उरू स्पृशति चात्यर्थं सुप्तञ्चैनं विबुध्यते । कपित्थचूर्णयोगेन तथा दध्नः स्रजा तथा ।। २२४.
घृतं सुगन्धि भवति दुग्धैः क्षिप्तैस्तथा यवैः । भोज्यस्य कल्पनैवं स्याद्गन्धमुक्तिः प्रदर्श्यते ।। २२४.
शौचमाचमनं राम तथैव च विरेचनं । भावना चैव पाकश्च बोधनं धूपनन्तथा ।। २२४.
वासनञ्चैव निर्द्दिष्टं कर्म्माष्टकमिदं स्मृतं । कपित्थविल्वजम्वाम्रकरवीरकपल्लबैः ।। २२४.
कृत्वोदकन्तु यद्द्रव्यं शौवितं शौचनन्तु तत् । तेषामभावे शौचन्तु मृगदर्पाम्भसा भवेत् ।। २२४.
सरलं देवकाष्ठञ्च८ कर्पूरं कान्तया सह । बालः कुन्दुरुकश्चैव गुग्गुलुः श्रीनिवासकः ।। २२४.
सह सर्जरसेनैवं धूपद्रव्यैकविंशतिः । धूपद्रव्यगणादस्मादेकविंशाद्यथेच्छया ।। २२४.
द्वे द्वे द्रव्ये समादाय सर्जभागैर्न्नियोजयेत् । नखपिण्याकमलयैः संयोज्य मधुना तथा ।। २२४.
मासीं सुराञ्च कुष्ठञ्च स्नानद्रव्याणि निर्दिशेत् ।। २२४.
एतेभ्यस्तु समादाय द्रव्यत्रयमथेच्छया । मृगदर्पयुतं स्नानं कार्यं कन्दर्पवर्द्धनं ।। २२४.
त्वङ्मुरानलदैस्तुल्यैर्वालकार्द्धसमायुतैः। स्नानमुत्पलगन्धि स्यात् सतैलं कुङ्कुमायते ।। २२४.
जातीपुष्पसुगन्धि स्यात् तगरार्द्धेन योजितं । सद्ध्यामकं स्याद्वकुलैस्तुल्यगन्धि मनोहरं ।। २२४.
मञ्जिष्ठान्तगरं चोलं त्वचं चव्याघ्रनखं नखं । गनधपत्रञ्च विन्यस्य गन्धतैलं भवेच्छुभं ।। २२४.
तैलं निपीडितं राम तिलैः पुष्पाधिवासितैः । वासनात् पुष्पसट्टशं गन्धेन तु भवेद् ध्रुवं ।। २२४.
एलालवङ्गकक्कोलजातीफलनिशाकराः । जातीपत्रिकया सार्द्धं स्वतन्त्रा मुखवासकाः ।। २२४.
कर्पूरं कुङ्कुमं कान्ता मृगदर्पं हरेणुकं । कक्कोलैलालवङ्गञ्च जाती कोशकमेव च ।। २२४.
त्वक्पत्रं त्रुटिमुस्तौ च लतां कस्तूरिकं तथा । कण्टकानि लवङ्गस्य फलपत्रे च जातितः ।। २२४.
मुखे न्यस्ताः सुगन्धास्ता मुखरोगविनाशनाः ।। २२४.
पूगं प्रक्षालितं सम्यक् पञ्चपल्लववारिणा । शक्त्या तु गुटिकाद्रव्यैर्वासितं मुखवासकं ।। २२४.
कटुकं दन्तकाष्ठञ्च गोमूत्रे वासितं त्र्यहं । कृतञ्च पूगवद्राम मुखसौगन्धिकारकं ।। २२४.
त्वक्पथ्ययोः समावंशौ शशिभागार्द्धसंयुतौ । नागवल्लीसमो भाति मुखवासो मनोहरः ।। २२४.
एवं कुर्य्यात् सदा स्त्रीणं रक्षणं पृथिवीपतिः । न चासां विश्वसेज्जातु पुत्रमातुर्विशेषतः ।। २२४.
पुष्कर उवाच राजपुत्रस्य रक्षा च कर्त्तव्या पृथिवीक्षिता । धर्मार्थ्कामशास्त्राणि धनुर्वेदञ्च शिक्षयेत् ।। २२५.
शिल्पानि शिक्षयेच्चैवमाप्तैर्मिथ्याप्रियंवदैः । शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत् ।। २२५.
न चास्य सङ्गो दातव्यः क्रुद्धलुब्धविमानितैः । अशक्यन्तु गुणाधानं कर्त्तु तं बन्धयेत् सुखैः ।। २२५.
अधिकारेषु सर्वेषु विनीतं विनियोजयेत् । मृगयां पानमक्षांश्च राज्यनाशं स्त्यजेन्नृपः ।। २२५.
दिवास्वप्नं वृथाट्याञ्च वाक्पारुष्यं विवर्जयेत् । निन्दाञ्च दण्डपारुष्यमर्थदूषणमुत्सृजेत् ।। २२५.
आकाराणां समुच्छेदो दुर्गादीनामसत्क्रिया । अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ।। २२५.
अदेशकाले यद्दानमपात्रे दानमेव च । अर्थेषु दूषणं प्रोक्तमसत्कर्मप्रवर्त्तनं ।। २२५.
कामं क्रोधं मदं मानं लोभं दर्पञ्च वर्जयेत् । ततो भृत्यजयङ्कृत्वा पौरजानपदं जयेत् ।। २२५.