अपराजिताञ्च कलसं वह्नेर्दक्षिणपार्श्वगं । सम्पातवन्तं हैमञ्च पूजयेद्गन्धषुष्पकैः ।। २१८.
प्रदक्षिणावर्त्तशिखस्तप्तजाम्बूनदप्रभः । रथौघमेघनिर्घोषो विधूमश्च हुताशनः ।। २१८.
अनुलोमः सुगन्धश्च स्वस्तिकाकारसन्निभः । प्रसन्नाचिर्म्महाज्वालः स्फुलिङ्गरहितो हितः ।। २१८.
न व्रजेयुश्च मध्येन मार्जारमृगपक्षिणः । पर्वताग्रमृदा तावन्मूर्द्धानं शोधयेन्नृपः ।। २१८.
वल्मीकाग्रमृदा कर्णौ वदनं केशवालयात् । इन्द्रालयमृदा४ ग्रीवां हृदयन्तु नृपाजिरात् ।। २१९.
करिदन्तोद्धृतमृदा दक्षिणन्तु तथा भुजं । वृषश्रृङ्गोद्धृतमृदा वामश्चैव तथा भुजं ।। २२०.
वेश्याद्वारमृदा राज्ञः कटिशौचं विधीयते । यज्ञस्थानाथैवोरू गोस्थानाज्जानुनी तथा ।। २१८.
अश्वस्थानात्तथा जङ्घे रथचक्रमृदाङ्घ्रिके । मूर्द्धानं पञ्चगव्येन भद्रासनगतं नृपं ।। २१८.
अभिषिञ्चेदमात्यानां चतुष्टयमथो घटैः । पूर्वतो हेमकुम्भेन घृतपूर्णेन ब्रह्मणः ।। २१८.
रूप्यकुम्भेन याम्ये च क्षीरपूर्णेन क्षत्रियः । दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमगेन च ।। २१९.
मृण्मयेन जलेनोदक् शूद्रामात्योऽभिषेचयेत् । ततोऽभिषेकं नृपतेर्बह्वृ चप्रवरो द्विजः ।। २१८.
कुर्वीत मधुना विप्रश्छन्दोगद्य कुशोदकैः । सम्पातवन्तं कलशं तथा गत्वा पुरोहितः ।। २१८.
विधाय वह्निरक्षान्तु सदस्येषु यथाविधि । राजश्रियाभिषेके च ये मन्त्राः परिकीर्त्तिताः ।। २१८.
शतच्छिद्रेण पात्रेण सौवर्णेनाभिषेचयेत्। या ओषधीत्योषधीभीरथेत्युक्तेति गन्धकैः ।। २१८.
पुष्पैः पुष्पवतीत्येव ब्राह्मणेति च वीजकैः
रत्नैराशः शिशानश्च ये देवाश्च कुशोदकैः ।। २१८.
यजुर्वेद्ययर्व्ववेदी८ गन्धद्वारेति संस्पृशेत् । शिरः कण्ठं रोचनया सर्वतीर्थोदकैर्द्विजाः ।। २१८.
गीतवाद्यादिनीर्घोषैश्चामरव्यजनादिभिः । सर्वौषधिमयं कुम्भं धारयेयुर्नृपाग्रतः ।। २१८.
व्याघ्रचर्म्मोत्तरां शय्यामुपविष्ठः पुरोहितः । मधुपर्क्कादिकं दत्त्वा पट्टबन्धं प्रकारयेत् ।। २१८.
राज्ञोमुकुटबन्धञ्च पञ्चक्षन्मात्तरं ददेत् । ध्रुवाद्यैरिति च विशेद वृषजं वृषदंशजं ।। २१८.
द्वीपिजं सिंहजं व्याघ्रजातञ्चर्म्म तदासने । अमात्यसचिवादींश्च प्रतीहारः प्रदर्शयेत् ।। २१८.
गोजाचविगृहदानाद्यैः सांवत्सरपुरोहितौ । पूजयित्वा द्विजान् प्रार्च्य ह्यन्यभूगोन्नमुख्यकैः ।। २१८.
वह्निं प्रदक्षिणीकृत्य गुरुं नत्वाथ पृष्ठतः । वृषमालभ्य गां वत्सां पूजयित्वाश्च मन्त्रितं ।। २१८.
अश्वमारुह्य नागश्च पूजयेत्तं समारुहेत् । परिभ्रमेद्राजमार्गे बलयुक्तः प्रदक्षिणं ।। २१८.
सहायसम्पत्तिः । पुष्कर उवाच सोऽभिषिक्तः सहामात्यो जयेच्छत्रून्नृपोत्तमः । राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽथ वा ।। २२०.
कुलीनो नीतिशास्त्रज्ञः प्रतीहारश्च नीतिवित् । दूतश्च प्रियवादी स्यादक्षीणोऽतिंबलान्वितः ।। २२०.
ताम्बूलधारी ना स्त्री वा भक्तः क्लेशसहप्रियः । सान्धिविग्रहिकः कार्य्यः षाड्गुण्यादिविशारदः ।। २२०.
खड्गधारी रक्षकः स्यात्सारथिः स्याद्बलादिवित् । सूदाध्यक्षो हितो विज्ञो महानसगदतो हि सः ।। २२०.
सभासदस्तु धर्मज्ञाः लेखकोऽक्षरविद्धितः । आह्वानकालविज्ञाः स्युर्हिता दौवारिका जनाः ।। २२०.
रत्नादिज्ञो धनाध्यज्ञः अनुद्वारे हितो नरः । स्यादायुर्वेदविद्वैद्यो गजाध्यक्षोऽथ हस्तिवित् ।। २२०.