न कस्यचिद्रिपुर्म्मित्रङ्कारणाच्छत्रुमित्रके । मण्डलं तव सम्प्रोक्तमेतद् द्वादशराजकं ।। २३३.
त्रिविधा रिपवो ज्ञेयाः कुल्यानन्तरकृत्रिमाः । पूर्वपूर्वो गुरुस्तेषां दुश्चिकित्स्यतमो मतः ।। २३३.
अनन्तरोऽपि यः शत्रुः सोऽपि मे कृत्रिमो मतः । पार्ष्णिग्राहो भवेच्छत्रोमित्राणि रिपवस्तथा ।। २३३.
पार्ष्णिग्राहमुपायैश्च शामयेच्च तथा स्वकं । मित्रेण शत्रोरुच्छेदं प्रशंसन्ति पुरातनाः ।। २३३.
मित्रञ्च शत्रुतामेति सामन्तत्वादनन्तरं । शत्रुं जिगीषुरुच्छिन्द्यात्४ स्वयं शक्नोति चेद्यदि ।। २३३.
प्रतापवृद्धौ तेनापि नामित्राज्जायते भयं । यथास्य नोद्विजेल्लोको विश्वासश्च यथा भवेत् ।। २३३.
पुष्कर उवाच सामभेदौ मया प्रोक्तौ दानदण्डौ तथैव च । दण्डः स्वदेशे कथितः परदेशे व्रवीमि ते ।। २३४.
प्रकाशश्चाप्रकाशश्च द्विविधो दण्ड उच्यते । लुण्ठनं ग्रामघातश्च शस्यघातोऽग्निदीपनं ।। २३४.
प्रकाशोऽथ विषं वह्निर्विविधैः पुरुषैर्वधः । दूषणञ्चैव साधूनामुदकानाञ्च च दूषणं ।। २३४.
दण्डप्रणयणं प्रोक्तमुपेक्षां श्रृणु भार्गव । यदा मन्येत नृपती रणे न मम विग्रहः ।। २३४.
अनर्थायानुबन्धः स्यात् सन्धिना च तथा भवेत् । सामलब्धास्पदञ्चात्र दानञ्चार्थक्षयङ्करं ।। २३४.
भेददण्डानुबन्धः स्यात्तदोपेक्षां समाश्रयेत् । न चायं मम शक्नोति किञ्चित् कर्त्तुमुपद्रवं ।। २३४.
न चाहमस्य शक्नोमि तत्रोपेक्षां समाश्रयेत् । अवज्ञोपहतस्तत्र राज्ञा कार्य्यो रिपुर्भुवेत् ।। २३४.
मायोपायं प्रवक्ष्यामि उत्पातैरनृतैश्चरत् । शत्रोरुद्वेजनं शत्रोः शिविरस्थस्य पक्षिणः ।। २३४.
स्थूलस्य तस्य पुच्छस्थां कृत्वोल्कां विपुलां द्विज । विसृजेच्च ततश्चैवमुल्कापातं प्रदर्शयेत् ।। २३४.
एवमन्ये दर्शनीया उत्पाता बहवोऽपि च । उद्वेजनं तथा कुर्य्यात् कुहकैर्विविधैर्द्विषां ।। २३४.
सांवत्सरास्तापसाश्च नाशं ब्रूयुः परस्य च । जिगीषुः पृथिवीं राजा तेन चोद्वेजयेत् परान् ।। २३४.
देवतानां प्रसादश्च कीर्त्तनीयः परस्य तु । आगतन्नोऽमित्रबलं प्रहरध्वमभीतवत् ।। २३४.
एवं ब्रूयाद्रणे प्राप्ते भग्नाः सर्वे परे इति । क्ष्वेडाः किलकिलाः कार्य्या वाच्यः शत्रुर्हतस्तथा ।। २३४.
देवाज्ञावृंहितो राजा सन्नद्धः समरं प्रति । इन्द्रजालं प्रवक्ष्यामि इन्द्रं कालेन दर्शयेत् ।। २३४.
चतुरङ्गं बलं राजा सहायययययार्थं दिवौकसां । बलन्तु दर्शयेत् प्राप्तं रक्तवृष्टिञ्चरेद्रिपौ ।। २३४.
छिन्नानि रिपूशीर्षाणि प्रासादाग्रेषु दर्शयेत् । षाड्गुण्यंसम्प्रवक्ष्यामि तद्वरौ सन्धिविग्रहौ ।। २३४.
सन्धिश्च विग्रहश्चैव यानमासनमेव च । द्वैधीभावः संशयश्च षड्गुणाः परिकीर्त्तिताः ।। २३४.
पणबन्धः स्मृतः सन्धिरपकारस्तु विग्रहः। जिगीषोः शत्रुविषये यानं यात्राऽभिवीयते ।। २३४.
विग्र्हेण स्वके देशे स्थितिरासनमुच्यंते । बलार्द्धेन प्रयाणन्तु द्वैधीभावः स उच्यते ।। २३४.
उदासीनो मध्यमो वा संश्रयात्संश्रयः स्मृतः । समेन सन्धिरन्वेष्योऽहीनेन च बलीयसा ।। २३४.
हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा । तत्रापि शुद्धपार्ष्णिस्तु बलीयांसं समाश्रयेत् ।। २३४.
आसीनः कर्मविच्छेदं शक्तः कर्त्तु रिपोर्यदा । अशुद्धपार्ष्णिश्चासीत विगृह्य वसुधाधिपः ।। २३४.
अशुद्धपार्ष्णिर्बलवान् द्वैधीभावं समाश्रयेत् । वलिना विगृहीतस्तु२ योऽसन्देहेन पार्थिवः ।। २३४.
संश्रयस्तेन वक्तव्यो गुणानामघमो गुणः । बहुक्षयव्ययायासं३ तेषां यानं प्रकीर्त्तितं ।। २३४.