द्वीपिजं सिंहजं व्याघ्रजातञ्चर्म्म तदासने । अमात्यसचिवादींश्च प्रतीहारः प्रदर्शयेत् ।। २१८.
गोजाचविगृहदानाद्यैः सांवत्सरपुरोहितौ । पूजयित्वा द्विजान् प्रार्च्य ह्यन्यभूगोन्नमुख्यकैः ।। २१८.
वह्निं प्रदक्षिणीकृत्य गुरुं नत्वाथ पृष्ठतः । वृषमालभ्य गां वत्सां पूजयित्वाश्च मन्त्रितं ।। २१८.
अश्वमारुह्य नागश्च पूजयेत्तं समारुहेत् । परिभ्रमेद्राजमार्गे बलयुक्तः प्रदक्षिणं ।। २१८.
सहायसम्पत्तिः । पुष्कर उवाच सोऽभिषिक्तः सहामात्यो जयेच्छत्रून्नृपोत्तमः । राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽथ वा ।। २२०.
कुलीनो नीतिशास्त्रज्ञः प्रतीहारश्च नीतिवित् । दूतश्च प्रियवादी स्यादक्षीणोऽतिंबलान्वितः ।। २२०.
ताम्बूलधारी ना स्त्री वा भक्तः क्लेशसहप्रियः । सान्धिविग्रहिकः कार्य्यः षाड्गुण्यादिविशारदः ।। २२०.
खड्गधारी रक्षकः स्यात्सारथिः स्याद्बलादिवित् । सूदाध्यक्षो हितो विज्ञो महानसगदतो हि सः ।। २२०.
सभासदस्तु धर्मज्ञाः लेखकोऽक्षरविद्धितः । आह्वानकालविज्ञाः स्युर्हिता दौवारिका जनाः ।। २२०.
रत्नादिज्ञो धनाध्यज्ञः अनुद्वारे हितो नरः । स्यादायुर्वेदविद्वैद्यो गजाध्यक्षोऽथ हस्तिवित् ।। २२०.
जितश्रमो गजारोही हयाध्यक्षो हयादिबित् । दुर्गाध्यक्षो हितो धीमान् स्थपतिर्वास्तुवेदवित् ।। २२०.
यन्त्रमुक्ते पाणिमुक्ते अमुक्ते मुक्तधारिते । अस्त्राचार्य्यो नियुद्धे च कुशलो नृपतेर्हितः ।। २२०.
वृद्धश्चान्तःपुराध्यक्षः पञ्चाशद्वार्षिकाः स्त्रियः । सप्तत्यव्दास्तु पुरुषाश्चरेयुः सर्वकर्मसु ।। २२०.
जाग्रत्स्यादायुधागारे ज्ञात्वा वृत्तिर्विधीयते । उत्तमाधममध्यानि बुद्ध्वा कर्माणि पार्थिवः ।। २२०.
उत्तमाधममध्यानि पुरुषाणि नियोजयेत् । जयेच्छुः पृथिवीं राकजा सहायानानयेद्धितान् ।। २२०.
धर्मिष्ठान् धर्मकार्येषु शूरान् सङ्ग्रामकर्मसु । निपुणानर्थकृत्येषु१ सर्वत्र च तथा शुचीन् ।। २२०.
स्त्रीषु षण्डान्नियुञ्जीत तीक्ष्णान् दारुणकर्मसु । यो यत्र विदितो राज्ञा शुचित्वेन तु तन्नरं ।। २२०.
धर्मे चार्थे च कामे च नियुञ्जीताधमेऽधमान् । राजा यथार्हं कुर्य्याच्च उपधाभिः परीक्षितान् ।। २२०.
समन्त्र च यथान्यायात् कुर्य्याद्धस्तिवनेचरान् । तत्पदान्वेषणे यत्तानध्यक्षांस्तत्र कारयेत् ।। २२०.
यस्मिन् कर्मणि कौशल्यं यस्य तस्मिन् नियोजयेत् । पितृपैताम्हान् भृत्यान् सर्वकर्मसु योजयेत् ।। २२०.
दुष्टानप्यथ वाऽदुष्टान् संश्रयेत प्रयत्नतः । दुष्टं ज्ञात्वा विश्वसेन्न तद्वृत्तिं वर्त्तयेद्वशे ।। २२०.
देशान्तरागतान् पार्श्वे चारैर्ज्ञात्वा हि पूजयेत् । शत्रवोऽग्निर्विषं सर्पो निस्त्रिंशमपि चैकतः ।। २२०.
भृत्यावशिष्टं विज्ञेयाः कुभृत्याश्च तथैकतः। चारचक्षुर्भवेद्राजा नियुञ्जीत सदाचरान् ।। २२०.
जनस्याविहितान् सोम्यांस्तथाज्ञातान् परस्परं । वणिजो मन्त्रकुशलान् सांवत्सरचिकित्सकान् ।। २२०.
तथा प्रव्रजिताकारान् बलाबलविवेकिनः । नैकस्य राजा श्रद्दध्याच्छ्रद्दध्याद् बहुवाक्यतः ।। २२०.
रागापरागौ भृत्यानां जनस्य च गुणागुणान् । शुभानामशुभानाञ्च ज्ञानङ्कुर्य्याद्वसाय च ।। २२०.
अनुरागकरं कर्म चरेज्जह्याद्विरागजं । जनानुरागया लक्ष्म्यां राजा स्याज्जनरञ्जनात् ।। २२०.
एकविंशत्यधिकद्विशततमोऽध्यायः पुष्कर उवाच भृत्यः कुर्यात्तु राजाज्ञां शिष्यवत्सच्छ्रियः पतेः । न क्षिपेद्वचनं राज्ञो अनुकूलं प्रियं वदेत् ।। २२१.
रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् । न नियुक्तो हरेद्वित्तं नोपेक्षेत्तस्य मानकं ।। २२१.
राज्ञश्च न तथाकार्य्यं वेशभाषाविचेष्टितं । अन्तःपुरचराध्यक्षो वैरभूतैर्न्निराकृतैः ।। २२१.