विवासयेद् ब्राह्मणन्तु भोज्यो विधिर्न्न हीरितः । निक्षेपस्य समं मूल्यं दण्ड्यो निक्षेपभुक् तथा ।। २२७.
वस्त्रादिकस्य धर्म्मज्ञ तथा धर्मो न हीयते । यो निक्षेपं घातयति यश्चानिक्षिप्य याचते ।। २२७.
तावुभौ चौरवच्छास्यौ दण्ड्यौ वा द्विगुणं दमं । अज्ञानाद्यः पुमान् कुर्य्यात् परद्रव्यस्य विक्रयं ।। २२७.
निर्द्दोषो ज्ञानपूर्वन्तु चौरवद्दण्डमर्हति
मूल्यमादाय यः शिल्पं न दद्याद् दण्ड्य एव सः ।। २२७.११ प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः । भृति गृह्य न कुर्य्याद्यः कर्माष्टौ कृष्णला दमः ।। २२८.
अकाले तु त्यजन् भृत्यं दण्ड्यः स्यात्तावदेव तु । क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत् ।। २२८.
सोऽन्तर्दशाहात्तत्स्वामी दद्याच्चैवाददीत च । परेण तु दशाहस्य नादद्यान्नैव दापयेत् ।। २२८.
दत्ताप्यदत्ता सा सस्य राज्ञा दण्ड्यः शतद्वयं । प्रदाय कन्यां योऽन्यस्मै पुनस्तां सम्प्रयच्छति ।। २२७.
दण्डः कार्य्यो नरेन्द्रेण तस्याप्युत्तमसाहसः । सत्यङ्कारेण वाचा च युक्तं पुण्यमसंशयं ।। २२७.
लुब्धोऽन्यत्र च विक्रेता षट्शतं दण्डमर्हति । दद्यार्द्धनुं न यः पालो गृहीत्वा भक्तवेतनं ।। २२७.
स तु दण्ड्यः शतं राज्ञा सुवर्णं वाप्यरक्षिता । धनुःशतं परीणा्हो ग्रामस्य तु समन्ततः ।। २२८.
द्विगुणं त्रिगुणं वापि नगरस्य च कल्पयेत् । वृति तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत् ।। २२७.
तत्रापरिवृते धान्ये हिंसिते नैव दण्डनं । गृहन्तडागमारामं क्षेत्रं वा भीषया हरन् ।। २२७.
शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतोदमः । मर्यादाभेदकाः सर्वे दण्ड्याः प्रथमसाहसं ।। २२७.
शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । वैश्यश्च द्विशतं राम शूद्रश्च बधमर्हति ।। २२७.
पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये वाप्यर्द्धपञ्चाशच्छूद्रे द्वादशको दमः ।। २२७.
क्षत्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु । शूद्रः क्षत्रियमाक्रुश्य जिह्वाच्छेदनमाप्नुयात् ।। २२८.
धर्मोपदेशं विप्राणां शूद्रः कुर्वंश्च दण्डभाक् । श्रुतदेशादिवितथी दाप्यो द्विगुणसाहसं ।। २२७.
उत्तमः साहसस्तस्य यः पापैरुत्तमान् क्षिपेत् । प्रमादाद्यैर्मया प्रोक्तं प्रीत्या दण्डार्द्धमर्हति ।। २२७.
मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुं । आक्षारयञ्छतं दण्ड्यः पन्थानं चाददद्गुरोः ।। २२७.
अन्त्यजातिर्द्विजातिन्तु येनाङ्गेनापराध्नुयात् । तदेवच्छेदयेत्तस्य क्षिप्रमेवाविचारयन् ।। २२७.
अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः । अपमूत्रयतो मेढ्रमपशब्दयतो गुदं ।। २२७.
उत्कृष्टासनसंस्थस्य नीचस्याधोनिकृन्तनं । यो यदङ्गं च रुजयेत्तदङ्गन्तस्य कर्त्तयेत् ।। २२७.
अर्द्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः । वृक्षन्तु विफलं कृत्त्वा सुवर्ण दण्डमर्हति ।। २२७.
द्विगुणं दाप्येच्छिन्ने पथि सीम्नि जलाशये । द्रव्याणि यो हरेद्यस्य ज्ञानतोऽज्ञानतोऽपि वा ।। २२७.
स सस्योत्पाद्य तुष्टिन्तु राज्ञे दद्यात्ततो दमं । यस्तु रज्जुं घटं कूपाद्धरेच्छिन्द्याच्च तां प्रपां ।। २२७.
स दण्डं प्राप्नुयान्मासं दण्ड्यः स्यात् प्राणिताड़ने । धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बधः ।। २२७.
शेषेऽप्येकादशगुणं तस्य दण्डं प्रकल्पयेत् । सुवर्णरजतीदीनां नृस्त्रीणां हरणे बधः ।। २२७.
येन येन यथाह्गेन स्तेनो नृषु विचेष्टते । तत्तदेव हरेदस्य प्रत्यादेशाय पार्थिवः ।। २२७.
ब्राह्मणः शाकधान्यादि अल्पं गृह्णन्न दोषबाक् । गोदेवार्थं हरंश्चापि हन्याद्दुष्टं बधोद्यतं ।। २२७.