लिङ्गदीर्घविकारांशे त्रिभक्ते भागवर्णनात् । विस्तारो लक्ष्म देहस्य भवेल्लिङ्गस्य सर्वतः
यवस्य नवभक्तस्य भागैरष्टाभिरावृता हस्तिके । लक्ष्मरेखा च गाम्भीर्य्याद् विस्तरादपि
एवमष्टांशवृद्ध्या तु लिङ्गे सार्द्धकरादिके । भवेदष्टयवा पृथ्वी गम्भीरात्र च हास्तिके
एवमष्टांशवृद्ध्या तु लिङ्गे सार्द्धकरादिके। भवेदष्टयवा पृथ्वी गम्भीरन्नवहास्तिके
शाम्भवेषु च लिङ्गेषु पादवृद्धेषु सर्वतः। लक्ष्म देहस्य विष्कम्भो भवेद्वै यववर्द्धनात्
गम्भीरत्वपृथुत्वाभ्यां रेशापि त्रयंशवृद्धितः। सर्वेषु च भवेत् सूक्ष्मं लिङ्गमस्तकमस्तकं
लक्ष्मक्षेत्रेष्टधाभक्ते मूद्र्ध्नि भागद्वये शुभे । षड्भागपरिवर्त्तेन मुक्त्वा भागद्वयन्त्वधः
रेखात्रयेण सम्बद्धं कारयेत् पृष्ठदेशगं। रत्नजे लक्षणोद्धारो यवौ हेमसमुद्भवे
स्वरूपं लक्षणन्तेषां प्रभा रत्नेषु निर्मला। नयनोन्मीलनं वक्त्रे सान्निध्याय च लक्ष्म तत्
लक्ष्मणोद्धाररेखाञ्च घृतेन मधुना तथा। मृत्युञ्जयेन सम्पूज्य शिल्पिदोषनिवृत्तये
अर्च्चयेच्च तता लिङ्गं स्नापयित्वा मृदादिभिः। शिल्पिनन्तोषयित्वा तु दद्याद् गां गुरवो ततः
लिङ्गं धूपादिभिः प्राच्यं गायेयुर्भर्तृगास्त्रियः। सव्येन चापसव्येन सूत्रेणाथ कुशेन वा
स्मृत्वा च रोचनं दत्वा कुर्यान्निर्मञ्जनादिकं । गुडलवणधान्याकदानेन विसृजेच्च ताः
गुरुमूर्त्तिधरैः सार्द्धं हृदा वा प्रणवेन वा। मृत्स्नागोमयगोमूत्रभस्मभिः सलिलान्तरं
स्नापयेत् पञ्चगव्येन पञ्चमृतपुरः सरं । विरूक्षणं कषायैश्च सर्वौषधिजलेन वा
शुभ्रपुष्पफलस्वर्णरत्न श्रृङ्गयवोदकैः। तथा धारासहस्रेण दिव्यौषधिजलेन च
तीर्थोदकेन गङ्गेन चन्दनेन च वारिणा। क्षीरार्णवादिभिः कुम्भैः शिवकुम्भजलेन च
विरूक्षणं विलेपञ्च सुगन्धैश्चन्दनादिभिः। सम्पूज्य ब्रह्मभिः पुष्पैर्वर्मणा रक्तचीवरैः
रक्तरूपेण नीराज्य रक्षातिलकपूर्वकं। घृतौघैर्जलदुग्धैश्च कुशाद्यैरर्घ्यसूचितैः
द्रव्यैः स्तुत्यादिबिस्तुष्टमर्चयेत् पुरुषाणुना । समाचम्य हृदा देवं ब्रूयादुत्थीयतां प्रभो
देवं ब्रह्मारथेनैव क्षिप्रं द्रव्याणि तन्नयेत् । मण्डपे पश्चिमद्वारे शय्यायां विनिवेशयेत्
शक्त्यादिशक्तिपर्य्यन्ते विन्यसेदासने शुभे। पश्चिमे पिण्डिकान्तस्यन्यसेद्ब्रह्मशिलान्तदा
शस्त्रमस्त्र शतालब्धनिद्राकुम्भध्रुवासनं । प्राकल्प्य शिवकोणे च दत्वार्घ्यं हृदयेन तु
उत्थाप्योक्तासने लिङ्गं शिरसा पूर्वमस्तकं। समारोप्य न्यसेत्तस्मिन् सृष्ट्या धर्मादिनन्दनं
दद्याद्धूपञ्च सम्पूज्य तथा वासांसि वर्मणा। गृहोपकृतिनैवेद्यं हृदा दद्यात् स्वशक्तितः
घृतक्षौद्रयुतं पात्रमब्यङ्गाय पदान्तिके। देशिकश्च स्थितस्तत्र षट्त्रिंशत्तत्त्वसञ्चयं
शक्त्यादिभूमिपर्य्यन्तं स्वतत्त्वाधिपसंयुतं। विन्यस्य पुष्पमालाभिस्त्रिशण्डं परिकल्पयेत्
मायापदेशक्त्यन्तन्तुर्य्याशाष्टांशवर्त्तुलं । तत्रात्मतत्त्वविद्याख्यं शिवं सृष्टिक्रमेण तु
एकशः प्रतिभागेषु ब्रह्मविष्णुहरधिपान्। विन्यस्य मूर्त्तिमूर्त्तीशान् पूर्वादिक्रमतो यथा
क्ष्मावह्निर्यजमानार्क्कजलवायुनिशाकरान्। आकाशमूर्त्तिरूपांस्तान् न्यसेत्तदधिनायकान्