चित्राकारश्च शिखिवद् दृढभक्तिस्तथा श्ववत् । भवेच्च मधुराभाषी तथा कोकिलवन्नृपः ।। २२६.
काकशङ्की भवेन्नित्यमज्ञातां वसतिं वसेत्। नापरीक्षितपूर्वञ्च भोजनं शयनं स्पृशेत् ।। २२५.
नाविज्ञातां स्त्रियं गच्छेन्नाज्ञातां नावमारुहेत् । राष्ट्रकर्षी भ्रस्यते चराज्यार्थाच्चैव जीवितात् ।। २२५.
भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् । तथा राष्ट्रं महाभाग भृतं कर्मसहं भवेत् ।। २२५.
सर्वं कर्मेदमायत्तं विधाने दैवपौरुषे । तयोर्दैवचचिन्त्यं हि पौरुषे विद्यते क्रिया ।। २२५.
पुष्कर उवाच स्वमेव कर्म दैवाख्यं विद्धि देहान्तराजितं । तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ।। २२६.
प्रतिकूलं तथा दैवं पौरुषेण विहन्यते । सात्त्विकात् कर्म्मणः पूर्वात् सिद्धिः स्यात्पौरुषं विना ।। २२६.
पौरुषं दैवसम्पत्त्या काले फलति भार्गव । दैवं पुरुषकारश्च द्वयं पुंसः फलावहं ।। २२६.
कृषेर्वृष्टिसमायोगात् काले स्युः फलसिद्धयः । सधर्म्मं पौरुषं कुर्यान्नालसो न च दैववान् ।। २२६.
सामादिभिरुपायैस्तु सर्वे सिद्ध्यन्त्युपक्रमाः । साम चोपप्रदानञ्च चभेददण्डौ तथापरौ ।। २२६.
मायोपेक्षेन्द्रजालञ्च उपायाः सप्त ताञ्च्छृणु । द्विविधं काथितं साम तथ्यञ्चातत्यमेव च ।। २२६.
तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते । महाकुलीना ह्यृजवो धर्मनित्या जितेन्द्रियाः ।। २२६.
सामसाध्या अतथ्यैश्च गृह्यन्ते राक्षसा अपि । तथा तदुपकाराणां कृतानाञ्चैव वर्णनं ।। २२६.
आत्मीयान् दर्शयेदाशां येन दोषेण बिभ्यति । परास्तेनैव ते भेद्या रक्ष्यो वै ज्ञातिभेदकः ।। २२६.
अन्तःकोषञ्चोपशाम्यं कुर्वन् शत्रोश्च तं जयेत् ।। २२६.
उपायश्रेष्ठं दानं स्याद्दानादुभयलोकभाक् । न सोऽस्ति नाम दानेन वशगो यो न जायते ।। २२६.
दानवानेव शक्नोति संहतान् भेदितुं परान् । त्रयासाध्यं साधयेत्तं दण्डेन च कृतेन च ।। २२६.
दण्डे सर्वं स्थितं दण्डो नाशयेद् दुष्प्रणीकृतः । अदण्ड्यान् दण्डयन्नस्येद्दण्ड्यान् राजाप्यदण्डयन् ।। २२६.
देवदैत्योरगनराः सिद्धा भूताः पतत्रिणः । उत्क्रमेयुः स्वमर्यादां यदि दण्डान् न पालयेत् ।। २२६.
यस्माददान्तान् दमयत्यदण्ड्यान्दण्डयत्यपि । दमनाद्दम्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ।। २२६.
तेजसा दुर्न्निरीक्ष्यो हि राजा भास्करवत्ततः। लोकप्रसादं गच्छेत दर्शनाच्चन्द्रवत्ततः ।। २२६.
जगद्व्याप्नोति वै चारैरतो राजा समीरणः । दोषनिग्रहकारित्वाद्राजा वैवस्वतः प्रभुः ।। २२६.
यदा दहति दुर्बुद्धिं तदा भवति पावकः । यदा दानं द्विजातिभ्या दद्यात् तस्माद्धनेश्वरः ।। २२६.
धनधाराप्रवर्षित्वाद्देवादौ वरुणः स्मृतः । क्षमया धारयंल्लोकान् पार्यिवः पार्थिवो भवेत् ।। २२६.
पुष्कर उवाच दण्डप्रणयनं वक्ष्ये येन राज्ञः परा गतिः । त्रियवं कृष्णलं विद्धि माषस्तत्पञ्चकं भवेत् ।। २२७.
कृष्णलानां तथा षष्ट्या१ कर्षार्द्धं राम कीर्त्तितं । सुवर्णश्च विनिर्द्दिष्टो राम षोडशमाषकः ।। २२७.
निष्कः सुवर्णाश्चत्वारो धरणं दशभिस्तु तैः । ताम्ररूप्यसुवर्णानां मानमेतत् प्रकीर्त्तिंतं ।। २२७.
मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तम । चौरैरमूषितो यस्तु मूषितोऽस्मीति भाषते ।। २२७.
तत्प्रदातरि भूपाले स दण्ड्यस्तावदेव तु । यो यावद्विपरीतार्थं मिथ्या वा यो वदेत्तु तं ।। २२७.
कूटसाक्ष्यन्तु कुर्वाणांस्त्रीन् वर्णांश्च प्रदापयेत् ।। २२७.