चक्रे चारणूरमल्लेन मुष्टिकेन बलोऽकरोत्। चाणूरमुष्टिकौ ताभ्यां हतौ मल्लौ तथापरे
जरासन्धस्य ते पुत्रयौ जरासन्धस्तदीरितः। चक्रेस मथुरारोधं यादवैर्युयुधे च कंसगे
रामकृष्णौ च मथुरां त्यक्त्वा गोमन्तमागतौ। जरासन्धं विजित्याजौ पौण्ड्रकं वासुदेवकम्
पुरीं च द्वारकां कृत्वा न्यवसद् यादवैर्वृतः। भौमं तु नाकं हत्वा तेनानीताश्च कन्यकाः
देवगन्धर्वयक्षाणां ता उवाह जनार्द्दनः। षोडशस्त्रीसहस्त्राणि रुक्मिण्याद्यास्तथाष्ट च
सत्यभामासमायुक्तो गरुडे नरकार्दनः। मणिशैलं सन्त्यश्च इन्द्रं जित्वा हरिर्दिवि
पारिजातं समानीय सत्यभामागृहेऽकरोत्। सान्दीपनेश्च शश्त्रास्त्रं ज्ञात्वा, तद्बालकं ददौ
जित्वा पञ्चजनं दैत्यं यमेन च सुपूजितः। अवधीत् कालयवनं मुचुकुन्देन पूजितः
वसुदेवं देवकीञ्च भक्तविप्रांश्च सोर्च्चयत्। रेवत्यां बलभद्राच्च यज्ञाते निशठोन्मुकौ
कृष्णात् शाम्बो जाम्बवत्यामन्यास्वन्येऽभवन् सुताः । प्रद्युम्नोऽभूच्च रुक्मिण्यां षष्ठेऽह्नि स हृतो बलात्
शम्बरेणाम्बुधौ क्षिप्तोमत्स्योजग्राह धीवरः। तं मत्स्यं शम्बरायादान्मायावत्यैच शम्बरः
मायावती मत्स्यमध्ये दृष्ट्वा स्वं पतिमादरात्। पपोष सा तं चोवाच रतिस्तेऽहं पतिर्मम
कामस्त्वं शम्भुनानङ्गः कृतोहं शम्बरेण च। हृता न तस्य पत्नी त्वं मायाज्ञः शम्बरं जहि
तच्छ्रुत्वा शम्बरं हत्वा प्रद्युम्नः सह भार्यया। मा यावत्या ययौ कृष्णं कृष्णो हृष्टोऽथ रुक्मिणी
प्रद्युम्नादनिरुद्वोभूदुषापतिरुदारधीः। बाणो बलिसुतस्तस्य सुतोषा शोणितं पुरम्
तपसा शिवपुत्रोऽभूद् मायूरध्वजपातितः। युद्धं प्राप्स्यसि बाण त्वं बाणं तुष्टः शिवोभ्यधात्
शिवेन क्रीडतीं गौरीं दृष्ट्वोषा सस्पृहा पतौ। तामाह गौरी भर्त्ता ते निशि सुप्तेति दर्शनात्
वैशाखमासद्वादश्यां पुंसो भर्त्ता भविष्यति। गौर्य्युक्त हर्षिता चोषा गृहे सुप्ता ददर्श तम्
आत्मना सङ्गतं ज्ञात्वा तत्सख्या चित्रलेखया। लिखिताद्वै चित्रपटादनिस्द्धं समानयत्
कृष्णणौत्रं द्वारकातो दुहिता बाणमन्त्रिणः। कुम्भाण्डस्यानिरुद्धोगाद्रराम ह्युषया सह
बाणध्वजस्य सम्पातै रक्षिभिः स निवेदितः। अनिरुद्धस्य बाणेन युद्धमासीत्सुदारुणम्
श्रुत्वा तु नारदात् कृष्णः प्रद्युम्नबलभद्रवान्। गरुडस्थोथ जित्वाग्नीञ्ज्वरं माहेश्वरन्तथा
हरिशङ्करयोर्युद्धं बभूवाथ शराशरि। नन्दिविनायकस्कन्दमुखास्ताक्षर्यादिभिर्जिताः
जृम्भिते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना। छिन्नं सहस्त्रं बाहूनां रुद्रेणाभयमर्थितम्
विष्णुना जीवितो बाणो द्विबाहुः प्राब्रवीच्छिवम्। त्वया यदभयं दत्तं बाणस्यास्य मया च तत्
आवयोर्नास्ति भेदो वै भेदी नरकमाप्नुयात्। शिवाद्यैः पूजितो विष्णुः सोनिरुद्ध उषादियुक्
द्वारकान्तु गतो रेमे उग्रसेनादियादवैः। अनिरुद्धात्मजो वज्रो मार्कण्डेयात्तु सर्ववित्
बलभद्रः प्रलम्बघ्नो यमुनाकर्षणोऽभवत्। द्विविदस्य कपेर्भेत्ता कौरवोन्मादनाशनः
हरी रेमेनेकमूर्त्ती रुक्मिण्यादिभिरीश्वरः। पुत्रानुत्पादयामास त्वसंख्यातान् स यादवान्
अग्निरुवाच भारतं सम्प्रवक्षयामि कृष्णमाहात्म्यलक्षणम्। भूभारमहरद्विष्णुनिमित्तीकृत्य पाण्डवान्