हरिमभ्यर्च्य संस्तुत्य स्यादमङ्गल्यनाशनं । द्वितीयन्तु ततो दृष्ट्वा विरुद्धं प्रविशेद् गृहं ।। २३०.
श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भो महोत्तमः । मांसं मत्स्या दूरशब्दा वृद्ध एकः पशुस्त्वजः ।। २३०.
गावस्तुरङ्गमा नागा देवाश्च ज्वलितोऽनलः । दूर्वार्द्रगोमयं वेश्या स्वर्णरूप्यञ्च रत्नकं ।। २३०.
वचासिद्धार्थकौषध्यो मुद्र आयुधखड्गकं । छत्रं पीठं राजलिङ्गं शवं रुदितवर्जितं ।। २३०.
फलं घृतं दधि पयो अक्षतादर्शमाक्षिकं । शङ्ख इक्षुः शुभं वाक्पं भक्तवादित्रगीतकं ।। २३०.
गम्भीरमेघस्तनितं तडित्तुष्टिश्च मानसी । एकतं सर्वलिङ्गानि मनसस्तुष्टिरेकतः ।। २३०.
पुष्कर उवाच तिष्ठतो गमने प्रश्ने पुरुषस्य शुभाशुभं । निवेदयन्ति शकुना देशस्य नगरस्य च ।। २३१.
सर्वः पापफलो दीप्तो निर्द्दिष्टो दैवचिन्तकैः । शान्तः शुभफलश्चैव दैवज्ञैः समुदाहृतः ।। २३१.
षट्प्रकारा विनिर्दिष्टाः शकुनानाञ्च दीप्तयः । वेलादिग्देशकरणरुतजातिविभेदतः ।। २३१.
पूर्वा पूर्वा च विज्ञेया सा तेषां बलवत्तरा । दिवाचरो रात्रिचरस्तथा रात्रौ दिवाचरः ।। २३१.
क्रूरेषु दीप्ता विज्ञेया ऋक्षलग्नग्रहादिषु । धूमिता सा तु विज्ञेया याङ्गमिष्यति भास्करः ।। २३१.
यस्यां स्थितः सा ज्वलिता मुक्ता चाङ्गारिणी मता । एतास्तिस्रः स्मृता दीप्ताः पञ्च शान्तास्तथापराः ।। २३१.
दीप्तायान्दिशि दिग्दीप्तं शकुनं परिकीर्त्तितं । ग्रामेऽरण्या वने ग्राम्यास्तथा निन्दितपादपः ।। २३१.
देशे चैवाशुभे ज्ञेयो देशदीप्तो द्विजोत्तमः । क्रियादीप्तो विनिर्द्दिष्टः स्वजात्यनुचितक्रियः ।। २३१.
रुतदीप्तश्च कथितो भिन्नभैरवनिस्वनः । जातिदीप्तस्तथा ज्ञेयः केवलं मांसभोजनः ।। २३१.
दीप्ताच्छान्तो विनिर्दिष्टः सर्वैर्भेदैः प्रयत्नतः । मिश्रैर्मिश्रो विनिर्दिष्टस्तस्य वाच्यं फलाफलं ।। २३१.
गोश्वोष्ट्रगर्द्दभश्वानः सारिका गृहगोधिका । चटका भासकूर्माद्याः कथिता ग्रामवासिनः ।। २३१.
मार्जारकुक्कुटौ ग्राम्यौ तौ चैव वनगोचरौ । तयोर्भवति विज्ञानं नित्यंक वै रूपभेदतः ।। २३१.
गोकर्णशिखिचक्राह्वखरहारीतवायसाः । कुलाहकुक्कुभश्येनफेरुखञ्जनवानराः ।। २३१.
शतघ्नचटकश्यामचासश्येनकपिञ्जलाः । तित्तिरिः शतपत्रञ्च कपोतश्च तथा त्रयः ।। २३१.
खञ्जरीटकदात्यूहशुकराजीवकुक्कुटाः । भारद्वाजश्च सारङ्ग इति ज्ञेया दिवाचराः ।। २३१.
वागुर्युलूकशरभक्रौञ्चाः शशककच्छपाः । लोमासिकाः पिङ्गलिकाः कथिता रात्रिगोचराः ।। २३१.
हंसाश्च मृगमार्जारनकुलर्क्षभुजङ्गमाः । वृक्कारिसिंहव्याघ्रोष्ट्रग्रामशूकरमानुषाः ।। २३१.
श्वाविद्वृषभगोमायुवृककोकिलसारसाः । तुरङ्गकौपीननरा गोधा ह्युभयचारिणः ।। २३१.
बलप्रस्थानयोः सर्वे पुरस्तात्सङ्घचारिणः । जथावहा विनिर्दिष्टाः पश्चान्निधनकारिणः ।। २३१.
गृहाद्गम्य यदा चासो व्याहरेत् पुरतः स्थितः । नृपावमानं वदति वामः कलहभोजने ।। २३१.
याने तद्दर्शनं शस्तं सव्यमङ्गस्य वाप्यथ । चौरैर्मोषमथाख्याति मयूरो भिन्ननिस्वनः ।। २३१.
प्रयातस्याग्रतो राम मृगः प्राणहरो भवेत् । ऋक्षाखुजम्बुकव्याघ्रसिंहमार्जारगर्दभाः ।। २३१.
प्रतिलोमास्तथा राम खरश्च विकृतस्वनः वामः कपिञ्जलः श्रेष्ठस्तथा दक्षिणसंस्थितः ।। २३१.
पृष्ठतो निन्दितफलस्तित्तिरिस्तु न शस्यते । एणा वराहाः पृषता वामा भूत्वा तु दक्षिणाः ।। २३१.