दुष्टानप्यथ वाऽदुष्टान् संश्रयेत प्रयत्नतः । दुष्टं ज्ञात्वा विश्वसेन्न तद्वृत्तिं वर्त्तयेद्वशे ।। २२०.
देशान्तरागतान् पार्श्वे चारैर्ज्ञात्वा हि पूजयेत् । शत्रवोऽग्निर्विषं सर्पो निस्त्रिंशमपि चैकतः ।। २२०.
भृत्यावशिष्टं विज्ञेयाः कुभृत्याश्च तथैकतः। चारचक्षुर्भवेद्राजा नियुञ्जीत सदाचरान् ।। २२०.
जनस्याविहितान् सोम्यांस्तथाज्ञातान् परस्परं । वणिजो मन्त्रकुशलान् सांवत्सरचिकित्सकान् ।। २२०.
तथा प्रव्रजिताकारान् बलाबलविवेकिनः । नैकस्य राजा श्रद्दध्याच्छ्रद्दध्याद् बहुवाक्यतः ।। २२०.
रागापरागौ भृत्यानां जनस्य च गुणागुणान् । शुभानामशुभानाञ्च ज्ञानङ्कुर्य्याद्वसाय च ।। २२०.
अनुरागकरं कर्म चरेज्जह्याद्विरागजं । जनानुरागया लक्ष्म्यां राजा स्याज्जनरञ्जनात् ।। २२०.
एकविंशत्यधिकद्विशततमोऽध्यायः पुष्कर उवाच भृत्यः कुर्यात्तु राजाज्ञां शिष्यवत्सच्छ्रियः पतेः । न क्षिपेद्वचनं राज्ञो अनुकूलं प्रियं वदेत् ।। २२१.
रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् । न नियुक्तो हरेद्वित्तं नोपेक्षेत्तस्य मानकं ।। २२१.
राज्ञश्च न तथाकार्य्यं वेशभाषाविचेष्टितं । अन्तःपुरचराध्यक्षो वैरभूतैर्न्निराकृतैः ।। २२१.
संसर्ग न व्रजेद्भृत्यो राज्ञो गुह्यञ्च गोपयेत् । प्रदर्श्य कौशलं किञ्चिद्राजानन्तु विशेषयेत् ।। २२१.
राज्ञा यच्छ्रावितं गुह्यं न तल्लोके प्रकाशयेत् । आज्ञाप्यमाने बान्यस्मिन् किङ्करोमीति वा वदेत् ।। २२१.
नानिर्द्दिष्टे२ द्वारि विशेन्नायोग्ये भुवि राजदृक ।। २२१.
शाठ्यं लौल्यं सपैशून्यं नास्तिक्यं क्षुद्रतातथा ।। २२१.
चापल्यञ्च परित्याज्यं नित्यं राकजानुजीविना । श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना ।। २२१.
नमस्कार्याः सदा चास्य पुत्रवल्लभमन्त्रिणः ।। २२१.
सचिवैर्न्नास्य विश्वासो राजचित्तप्रियञ्चरेत् । त्यजेद्विरक्तं रक्तात्तु वृत्तिमीहेत राजवित् ।। २२१.
अपृष्टश्चास्य न ब्रूयात् कामं कुर्य्यात्तथापदि । प्रसन्नो वाक्यसङ्ग्राही रहस्ये न च शङ्कते ।। २२१.
कुशलादिपरिप्रश्नं सम्प्रयच्छति चासनं । तत्कथाश्रवणाद्धृष्टो अप्रियाण्यपि नन्दते ।। २२१.
अल्पं दत्तं प्रगृह्णाति स्मरेत् कथान्तरेष्वपि । इति रक्तस्य कर्त्तव्यं सेवामन्यस्य वर्जयेत् ।। २२१.
पुष्कर उवाच दुर्गसम्पत्तिमाख्यास्ये दुर्गदेशे वसेन्नृपः । वैश्यशूद्रजनप्रायोऽह्यनाहार्य्यस्तथापरैः ।। २२२.
किञ्चिद्ब्राह्मणसंयुक्तो बहुकर्म्मकरस्तथा । अदेवमातृको भक्तजलो देशः प्रशस्यने ।। २२२.
अगम्यः परचक्राणां व्यालतस्करवर्जितः ।। २२२.
षण्णामेकतमं दुर्गं तच्च कृत्वा वसेद् बली । धनुर्दुंर्गं महीदुर्गं नरदुर्गं तथैव च ।। २२२.
वार्क्षञ्चैवाम्बुदुर्गञ्च गिरिदुर्गञ्च भार्गव । सर्वोत्तमं शैलदुर्गमभेद्यं चान्यभेदनं ।। २२२.
पूरन्तत्र च हट्टाद्यदेवतायतनादिकं । अनुयन्त्रायुधोपेतं सोदकं दुर्गमुत्तमं ।। २२२.
राजरक्षां प्रवक्ष्यामि रक्ष्यो भूपो विषादितः । पञ्चाङ्गस्तु शिरीषः स्यान्मूत्रपिष्टो विपार्द्दनः ।। २२२.
शतावरी छिन्नरुहा विषघ्नी तण्डुलीयकं । कोषातकी च कल्हारी ब्राह्मी चित्रपटोलिका ।। २२२.
मण्डूकपर्णी वाराही धात्र्यानन्दकमेव च । उन्मादिनी सोमराजी विषघ्नं रत्नमेव च ।। २२२.
वास्तुलक्षणसंयुक्ते वसन् दुर्गे सुरान्यजेत् । प्रजाश्च पालयेद्दुष्टाञ्जयेद्दानानि दापयेत् ।। २२२.