वैदलानाञ्च भाण्डानां सर्वस्याश्ममयस्य च । षड्भागमेव चादद्यान्मधुमांसस्य सर्षिपः ।। २२२.
म्रियन्नपि न चादद्याद् ब्राह्मणेभ्यस्तथा करं । यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ।। २२२.
तस्य सीदति तद्राष्ट्रं व्याधिदुर्भिक्षतस्तरैः । श्रुतं वृत्तन्तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत् ।। २२२.
क्षेच्च सर्वतस्त्वेनं पिता पुत्रमिवौरसं । संरक्ष्यमाणो राज्ञा यः कुरुते धर्ममन्वहं ।। २२२.
तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च । कर्म्म कुर्युर्न्नरेन्द्रस्य मासेनैकञ्च१० शिल्पिनः ।। २२२.
राजधर्माः पुष्कर उवाच वक्ष्येऽन्तः पुरचिन्तां च धर्माद्याः पुरुषार्थकाः । अन्योन्यरक्षया तेषां सेवा कार्या स्त्रिया नृपैः ।। २२४.
धर्ममूलोऽर्थविटपस्तथा कर्म्मफलो महान् । त्रिवर्गपादपस्तत्र रक्षया फलभाग् भवेत् ।। २२४.
कामाधीनाः१ स्त्रियो राम तदर्थं रत्नसङ्ग्रहः । सेव्यास्ता नातिसेव्यास्च भूभुजा विषयैषिणा ।। २२४.
दुष्टान्याचरते४ या तु नाभिनन्दति तत्कथां। ऐक्यं द्विषद्भिर्व्रजति गर्वं वहति चोद्धता ।। २२४.
चुम्बिता मार्ष्टि वदनं दत्तन्न बहु मन्यते । स्वपित्यादौ प्रसुप्तापि तथा पश्चाद्विबुध्यते ।। २२४.
स्पृष्टा धुनोति गात्राणि गात्रञ्च विरुणाद्धि या । ईषच्छृणोति वाक्यानि प्रियाण्यपि पराङ्मुखी ।। २२४.
तत्कामितासु च स्त्रीसु मध्यस्थेव च लक्ष्यते । ज्ञातमण्डनकालापि न करोति च मण्डनं ।। २२४.
दृष्ट्वैव हृष्टा भवति वीक्षिते च पराङ्मुखी ।। २२४.
दृश्यमाना तथान्यत्र दृष्टिं क्षिपति चञ्चलां । तथाप्युपावर्त्तयितुं नैव शक्रोत्यशेषतः ।। २२४.
विवृणीति तथाह्गानि स्वस्या गुह्यानि भार्गव । गहितञ्च तथैवाङ्गं प्रयत्नेन निगूहति ।। २२४.
तद्दर्शने च कुरुते वालालिड्गनचुम्बनं । आभाष्यमाणा भवति सत्यवाक्या तथैव च ।। २२४.
स्पृष्टा पुलकितैरङ्गैः स्वेदेनैव च भज्यते । करोति च तथा राम सुलभद्रव्ययाचनं ।। २२४.
ततः स्वल्पमपि प्राप्य करोति परमां मुदं । नामसङ्कीर्त्तनादेव मुदिता बहु मन्यते ।। २२४.
करकजाङ्काङ्कितान्यस्य फलानि प्रेषयत्यपि । तत्प्रेषितञ्च हृदये विन्यसत्यपि चादरात् ।। २२४.
आलिङ्गनैश्च गात्राणि लिम्पतीवामृतेन या । सुप्ते स्वपित्यथादौ च तथा तस्य विबुध्यते ।। २२४.
उरू स्पृशति चात्यर्थं सुप्तञ्चैनं विबुध्यते । कपित्थचूर्णयोगेन तथा दध्नः स्रजा तथा ।। २२४.
घृतं सुगन्धि भवति दुग्धैः क्षिप्तैस्तथा यवैः । भोज्यस्य कल्पनैवं स्याद्गन्धमुक्तिः प्रदर्श्यते ।। २२४.
शौचमाचमनं राम तथैव च विरेचनं । भावना चैव पाकश्च बोधनं धूपनन्तथा ।। २२४.
वासनञ्चैव निर्द्दिष्टं कर्म्माष्टकमिदं स्मृतं । कपित्थविल्वजम्वाम्रकरवीरकपल्लबैः ।। २२४.
कृत्वोदकन्तु यद्द्रव्यं शौवितं शौचनन्तु तत् । तेषामभावे शौचन्तु मृगदर्पाम्भसा भवेत् ।। २२४.
सरलं देवकाष्ठञ्च८ कर्पूरं कान्तया सह । बालः कुन्दुरुकश्चैव गुग्गुलुः श्रीनिवासकः ।। २२४.
सह सर्जरसेनैवं धूपद्रव्यैकविंशतिः । धूपद्रव्यगणादस्मादेकविंशाद्यथेच्छया ।। २२४.
द्वे द्वे द्रव्ये समादाय सर्जभागैर्न्नियोजयेत् । नखपिण्याकमलयैः संयोज्य मधुना तथा ।। २२४.
मासीं सुराञ्च कुष्ठञ्च स्नानद्रव्याणि निर्दिशेत् ।। २२४.
एतेभ्यस्तु समादाय द्रव्यत्रयमथेच्छया । मृगदर्पयुतं स्नानं कार्यं कन्दर्पवर्द्धनं ।। २२४.