गुरुतल्पे भयः कार्य्यः सुरापाणे सुराध्वजः । स्तेयेषु श्वपदं विद्याद् ब्रह्महत्याशिरः पुमान् ।। २२७.
शूद्रादीन् घातयेद्राजा पापान् विप्रान् प्रवासयेत् । महापातकिनां वित्तं वरुणायोपपादयेत् ।। २२७.
ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः । भाण्डार कोषदाश्चैव सर्वांस्तानपि घातयेत् ।। २२७.
राष्ट्रेषु राष्ट्राधिकृतान् सामन्तान् पापिनोहरेत् । सन्धि कृत्वा तु ये चौर्यं रात्रौ कुर्वन्ति कस्तराः ।। २२७.
तेषां च्छित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् । तड़ागदेवतागारभेदकान् घातयेन्नृपः ।। २२७.
समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि । स हि कार्षापणन्दण्ड्यस्तममेध्यञ्च शोधयेत् ।। २२७.
प्रतिमासङ्क्रमभिदो दद्युः पञ्चशतानि ते । समैश्च विषमं यो वा चरतेक मूल्यतोऽपि वा ।। २२७.
समाप्नुयान्नरः पूर्वं दमं मध्यममेव वा । द्रव्यमादाय वणिजामनर्घेणावरुन्दतां ।। २२७.
राजा पृथक् पृथक् कुर्य्याद्दण्डमुत्तमसाहसं । द्रव्याणां दूषको यश्च प्रतिच्छन्दकविक्रयी ।। २२७.
मध्यमं प्राप्नुयाद्दण्डं कूटकर्त्ता तथोत्तमं । कलहापकृतं देयं दण्डश्च द्विगुणस्ततः ।। २२७.
अभक्ष्यभक्ष्ये विप्रे वा शूद्रे वा कृष्णलो दमः । लुलाशासनकर्त्ता च कूटकृन्नाशकस्य च ।। २२७.
एभिश्च व्यवहर्त्तां यः स दाप्यो दममुत्तमं । विषाग्निदां पतिगुरुविप्रापत्यप्रमापिणीं ।। २२७.
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रवासयेत् । क्षेत्रवेश्मग्रामवनविदारकास्तथा नराः ।। २२७.
राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना । ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनं ।। २२७.
पारजायिकचौरौ च मुञ्चतो मण्ड उत्तमः । राजयानासनारोढ्र्दण्ड उत्तमसाहसः ।। २२७.
यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः । तमायान्तं पराजित्य६ दण्डयेद् द्विगुणं दमं ।। २२७.
आह्वानकारी बध्यः स्यादनाहूतमथाह्वयन् । दाण्डिकस्य च यो हस्तादभिमुक्तः पलायते ।। २२७.
पुष्कर उवाच यदा मन्येत नृपतिराक्रन्देन बलीयसा । पार्ष्णिग्राहोऽभिभूतो मे तदा यात्रां प्रयोजयेत् ।। २२८.
पुष्टा योधा भृता भृत्याः प्रभूतञ्च बलं मम । मूलरक्षासमर्थोऽस्मि तैर्गत्वा१ शिविरे व्रजेत् ।। २२८.
शत्रोर्वा व्यसने यायात् दैवाद्यैः पीडितं परं । भूकम्पो यान्दिशं याति याञ्च केतुर्व्यदूषयत् ।। २२८.
शरीरस्फुरणे धन्ये तथा सुस्वप्नदर्शने ।। २२८.
निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् । पदातिनागबहुलां सेनां प्रावृषि योजयेत् ।। २२८.
सेना पदातिबहुला शत्रून् जयति सर्वदा । अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं भवेत् ।। २२८.
न शस्तन्तु तथा वामे पृष्ठस्य हृदयस्य च । लाञ्छनं पिटकञ्चैव विज्ञेयं स्फुरणं तथा ।। २२८.
पुष्कर उवाच स्वप्नं शुभाशुभं वक्ष्ये दुःस्वप्नहरणन्तथा । नाभिं विनान्यत्र गात्रे तृणवृक्षसमुद्भवः ।। २२९.
चूर्णनं मूद्र्ध्नि कांस्यानां मुण्डनं नग्नता तथा । मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता ।। २२९.
उच्चात् प्रपतनञ्चैव विवाहो गीतमेव च । तन्त्रीवाद्यविनोदश्च दालारोहणमेव च ।। २२९.
अर्जनं पद्मलोहानां सर्पाणामथ मारणं । रक्तपुष्पद्रुमाणाञ्च चण्डालस्य तथैव च ।। २२९.
मातुः प्रवेशो जठरे चितारोहणमेव च । शक्रध्वजाभिपतनं पतनं शशिसूर्य्ययोः ।। २२९.
दिव्यान्तरीक्षभौमानामुत्पातानाञ्च दर्शनं । देवद्विजातिभूपानां गुरूणाङ्कोप एव च ।। २२९.