जीवन्यासो भवेदेवं लिङ्गे सर्वार्थसाधकः। पिण्डिकादिषु तु न्यासः प्रोच्यते साम्प्रतं यथा
पिण्डिकाञ्च कृतस्नानां विलिप्ताञ्चन्दनादिभिः। सद्वस्त्रैश्च समाच्छाद्य रन्ध्रे च भगलक्षणे
पञ्चरत्नादिसंयुक्तां लिङ्गस्योत्तरतः स्थितां। लिङ्गवत्कृतवनिन्यासां विधिवत्सम्प्रपूजयेत्
कृतस्नानादिकान्तत्र लिङ्गमूले शिलां न्यसेत्। कृतस्नानादिसंस्कारं शक्त्यन्तं वृष्भं तथा
प्रणवपूर्वं हुं पूं ह्रीं मध्यादन्यतमेन च। क्रियाशक्तियुतां पिण्डीं शिलामाधाररूपिणीं
भस्मदर्भतिलैः कुर्य्यात् प्राकारत्रितयन्ततः। रक्षायै लोकपालांश्च सायुधान्याजयेद्वहिः
ओं हूं ह्रं क्रियाशक्तये नमः। ओं हूं ह्रां हः महागौरी रुद्रदयिते स्वाहेति च पिण्ड़िकायां। ओं हां आदारशक्तये नमः। ओं हां वृषभाय नमः। धारिका दीप्तिमत्युग्रा ज्योत्स्ना चैता बलोत्कटाः। तथा धात्री विधात्री च न्यसेद्वा पञ्चनायिकाः
वामा ज्येष्ठा क्रिया ज्ञाना बेधा तिस्रोथवा न्यसेत्। क्रियाज्ञाना तथेच्छा च पूर्ववच्छान्तिमूर्त्तिषु
तमी मोहा क्षमी निष्ठा मृत्युर्मायाभवज्वराः पञ्च चाथ महामोहा घोरा च त्रितयज्वरा
तिस्रोथवा क्रियाज्ञाना तथा बाधाधिनायिका। आत्मादित्रिषु तत्त्वेषु तीव्रमूर्त्तिषु विन्यसेत्
अत्रापि पिण्डिका ब्रह्मशिलादिषु यथाविधि। गोर्य्यादिसंवरैरैव पूर्ववत् सर्वमाचरेत्
एवं विधाय विन्यासं गत्वा कुण्डान्तिकं ततः। कुण्डमध्ये महेशानं मेखलासु महेश्वरं
क्रियाशक्तिं तथान्यासु नादमोष्ठे च विन्यासेत्। घटं स्थण्डिलवह्नीशैः नीडीसन्धानकन्तत
पद्मतन्तुसमां शक्तिमुद्घातेनां समुद्यतां । विशन्ती सूर्यमार्गेण निः सरन्तीं समुद्गतां
पुनश्च शून्यमार्गेण विशतीं स्वस्य चिन्तयेत्। एवं सर्वत्र सन्धेयं मूर्त्तिपैश्च परस्परं
सम्पूज्य घारिकां शक्तिं कुण्डे सन्तर्प्य च क्रमात्। तत्त्वतत्त्वेश्वरा मूर्त्तीर्मूर्त्तीशांश्च घृतादिभिः
सम्पूज्य तर्प्पयित्वा तु सन्निधौ संहिताणुभिः । शतं सहस्रमर्द्धं वा पूर्णया सह होमयेत्
तत्त्वतत्त्वेश्वरा मूर्त्तिर्मूर्त्तीशांश्च करेणुकान् । तथा सन्तर्प्य सान्निध्ये जुहुयुर्मूर्त्तिपा अपि
ततो ब्रह्मभिरङ्गैश्च द्रव्यकालानुरोधतः। सन्तर्प्य शक्तिं कुम्भाम्भः प्रोक्षिते कुशमूलतः
लिङ्गमुलं च संस्पृश्य विष्ण्वन्तादि विशुद्धये। विधाय पूर्ववत्सर्वं होमसङ्श्याजपादिकम्
एवं संशोध्य ब्रह्मादि विष्ण्वन्तादि विशुद्धये। विधाय पूर्ववत्सर्वं होमसङ्ख्याजपादिकम्
कुशमध्याग्रयोगेन लिङ्गमध्याग्रकं स्पृशेत्। यथा यथा च सन्धानं तदिदानीमिहोच्यते
ओँ हाँ हँ ओँ ओँ ओँ एँ ओँ भूँ भूँ वाह्यमूर्त्तये नमः । ओँ हाँ वाँ आँ ओं आँ षाँ ओँ भूँ भूँ वाँ वह्निमूर्त्तये नमः। एवञ्च यजमानादिमूर्त्तिभिरभिसन्धेयं । पञ्चमूर्च्यांत्मकेप्येवं सन्धानं हृदयादिभिः
मूलेन स्वीयवीजैर्वा ज्ञेयन्तत्त्वात्रयात्मके । शिलापिण्डी वृषेष्वेवं पूर्णाछिन्नं सुसंवरैः
भागाभागविशुद्ध्यर्थं होमं। कुर्य्याच्छतादिकं । न्यूनादिदोषमोषाय शिवेनाष्टाधिकं शतं
हुत्वाथ यत् कृतं कर्म्म शिवश्रोत्रे निवेदयेत्। एतत्समन्वितं कर्म त्वच्छक्तौ च मया प्रभो
ओं नमो भगवते रुद्राय रुद्र नमोस्तुते । विधिपूर्णमपूर्णं वा स्वशक्त्यापूर्य्य गृह्यतां
ओं ह्रीं शाङ्करि पूरय स्वाहा इति पिण्डिकायां। अथ लिङ्गे न्यसेज् ज्ञानी क्रियाख्यं पीठविग्रहे
आधाररूपिणीं शक्तिं न्यसेद् ब्रह्मशिलोपरि। निबध्य सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकं
करात्रमथो वापि यद्वा सद्योधिवासनं । विनाधिवासनं यागः कृतोऽपि न फलप्रदः