देवद्रव्यादिहरणात् कल्पन्तु नरके वसेत् । देवालयानि कुर्वीत देवपूजारतो नृपः ।। २२२.
सुरालयाः पालनीयाः स्थापनीयाश्च देवताः । मृण्मयाद्दारुजं पुण्यं दारुजादिष्टकामयं ।। २२२.
ऐष्टकाच्छैलजं पुण्यं शैलजात् स्वर्णरत्नजं । क्रीडन् सुरगृहं कुर्वन् भुक्तिमुक्तिमवाप्नुयात् ।। २२२.
चित्र्कृद् गीतवाद्यादिप्रेक्षणीयादिदानकृत् । तैलाज्यमधुदुग्धाद्यैः स्नाप्य देवं दिवं व्रजेत् ।। २२२.
पूजयेत् पालयेद्विप्रान् द्विजस्वन्न हरेन्नृपः । सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलं ।। २२२.
हरन्नरकमाप्नोति यावदाहूतसम्प्लवं । दुराचारन्न द्विषेच्च सर्वपापेष्वपि स्थितं ।। २२२.
नैवास्ति ब्राह्मणबधात् पापं गुरुतरं क्वचित् । अदैवं दैवतं कुर्य्युः कुर्य्युर्द्दैवमदैवतं ।। २२२.
ब्राह्णणी रुदती हन्ति कुलं राज्यं प्र्जास्तथा ।। २२२.
साध्वीस्त्रीणां पालनञ्च राजा कुर्य्याच्च धार्मिकः । स्त्रिया प्रहृष्टया भाव्यं गृहकार्यैकदक्षया ।। २२२.
सुसंम्कृतोपस्करया व्यये चामुक्तहस्तया । यस्मै दद्यात्पिता त्वेनां शुश्रषेत्तं पति सदा ।। २२२.
मृते भर्त्तरि स्वर्य्यायात् ब्रह्मचर्ये स्थिताङ्गना । परवेश्मरुचिर्न्न स्यान्न स्यात् कलहशालिनी ।। २२२.
मण्डनं वर्जयेन्नारी तथा प्रोषितभर्तृका । देवताराधनपरा तिष्ठेद्भर्त्तृहिते रता ।। २२२.
धारयेन्मङ्गलार्थाय किञ्चिदाभरणन्तथा । भर्त्राग्नि या विशेन्नारी सापि स्वर्गमवाप्नुयात् ।। २२२.
श्रियः सम्पूजनङ्कार्य्यं गृहसम्मार्जनादिकं । द्वादश्यांकात्तिके विष्णुं गां सवत्सां ददेत्तथा ।। २२२.
सप्तम्यां मार्गशीर्षे तु सितेऽभ्यर्च्य दिवाकरं ।। २२२.
पुष्कर उवाच ग्रामस्याधिपति कुर्य्याद्दशग्रामाधिपं नृपः । शतग्रामाधिपञ्चान्यं तथैव विषयेस्वरं ।। २२३.
तेषां भोगविभागश्च भवेत् कर्म्मानुरूपतः । नित्यमेव तथा कार्य्यं तेतषाञ्चारैः परीक्षणं ।। २२३.
ग्रामे दोषान् समुत्पन्नान् ग्रामेशः प्रशमं नयेत् । अशक्तो दशपालस्य स तु गत्वा निवेदयेत् ।। २२३.
श्रुत्वापि दशपालोऽपि तत्र युक्तिमुपाचरेत् । वित्ताद्याप्नोति राजा वै विष्यात्तु सुरक्षइतात् ।। २२३.
धनवान्धर्म्ममाप्नोति धनवान् काममश्नुते । उच्छिद्यन्ते विना ह्यर्थै१ क्रिया ग्रीष्मे सरिद्यथा ।। २२३.
विशेषो नास्ति लोकेषु पतितस्याधनस्य च । पतितान्न तु गृह्णन्ति दरिद्रो न प्रयच्छति ।। २२३.
राष्ट्रपीडाकरो राजा नरके वसते चिरं ।। २२३.
किं यज्ञैस्तपसा तस्य प्रजा यस्य न रक्षिताः । सुरक्षिताः प्रचजा यस्य स्वर्गस्तस्य गृहोपमः ।। २२३.
अरक्षिताः प्र्जा यस्य नरकं तस्य मन्दिरं । राजा षड्बागमादत्ते सुकृताद्दुष्कृतादपि ।। २२२.
धर्म्मागमो रक्षणाच्च पापाप्नोत्यरक्षणात् । सुभगा विटभीतेव राजवल्लभतस्करैः ।। २२२.
निधिंद्विजात्तमः प्राप्य गृह्णीयात्सकलं तथा ।। २२२.
चतुर्थमष्टमं भागं तथा षोडशमं द्विजः । वर्णकमेण दद्याच्च निधिं पात्रे तु धर्म्मतः ।। २२२.
अनृतन्तु वदन् दण्ड्यः७ सुवित्तस्यांशमष्टमं । प्रणष्टस्वामिकमृक्थं राजा त्र्यव्दं निधापयेत् ।। २२२.
अर्वाक् त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् । ममेदमितिया ब्रूयात् सोऽर्थयुक्तो यथाविधि ।। २२२.
सम्पाद्य रूपसङ्ख्यादोन् स्वामी तद् द्रव्यमर्हति । बालदायादिकमृक्थं८ तावद्राजानुपालपेत् ।। २२२.