शरीरस्फुरणे धन्ये तथा सुस्वप्नदर्शने ।। २२८.
निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् । पदातिनागबहुलां सेनां प्रावृषि योजयेत् ।। २२८.
सेना पदातिबहुला शत्रून् जयति सर्वदा । अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं भवेत् ।। २२८.
न शस्तन्तु तथा वामे पृष्ठस्य हृदयस्य च । लाञ्छनं पिटकञ्चैव विज्ञेयं स्फुरणं तथा ।। २२८.
पुष्कर उवाच स्वप्नं शुभाशुभं वक्ष्ये दुःस्वप्नहरणन्तथा । नाभिं विनान्यत्र गात्रे तृणवृक्षसमुद्भवः ।। २२९.
चूर्णनं मूद्र्ध्नि कांस्यानां मुण्डनं नग्नता तथा । मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता ।। २२९.
उच्चात् प्रपतनञ्चैव विवाहो गीतमेव च । तन्त्रीवाद्यविनोदश्च दालारोहणमेव च ।। २२९.
अर्जनं पद्मलोहानां सर्पाणामथ मारणं । रक्तपुष्पद्रुमाणाञ्च चण्डालस्य तथैव च ।। २२९.
मातुः प्रवेशो जठरे चितारोहणमेव च । शक्रध्वजाभिपतनं पतनं शशिसूर्य्ययोः ।। २२९.
दिव्यान्तरीक्षभौमानामुत्पातानाञ्च दर्शनं । देवद्विजातिभूपानां गुरूणाङ्कोप एव च ।। २२९.
तन्त्रीवाद्यविहीनानां वाद्यानामपि वादनं ।। २२९.
स्त्रोतोवहाधोगमनं स्नानं गोमयवारिणा । पङ्कोदकेन च तथा मशीतोयेन वाप्यथ ।। २२९.
हानिश्चैव स्वगात्राणां विरेको वमनक्रिया ।। २२९.
दक्षिणाशाप्रगमनं व्याधिनाभिभवस्तथा । फलानामुपहानिश्च धातूनां भेदनं तथा ।। २२९.
गृहाणाञ्चैव पतनं गृहसम्मार्जनन्तथा । क्रोडा पिशाचक्रव्यादवानरान्त्यनरैरपि ।। २२९.
स्रेहपानावगाहौ च रक्तमाल्यानुलेपनं । इत्यधन्यानि स्वप्नानि तेषामकथनं शुभं ।। २२९.
भूयश्च स्वपनं तद्वत् कार्य्यं स्नानं द्विजार्च्चनं । तिलैर्होमो हरिब्रह्मशिवार्कगणपूजनं ।। २२९.
तथा स्तुतिप्रपठनं पुंसूक्तादिजपस्तथा । स्वप्नास्तु प्रथमे यामे५ संवत्सरविपाकिनः ।। २२९.
षड्भिर्मासैर्द्वितीये तु त्रिभिर्मासैस्त्रियामिकाः । चतुर्थे त्वर्द्धमासेन दशाहादरुणोदये ।। २२९.
एकस्यामथ चेद्रात्रौ शुभं वा यदि वाऽशुभं । पश्चाद् दृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत् ।। २२९.
तस्मात्तु शोभने स्वप्ने पश्चात्स्वापो न शस्यते । शैलप्रासादनागाश्ववृषभारोहणं हितं ।। २२९.
द्रुमाणां स्वेतपुष्पाणां गगने च तथा द्विज । द्रुमतृणोद्भवो नाभौ तथा च बहुबाहुता ।। २२९.
तथा च बहुशीर्षत्वं पलितोद्बव एव च । सुशुक्लमाल्यधारित्वं सुशुक्लाम्बरधारिता ।। २२९.
चन्द्रार्कताराग्रहणं परिमार्जनमेव च । शक्रध्वजालिङ्गनञ्च ध्वजोच्छ्रायक्रिया तथा ।। २२९.
भूम्यम्बुधाराग्रहणं६ शत्रूणाञ्चैव विक्रिया । जयो विवादे द्युते च सङ्ग्रामे च तथा द्विज ।। २२९.
भक्षणञ्चार्ट्रमांसानाम्पायसस्य च भक्षणं । दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च ।। २२९.
सुगरुधिरमद्यानां पानं क्षीरस्य वाप्यथ । अस्त्रैर्विचेष्टनं भूमौ निर्मलं गगनं तथा ।। २२९.
मुखेन दोहनं शस्तं महिषीणां तथा गवां । सिंहीनां हस्तिनीनाञ्च बडवानां तथैव च ।। २२९.
प्रसादो देवविप्रेभ्यो गुरुभ्यश्च तथा द्विज । अम्भसा चाभिषेखस्तु गवां श्रृङ्गच्युतेन च ।। २२९.
चन्द्राद् भ्रष्टेन वा राम ज्ञेयं राकज्यप्रदं हि तत् । राज्याभिषेकश्च तथा छेदनं शिरसोऽप्यथ ।। २२९.