मरणं वह्निलाभश्च वह्निदाहो गृहादिषु । लब्धिश्च राकजलिङ्गानां तन्त्रीवाद्याभिवादनं ।। २२९.
यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयं । हिरण्यं वृषभङ्गाञ्च कुटुम्बस्तस्य वर्द्धते ।। २२९.
वृषेभगृहशैलाग्रवृक्षारोहणरोदनं । घृतविष्ठानुलेपो वा अगम्यागमनं तथा ।। २२९.
पुष्कर उवाच औषधानि च युक्तानि धान्यं कृष्णमशोभनं । कार्पासं तृणशुष्कञ्च गोमयं वै धनानि च ।। २३०.
अङ्गारं गुडसर्जौ च मुण्डाभ्यक्तञ्च नग्नकं । अयः पङ्कं चर्म्मकेशौ उन्मत्तञ्च नपुंसकं ।। २३०.
चण्डालश्वपचाद्यानि नरा बन्धनपालकाः । गर्भिणी स्त्री च विधवाः पिण्याकादीनि वै मृतं ।। २३०.
तुषभस्मकपालास्थिभिन्नभाण्डमशस्तकं । अशस्तो वाद्यशब्दश्च भिन्न भैरवझर्क्भरः ।। २३०.
एहीति पुरतः शब्दः शस्यते न तु पृष्ठतः । गच्छेति पश्चाच्छब्दोऽग्र्यः पुरस्तात्तु विगर्हितः ।। २३०.
क्व यासि तिष्ठ मा गच्छ किन्ते तत्र गतस्य च । अनिष्टशब्दा मृत्यर्थं क्रव्यादश्च ध्वजादिगः ।। २३०.
स्खलनं वाहनानाञ्च शस्त्रभङ्गस्तथैव च । शिरोघातश्च चद्वाराद्यैश्छत्र वासादिपातनं ।। २३०.
हरिमभ्यर्च्य संस्तुत्य स्यादमङ्गल्यनाशनं । द्वितीयन्तु ततो दृष्ट्वा विरुद्धं प्रविशेद् गृहं ।। २३०.
श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भो महोत्तमः । मांसं मत्स्या दूरशब्दा वृद्ध एकः पशुस्त्वजः ।। २३०.
गावस्तुरङ्गमा नागा देवाश्च ज्वलितोऽनलः । दूर्वार्द्रगोमयं वेश्या स्वर्णरूप्यञ्च रत्नकं ।। २३०.
वचासिद्धार्थकौषध्यो मुद्र आयुधखड्गकं । छत्रं पीठं राजलिङ्गं शवं रुदितवर्जितं ।। २३०.
फलं घृतं दधि पयो अक्षतादर्शमाक्षिकं । शङ्ख इक्षुः शुभं वाक्पं भक्तवादित्रगीतकं ।। २३०.
गम्भीरमेघस्तनितं तडित्तुष्टिश्च मानसी । एकतं सर्वलिङ्गानि मनसस्तुष्टिरेकतः ।। २३०.
पुष्कर उवाच तिष्ठतो गमने प्रश्ने पुरुषस्य शुभाशुभं । निवेदयन्ति शकुना देशस्य नगरस्य च ।। २३१.
सर्वः पापफलो दीप्तो निर्द्दिष्टो दैवचिन्तकैः । शान्तः शुभफलश्चैव दैवज्ञैः समुदाहृतः ।। २३१.
षट्प्रकारा विनिर्दिष्टाः शकुनानाञ्च दीप्तयः । वेलादिग्देशकरणरुतजातिविभेदतः ।। २३१.
पूर्वा पूर्वा च विज्ञेया सा तेषां बलवत्तरा । दिवाचरो रात्रिचरस्तथा रात्रौ दिवाचरः ।। २३१.
क्रूरेषु दीप्ता विज्ञेया ऋक्षलग्नग्रहादिषु । धूमिता सा तु विज्ञेया याङ्गमिष्यति भास्करः ।। २३१.
यस्यां स्थितः सा ज्वलिता मुक्ता चाङ्गारिणी मता । एतास्तिस्रः स्मृता दीप्ताः पञ्च शान्तास्तथापराः ।। २३१.
दीप्तायान्दिशि दिग्दीप्तं शकुनं परिकीर्त्तितं । ग्रामेऽरण्या वने ग्राम्यास्तथा निन्दितपादपः ।। २३१.
देशे चैवाशुभे ज्ञेयो देशदीप्तो द्विजोत्तमः । क्रियादीप्तो विनिर्द्दिष्टः स्वजात्यनुचितक्रियः ।। २३१.
रुतदीप्तश्च कथितो भिन्नभैरवनिस्वनः । जातिदीप्तस्तथा ज्ञेयः केवलं मांसभोजनः ।। २३१.
दीप्ताच्छान्तो विनिर्दिष्टः सर्वैर्भेदैः प्रयत्नतः । मिश्रैर्मिश्रो विनिर्दिष्टस्तस्य वाच्यं फलाफलं ।। २३१.
गोश्वोष्ट्रगर्द्दभश्वानः सारिका गृहगोधिका । चटका भासकूर्माद्याः कथिता ग्रामवासिनः ।। २३१.
मार्जारकुक्कुटौ ग्राम्यौ तौ चैव वनगोचरौ । तयोर्भवति विज्ञानं नित्यंक वै रूपभेदतः ।। २३१.
गोकर्णशिखिचक्राह्वखरहारीतवायसाः । कुलाहकुक्कुभश्येनफेरुखञ्जनवानराः ।। २३१.
शतघ्नचटकश्यामचासश्येनकपिञ्जलाः । तित्तिरिः शतपत्रञ्च कपोतश्च तथा त्रयः ।। २३१.