देवं ब्रह्मारथेनैव क्षिप्रं द्रव्याणि तन्नयेत् । मण्डपे पश्चिमद्वारे शय्यायां विनिवेशयेत्
शक्त्यादिशक्तिपर्य्यन्ते विन्यसेदासने शुभे। पश्चिमे पिण्डिकान्तस्यन्यसेद्ब्रह्मशिलान्तदा
शस्त्रमस्त्र शतालब्धनिद्राकुम्भध्रुवासनं । प्राकल्प्य शिवकोणे च दत्वार्घ्यं हृदयेन तु
उत्थाप्योक्तासने लिङ्गं शिरसा पूर्वमस्तकं। समारोप्य न्यसेत्तस्मिन् सृष्ट्या धर्मादिनन्दनं
दद्याद्धूपञ्च सम्पूज्य तथा वासांसि वर्मणा। गृहोपकृतिनैवेद्यं हृदा दद्यात् स्वशक्तितः
घृतक्षौद्रयुतं पात्रमब्यङ्गाय पदान्तिके। देशिकश्च स्थितस्तत्र षट्त्रिंशत्तत्त्वसञ्चयं
शक्त्यादिभूमिपर्य्यन्तं स्वतत्त्वाधिपसंयुतं। विन्यस्य पुष्पमालाभिस्त्रिशण्डं परिकल्पयेत्
मायापदेशक्त्यन्तन्तुर्य्याशाष्टांशवर्त्तुलं । तत्रात्मतत्त्वविद्याख्यं शिवं सृष्टिक्रमेण तु
एकशः प्रतिभागेषु ब्रह्मविष्णुहरधिपान्। विन्यस्य मूर्त्तिमूर्त्तीशान् पूर्वादिक्रमतो यथा
क्ष्मावह्निर्यजमानार्क्कजलवायुनिशाकरान्। आकाशमूर्त्तिरूपांस्तान् न्यसेत्तदधिनायकान्
सर्वं पशुपति चोग्रं रुद्रं भवमखेश्वरं । महादेवञ्च भीमञ्च मन्त्रास्तद्वाचका इमे
लवशषचयसाश्च हकारश्च त्रिमात्रिकः। प्रणवो हृदयाणुर्वा मूलमन्त्रोऽथवा क्कचित्
पञ्चकुण्डात्मके योगे मूर्त्तीः पञ्चाथवा न्यसेत्। पृथिवीजलतेजांसि वायुमाकाशमेव च
क्रमात्तदधिपान् पञ्च ब्रह्माणं धरणीधरं। रुद्रमीशं सदाख्यञ्च सृष्टिन्यायेन मन्त्रवित्
मुमुक्षोर्वा निवृत्ताद्याः अजाताद्यास्तदीश्वराः । त्रितत्त्वं वाथ न्यसेद्व्याप्त्यात्मकारणं
शुद्धे चात्मनि विद्येशा अशुद्धे लोकनायकाः। द्रष्टव्या मूर्त्तिपाश्चैव भोगिनो मन्त्रनायकाः
पञ्चविंशत्तथैवाष्टपञ्चत्रीणि यथाक्रमं। एषान्तत्त्वं तदीशानामिन्द्रादीनां ततो यथा
ओं हां शक्तितत्तवाय नम हत्यादि । ओं हां शक्तितत्त्वाधिपाय नम इत्यादि। ओं हां क्ष्मामूर्त्तये नमः। ओं हां क्ष्मामूर्त्त्यधीशाय शिवाय नम इत्यादि। ओं हां पृथिवीमूर्त्तये नमः। ओं हां मूर्त्त्यधिपाय ब्रह्मणे नम इत्यादि। ओं हां शिवतत्त्वाधिपाय रुद्राय नम इत्यादि। नाभिकन्दात्समुच्चार्य्य घण्टा नादविसर्प्पणं । ब्रह्मादिकारणत्यागाद् द्वादशान्तसमाश्रइतं
नम्त्रञ्च मनसा भिन्नं प्राप्तानन्दरसोपमं। द्वादशान्तात्समानीय निष्कलं व्यापकं शिवं
अष्टत्रिशत्कलोपेतं सहस्रकिरणोज्जवलं। सर्वशक्तिमयं साङ्गं ध्यात्वा लिङ्गे निवेशयेत्
जीवन्यासो भवेदेवं लिङ्गे सर्वार्थसाधकः। पिण्डिकादिषु तु न्यासः प्रोच्यते साम्प्रतं यथा
पिण्डिकाञ्च कृतस्नानां विलिप्ताञ्चन्दनादिभिः। सद्वस्त्रैश्च समाच्छाद्य रन्ध्रे च भगलक्षणे
पञ्चरत्नादिसंयुक्तां लिङ्गस्योत्तरतः स्थितां। लिङ्गवत्कृतवनिन्यासां विधिवत्सम्प्रपूजयेत्
कृतस्नानादिकान्तत्र लिङ्गमूले शिलां न्यसेत्। कृतस्नानादिसंस्कारं शक्त्यन्तं वृष्भं तथा
प्रणवपूर्वं हुं पूं ह्रीं मध्यादन्यतमेन च। क्रियाशक्तियुतां पिण्डीं शिलामाधाररूपिणीं
भस्मदर्भतिलैः कुर्य्यात् प्राकारत्रितयन्ततः। रक्षायै लोकपालांश्च सायुधान्याजयेद्वहिः
ओं हूं ह्रं क्रियाशक्तये नमः। ओं हूं ह्रां हः महागौरी रुद्रदयिते स्वाहेति च पिण्ड़िकायां। ओं हां आदारशक्तये नमः। ओं हां वृषभाय नमः। धारिका दीप्तिमत्युग्रा ज्योत्स्ना चैता बलोत्कटाः। तथा धात्री विधात्री च न्यसेद्वा पञ्चनायिकाः
वामा ज्येष्ठा क्रिया ज्ञाना बेधा तिस्रोथवा न्यसेत्। क्रियाज्ञाना तथेच्छा च पूर्ववच्छान्तिमूर्त्तिषु
तमी मोहा क्षमी निष्ठा मृत्युर्मायाभवज्वराः पञ्च चाथ महामोहा घोरा च त्रितयज्वरा
तिस्रोथवा क्रियाज्ञाना तथा बाधाधिनायिका। आत्मादित्रिषु तत्त्वेषु तीव्रमूर्त्तिषु विन्यसेत्