विशेषो नास्ति लोकेषु पतितस्याधनस्य च । पतितान्न तु गृह्णन्ति दरिद्रो न प्रयच्छति ।। २२३.
राष्ट्रपीडाकरो राजा नरके वसते चिरं ।। २२३.
किं यज्ञैस्तपसा तस्य प्रजा यस्य न रक्षिताः । सुरक्षिताः प्रचजा यस्य स्वर्गस्तस्य गृहोपमः ।। २२३.
अरक्षिताः प्र्जा यस्य नरकं तस्य मन्दिरं । राजा षड्बागमादत्ते सुकृताद्दुष्कृतादपि ।। २२२.
धर्म्मागमो रक्षणाच्च पापाप्नोत्यरक्षणात् । सुभगा विटभीतेव राजवल्लभतस्करैः ।। २२२.
निधिंद्विजात्तमः प्राप्य गृह्णीयात्सकलं तथा ।। २२२.
चतुर्थमष्टमं भागं तथा षोडशमं द्विजः । वर्णकमेण दद्याच्च निधिं पात्रे तु धर्म्मतः ।। २२२.
अनृतन्तु वदन् दण्ड्यः७ सुवित्तस्यांशमष्टमं । प्रणष्टस्वामिकमृक्थं राजा त्र्यव्दं निधापयेत् ।। २२२.
अर्वाक् त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् । ममेदमितिया ब्रूयात् सोऽर्थयुक्तो यथाविधि ।। २२२.
सम्पाद्य रूपसङ्ख्यादोन् स्वामी तद् द्रव्यमर्हति । बालदायादिकमृक्थं८ तावद्राजानुपालपेत् ।। २२२.
यावत्स्यात्स समावृत्तो यावद्वातीतशैशवः । बालपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च ।। २२२.
पतिव्रतासु च स्त्रीषु विधबास्वतुरासु च । जीवन्तीनान्तु तासां ये संहरेयुः स्ववान्धवाः ।। २२२.
ताञ्छिष्याच्चौरदण्डेन धार्म्मिकः कृथिवीपतिः । सामान्यतो हृतञ्चौरैस्तद्वै दद्यात् स्वयं नृपः ।। २२२.
चौररक्षाधिकारिब्यो राजापि हृतमाप्नुयात् । अहृते यो हृतं ब्रूयान्निः सार्यो दण्ड्य एव सः ।। २२२.
न तद्राज्ञा प्रदातव्यं गृहे यद् गृहगैर्हृतं । स्राष्ट्रपण्यादादद्याद्राजा विंशतिमं द्विज ।। २२२.
शुल्कांशं परदेशाच्च क्षयव्ययप्रकाशकं । ज्ञात्वा सङ्कल्पयेच्छुल्कं लाभं वणिग्यथाप्नुयात् ।। २२२.
विंशांशं लाभमादद्याद्दण्डनीयस्ततोऽन्यया । स्त्रीणां प्रव्रजितानाञ्च९ तरशुल्कं विवर्जयेत् ।। २२२.
तरेषु दासदोषेण नष्टं दासास्तु दापयेत् । शूकधान्येषु षड्भागं शिम्बिधान्ये तथाष्टमं ।। २२२.
राजा वन्यार्थमादद्याद्देशकालानुरूपकं । पञ्चषङ्भागमादद्याद् राजा पशुहिरण्ययोः ।। २२२.
गन्धौषधिरसानाञ्च भाण्डानां सर्वस्यास्ममयस्य च । पत्रशाकतृणानाञ्च वंशवैणवचर्म्मणं ।। २२२.
वैदलानाञ्च भाण्डानां सर्वस्याश्ममयस्य च । षड्भागमेव चादद्यान्मधुमांसस्य सर्षिपः ।। २२२.
म्रियन्नपि न चादद्याद् ब्राह्मणेभ्यस्तथा करं । यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ।। २२२.
तस्य सीदति तद्राष्ट्रं व्याधिदुर्भिक्षतस्तरैः । श्रुतं वृत्तन्तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत् ।। २२२.
क्षेच्च सर्वतस्त्वेनं पिता पुत्रमिवौरसं । संरक्ष्यमाणो राज्ञा यः कुरुते धर्ममन्वहं ।। २२२.
तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च । कर्म्म कुर्युर्न्नरेन्द्रस्य मासेनैकञ्च१० शिल्पिनः ।। २२२.
राजधर्माः पुष्कर उवाच वक्ष्येऽन्तः पुरचिन्तां च धर्माद्याः पुरुषार्थकाः । अन्योन्यरक्षया तेषां सेवा कार्या स्त्रिया नृपैः ।। २२४.
धर्ममूलोऽर्थविटपस्तथा कर्म्मफलो महान् । त्रिवर्गपादपस्तत्र रक्षया फलभाग् भवेत् ।। २२४.
कामाधीनाः१ स्त्रियो राम तदर्थं रत्नसङ्ग्रहः । सेव्यास्ता नातिसेव्यास्च भूभुजा विषयैषिणा ।। २२४.
दुष्टान्याचरते४ या तु नाभिनन्दति तत्कथां। ऐक्यं द्विषद्भिर्व्रजति गर्वं वहति चोद्धता ।। २२४.
चुम्बिता मार्ष्टि वदनं दत्तन्न बहु मन्यते । स्वपित्यादौ प्रसुप्तापि तथा पश्चाद्विबुध्यते ।। २२४.