बाणध्वजस्य सम्पातै रक्षिभिः स निवेदितः। अनिरुद्धस्य बाणेन युद्धमासीत्सुदारुणम्
श्रुत्वा तु नारदात् कृष्णः प्रद्युम्नबलभद्रवान्। गरुडस्थोथ जित्वाग्नीञ्ज्वरं माहेश्वरन्तथा
हरिशङ्करयोर्युद्धं बभूवाथ शराशरि। नन्दिविनायकस्कन्दमुखास्ताक्षर्यादिभिर्जिताः
जृम्भिते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना। छिन्नं सहस्त्रं बाहूनां रुद्रेणाभयमर्थितम्
विष्णुना जीवितो बाणो द्विबाहुः प्राब्रवीच्छिवम्। त्वया यदभयं दत्तं बाणस्यास्य मया च तत्
आवयोर्नास्ति भेदो वै भेदी नरकमाप्नुयात्। शिवाद्यैः पूजितो विष्णुः सोनिरुद्ध उषादियुक्
द्वारकान्तु गतो रेमे उग्रसेनादियादवैः। अनिरुद्धात्मजो वज्रो मार्कण्डेयात्तु सर्ववित्
बलभद्रः प्रलम्बघ्नो यमुनाकर्षणोऽभवत्। द्विविदस्य कपेर्भेत्ता कौरवोन्मादनाशनः
हरी रेमेनेकमूर्त्ती रुक्मिण्यादिभिरीश्वरः। पुत्रानुत्पादयामास त्वसंख्यातान् स यादवान्
अग्निरुवाच भारतं सम्प्रवक्षयामि कृष्णमाहात्म्यलक्षणम्। भूभारमहरद्विष्णुनिमित्तीकृत्य पाण्डवान्
विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मापुत्रोऽत्रिरत्रितः। सोमः सोमाद् बुधस्तस्मादैल आसीत् पुरूरवाः
तस्मादायुस्ततो राजा नहुषोऽतो ययातिकः। ततः पुरुस्तस्य वंशे भरतोऽथ नृपः कुरुः
तद्वंशे शान्तनुस्तस्माद्भीष्मो गङ्गासुतोऽनुजौ। चित्राङ्गदौ विचित्रश्च सत्यवत्याञ्च शान्तनोः
स्वर्गं गते शान्तनौ च भीष्मो भार्य्याविवर्ज्जितः। अपालयत् भ्रातृराज्यं बालश्चि त्राङ्गदो हतः
चित्राङ्गदेन द्वे कन्ये काशिराजस्य चाम्बिका। अम्बालिका च भीष्मेण आनीते विजितारिणा
भार्ये विचित्रवीर्यस्य यक्ष्मणा स दिवङ्गतः। सत्यवत्या ह्यनुमतादम्बिकायां नृपोभवत्
धृतराष्ट्रोऽम्बालिकायां पाण्डुश्च व्यासतः सुतः। गान्धार्य्यां धृतराष्ट्राच्च दुर्योंधनमुखं शतम्
शतश्रृङ्गाश्रमपदे भार्यायोगाद् यतो मृतिः। ऋषिशापात्ततो धर्म्मात् कुन्त्यां पाण्डोर्युधिष्ठिरः
वाताद्भीमोऽर्जुनः शक्रान्माद्र्यामश्विकुमारतः। नकुलः सहदेवश्च पाण्डुर्म्माद्रीयुतो मृतः
कर्णः कुन्त्यां हि कन्यायां जातो दुर्योधनाश्रितः। कुरुपाण्डवयोर्वैरन्दैवयोगाद् बभूव ह
दुर्योधनौ जतुगृहे पाण्डवानदहत् कुधीः। दग्धागाराद्विनिष्क्रान्ता मातृषष्ठास्तु पाण्डवाः
ततस्तु एकचक्रायां ब्राह्मणस्य निवेशने। मुनिवेषाः स्थिताः सर्वे निहत्य वकराक्षसम्
ययुः पाञ्चालविषयं द्रौपद्यास्ते स्वयम्वरे। सम्प्राप्ता बाहुवेधेन द्रौपदी पञ्चपाण्डवैः
अर्द्धराज्यं ततः प्राप्ता ज्ञाता दुर्योधनादिभिः। गाण्डीवञ्च धनुर्दिव्यं पावकाद्रथमुत्तमम्
सारथिञ्चार्जुनः सङ्खये कृष्णमक्षय्यशायकान्। ब्रह्मास्त्रार्दिस्तथा द्रोणात्सर्वे शस्त्रविशारदाः
कृष्णेन सोऽर्जुनो वह्निं खाण्डवे समतर्पयत्। इन्द्रवृष्टिं वारयंश्च शरवर्षेण पाण्डवः
जिता दिशः पाण्डवैश्च राज्यञ्चक्रे युधिष्ठिरः। बहुस्वर्णं राजसूयं च सेहै तं सुयोधनः
भ्रात्रा दुः शासनेनोक्तः कर्णेन प्राप्तभूतिना। द्युतकार्ये शकुनिना द्यूतेन स युधिष्ठिरम्
अजयत्तस्य राज्यञ्च सभास्थो माययाहसत्। अष्टाशीतिसहस्त्राणि भोजयन् पूर्ववद् द्विजान्
वने द्वादशवर्षाणि प्रतिज्ञातानि सोऽनयत्। अष्टाशीतिसहस्त्राणि भोजयन् पूर्ववद् द्विजान्