अन्त्यजातिर्द्विजातिन्तु येनाङ्गेनापराध्नुयात् । तदेवच्छेदयेत्तस्य क्षिप्रमेवाविचारयन् ।। २२७.
अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः । अपमूत्रयतो मेढ्रमपशब्दयतो गुदं ।। २२७.
उत्कृष्टासनसंस्थस्य नीचस्याधोनिकृन्तनं । यो यदङ्गं च रुजयेत्तदङ्गन्तस्य कर्त्तयेत् ।। २२७.
अर्द्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः । वृक्षन्तु विफलं कृत्त्वा सुवर्ण दण्डमर्हति ।। २२७.
द्विगुणं दाप्येच्छिन्ने पथि सीम्नि जलाशये । द्रव्याणि यो हरेद्यस्य ज्ञानतोऽज्ञानतोऽपि वा ।। २२७.
स सस्योत्पाद्य तुष्टिन्तु राज्ञे दद्यात्ततो दमं । यस्तु रज्जुं घटं कूपाद्धरेच्छिन्द्याच्च तां प्रपां ।। २२७.
स दण्डं प्राप्नुयान्मासं दण्ड्यः स्यात् प्राणिताड़ने । धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बधः ।। २२७.
शेषेऽप्येकादशगुणं तस्य दण्डं प्रकल्पयेत् । सुवर्णरजतीदीनां नृस्त्रीणां हरणे बधः ।। २२७.
येन येन यथाह्गेन स्तेनो नृषु विचेष्टते । तत्तदेव हरेदस्य प्रत्यादेशाय पार्थिवः ।। २२७.
ब्राह्मणः शाकधान्यादि अल्पं गृह्णन्न दोषबाक् । गोदेवार्थं हरंश्चापि हन्याद्दुष्टं बधोद्यतं ।। २२७.
गृहक्षेत्रापहर्त्तारं तथा पत्न्यभिगामिनं । अग्निनदं गरदं हन्यात्तथा चाभ्युद्यतायुधं ।। २२७.
राजा गवाभिवाराद्यं हन्याच्चैवाततायिनः । परस्त्रियं न भाषेत प्रतिषिद्धो विशेन्न हि ।। २२७.४० अदण्ड्या स्त्री भवेद्राज्ञा वरयन्ती पतिं स्वयं। उत्तमां सेवमानः स्त्रीं जघन्यो बधमर्हति ।। २२७.
भर्त्तारं लङ्घयेद्या तां श्वभिः सङ्घातयेत् स्थिरं । सवर्णदूषितां कुर्य्यात् पिण्डमात्रोपजीविनीं ।। २२७.
ज्यायसा दूषिता नारी मुण्डनं समवाप्नुयात् । वैश्यागमे तु विप्रस्य क्षत्रियस्यान्त्यजागमे ।। २२७.
क्षत्रियः प्रथमं वैश्यो दण्ड्यः शद्रागमे भवेत् । गुहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति ।। २२७.
वेतनन्द्विगुणं दद्याद्दण्डञ्च द्विगुणं तथा। भार्या पुत्राश्च दासाश्च शिष्यो भ्राता च सोदरः ।। २२७.
कृतापराधास्ताड्याः स्यू रज्वा वेणुदलेन वा । पृष्टेन मस्तके हन्याच्चौरस्याप्नोति किल्विषं ।। २२७.
रक्षास्वधिकृतैर्यस्तु प्रजाऽत्यर्थं विलुप्यते । तेषां सर्वस्वमादाय राजा कुर्य्यान् प्रवासनं ।। २२७.
ये नियुक्ताः स्वकार्येषुहन्युः कार्याणि कर्मिणां । निर्घृणाः क्रूरमनसस्तान्निः स्वान् कारयेन्नृप ।। २२७.
अमात्यः प्राड्विवाको वा यः कुर्य्यात् कार्य्यमन्यथा । तस्य सर्वस्वमादाय तं राजा विप्रवासयेत् ।। २२७.
गुरुतल्पे भयः कार्य्यः सुरापाणे सुराध्वजः । स्तेयेषु श्वपदं विद्याद् ब्रह्महत्याशिरः पुमान् ।। २२७.
शूद्रादीन् घातयेद्राजा पापान् विप्रान् प्रवासयेत् । महापातकिनां वित्तं वरुणायोपपादयेत् ।। २२७.
ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः । भाण्डार कोषदाश्चैव सर्वांस्तानपि घातयेत् ।। २२७.
राष्ट्रेषु राष्ट्राधिकृतान् सामन्तान् पापिनोहरेत् । सन्धि कृत्वा तु ये चौर्यं रात्रौ कुर्वन्ति कस्तराः ।। २२७.
तेषां च्छित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् । तड़ागदेवतागारभेदकान् घातयेन्नृपः ।। २२७.
समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि । स हि कार्षापणन्दण्ड्यस्तममेध्यञ्च शोधयेत् ।। २२७.
प्रतिमासङ्क्रमभिदो दद्युः पञ्चशतानि ते । समैश्च विषमं यो वा चरतेक मूल्यतोऽपि वा ।। २२७.
समाप्नुयान्नरः पूर्वं दमं मध्यममेव वा । द्रव्यमादाय वणिजामनर्घेणावरुन्दतां ।। २२७.
राजा पृथक् पृथक् कुर्य्याद्दण्डमुत्तमसाहसं । द्रव्याणां दूषको यश्च प्रतिच्छन्दकविक्रयी ।। २२७.
मध्यमं प्राप्नुयाद्दण्डं कूटकर्त्ता तथोत्तमं । कलहापकृतं देयं दण्डश्च द्विगुणस्ततः ।। २२७.