोऽन्यैरेवन्नित्यञ्चरेन्नृपः ।। २३५.
पुष्कर उवाच यात्राविधानपूर्वन्तु वक्ष्ये साङ्ग्रामिकं विधिं । सप्ताहेन यदा यात्रा भविष्यति महीपतेः ।। २३६.
पूजनीयो हरिः शम्भुर्मोदकाद्यैर्विनायकः । द्वितीयेऽहनि दिंक्पालान् सम्पूज्य शयनञ्चरेत् ।। २३६.
शय्यायां वा तदग्रेऽथ कदेवान् प्रार्च्य मनुं स्मरेत् । नमः शम्भो त्रिनेत्राय रुद्राय वरदाय च ।। २३६.
वामनाय विरूपाय स्वप्नाधिपतये नमः । भगवन्देवदेवेश शूलभृद्वृषवाहन ।। २३६.
इष्टानिष्टे ममाचक्ष्व स्वप्ने सुप्तस्य शाश्वत । यज्जाग्रतो दूरमिति पुरोधा मन्त्रमुच्चरेत् ।। २३६.