त्वक्पथ्ययोः समावंशौ शशिभागार्द्धसंयुतौ । नागवल्लीसमो भाति मुखवासो मनोहरः ।। २२४.
एवं कुर्य्यात् सदा स्त्रीणं रक्षणं पृथिवीपतिः । न चासां विश्वसेज्जातु पुत्रमातुर्विशेषतः ।। २२४.
पुष्कर उवाच राजपुत्रस्य रक्षा च कर्त्तव्या पृथिवीक्षिता । धर्मार्थ्कामशास्त्राणि धनुर्वेदञ्च शिक्षयेत् ।। २२५.
शिल्पानि शिक्षयेच्चैवमाप्तैर्मिथ्याप्रियंवदैः । शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत् ।। २२५.
न चास्य सङ्गो दातव्यः क्रुद्धलुब्धविमानितैः । अशक्यन्तु गुणाधानं कर्त्तु तं बन्धयेत् सुखैः ।। २२५.
अधिकारेषु सर्वेषु विनीतं विनियोजयेत् । मृगयां पानमक्षांश्च राज्यनाशं स्त्यजेन्नृपः ।। २२५.
दिवास्वप्नं वृथाट्याञ्च वाक्पारुष्यं विवर्जयेत् । निन्दाञ्च दण्डपारुष्यमर्थदूषणमुत्सृजेत् ।। २२५.
आकाराणां समुच्छेदो दुर्गादीनामसत्क्रिया । अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ।। २२५.
अदेशकाले यद्दानमपात्रे दानमेव च । अर्थेषु दूषणं प्रोक्तमसत्कर्मप्रवर्त्तनं ।। २२५.
कामं क्रोधं मदं मानं लोभं दर्पञ्च वर्जयेत् । ततो भृत्यजयङ्कृत्वा पौरजानपदं जयेत् ।। २२५.
जयेद्बाह्यानरीन् पश्चाद्वाह्याश्च त्रिविधारयः । गुरवस्ते यथा पूर्वं कुल्यानन्तरकृत्रिमाः ।। २२६.
पितृपैतामद्दं मित्रं सामन्तञ्च तथा रिपोः । कृत्रिमञ्च महाभागा मित्रन्त्रिविधमुच्यते ।। २२६.
स्वाम्यमात्यञ्जनपदा दुर्गं दण्डस्तथैव च। कोपो मित्रञ्च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते ।। २२५.
मूलं स्वामी स वै रक्ष्यस्तस्माद्राज्यं१ बिशेषतः । राज्याङ्गद्रोहिणं हन्यात्काले तीक्ष्णो मृदुर्भवेत् ।। २२५.
एवं लोकद्वयं राज्ञो भृत्यैर्हासं विवर्जयेत् । भृत्याः परिभवन्तीह नृपं हर्षणसत्कथं ।। २२५.
लोकसङ्ग्रहणार्थाय कृतकव्यसनो भवेत् । स्मितपूर्वाभिभाषी स्यात् लोकानां रञ्जनं चरेत् ।। २२५.
दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् । रागे दर्पे च माने च द्रोहे पापे च कर्मणि ।। २२५.
अप्रिये चैव बक्तव्ये दीर्घ्सूत्रः प्रशस्यते। गुप्तमन्त्रो भवेद्राजा नापदो गुप्तमन्त्रतः ।। २२५.
आकारैरिङ्गितैर्गत्या चैष्टया भाषितेन च ।। २२५.
नेत्रवक्त्रविकाराभ्यां गृह्यतेऽन्तर्गतं पुनः । नैकस्तु मन्त्रयेनुमन्त्रं न राजा बहुभिः सह ।। २२५.
बहुभिर्मन्त्रयेत् कामं राजा मन्त्रान् पृथक् पृथक्। मन्त्रिणामपिनो कुर्यान्मन्त्री मन्त्रप्रकाशनं ।। २२५.
क्वापि कस्यापि३ विश्वासो बवतीहसदा नृणां । निश्चयश्च तथा मन्त्रे कार्य्य एकेन सूरिणा ।। २२५.
नश्येदविनयाद्राजाराज्यञ्च विनयाल्लभेत् । त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिञ्च शाश्वतीं ।। २२५.
आन्वीक्षिकीञ्चार्थविद्यां वार्त्तारम्भांश्च लोकतः । जितेन्द्रियो हिशक्रोति वशे स्थापयितुं प्रजाः ।। २२५.
पूज्या देवा द्विजाः सर्वे दद्याद्दानानि तेषु च । द्विजे दानञ्चक्षयोऽयं निधिः कैश्चिन्नि नाश्यते ।। २२५.
सङ्ग्रामेष्वनिवर्त्तित्वं प्रजानां परिपालनं । दानानि ब्राह्मणानाञ्च राज्ञो निः श्रेयसम्परं ।। २२५.
कृपणानाथवृद्धानां विधवानाञ्च योषितां । योगक्षेमञ्च वृत्तिञ्च तथैव परिकल्पयेत् ।। २२५.
वर्णाश्रमव्यवस्थानां कार्यन्तापसपूजनं । न विश्वसेच्च सर्वत्र तापसेषु च विश्वसेत् ।। २२५.
विश्वासयेच्चापि परन्तत्त्वभूतेन हेतुना । वककवच्चिन्तयेदर्थं सिंहवच्च पराक्रमेत् ।। २२५.
वृकवच्चावलुम्पेत् शशवच्च विनिष्पतेत् । दृढप्रहारी च भवेत् तथा शूकरवन्नृपः ।। २२५.