चतुष्पदान्तसंस्कारैः संस्कुर्य्यान्मशमण्डपं। विक्षिप्य विकिरादीनि कुशकूर्चोपसंहरेत्
आसनीकृत्य वर्द्धन्यां वास्त्वादीन् पूर्ववद्यजेत्। शिवकुम्भास्त्रवर्द्धन्यौ पूजयेच्च स्थिरासने
स्वदिक्षु कलशारूढांल्लोकपालाननुक्रमात्। सहस्त्रनयनं शक्रं वज्रपाणिं विभावयेत्
ऐरावतगजारूढं स्वर्णवण किरीटिनं। सहस्रनयनं शक्रं वज्रपाणिं विभावयेत्
सप्तार्च्चिषं च विभ्राणमक्षमालां कमण्डलुं। ज्वालामालाकुलं रक्तं शक्तिहस्तमजासनं
महिषस्थं दण्डहस्तं यमं कालानलं स्मरेत्। रक्तनेत्रं खरारूढं खड्गहस्तञ्च नैर्ऋृतं
वरुणं मकरे श्वेतं नागपाशधरं स्मरेत्। वायुं च हरिणे नीलं कुवेरं मेघसंस्थितं
त्रिशूलिनं वृषे चेशं कूर्म्मेनन्तन्तु चक्रिणं। ब्रह्माणं हंसगं ध्यायेच्चतुर्वक्त्रं चतुर्भुजं
स्तम्बमूलेषु कुम्भेषु वेद्यां धर्मादिकान् यजेत्। दिक्षु कुम्भेष्वनन्तादीन् पूजयन्त्यपि केचन
शिवाज्ञां श्रावयेत् कुम्भं भ्रामयेदात्मपृष्ठगं । पूर्ववत् स्थापयेदादौ कुम्भं तदनु वर्द्धनीं
शिवं स्थिरासनं कुम्भे शस्त्रार्थंञ्च ध्रुवासनं। पूजयित्वा यथापूर्वं स्पृशेदुद्भवमुद्रया
निजयागं जगन्नाथ रक्ष भक्तानुकम्पया। एभिः संश्राव्य रक्षार्थं कुम्भे खड्गं निवेशयेत्
दीक्षास्थापनयोः कुम्भे स्थण्डिले मण्डलेऽथवा। मण्डलेभ्यर्च्य देवेशं व्रजेद्वै कुण्डसन्निधौ
कुण्डनाभिं पुरस्कृत्य निविष्टा मूर्त्तिदारिणः। गुरोरादेशतः कुर्युर्न्निजकुण्डेषु संस्कृतिं
जपेयुर्जापिनः सङ्ख्यं मन्त्रमन्ये तु संहितां । पठेयुर्ब्राह्मणाः शान्तिं स्वशाखावेदपारगाः
श्रीसूक्तं पावमानीश्च मैत्रकञ्च वृषाकपिं। ऋग्वेदी पूर्वदिग्भागे सर्वमेतत् समुच्चरेत्
देवव्रतन्तु भारुण्डं ज्यष्ठसाम रथन्तरं। पुरुषं गीतिमेतानि सामवेदी तु दक्षइणे
रुद्रं पुरुषसूक्तञ्च श्लोकाद्यायं विशेषतः। ब्रह्मणञ्च यजुर्वेदी पश्चिमायां समुच्चरेत्
नीलरुद्रं तथाथर्वी सूक्ष्मासूक्ष्मन्तथैव च। उत्तरेऽथर्वशीर्षञ्च तत्परस्तु समुद्धरेत्
आचार्य्यश्चाग्निमुत्पाद्य प्रतिकुण्डंथ प्रदापयेत् । वह्नेः पूर्वादिकान् भागान् पूर्वकुण्डदितः क्रमात्
धूपदीपचरूणाञ्च ददीताग्निं सम्द्धरेत् । पूववच्छिवमभ्यर्च्य शिवाग्नौ मन्त्रतर्पणं
देशकालादिसम्पत्तौ दुर्न्निमित्तप्रशान्त्ये। होमङ्कृत्वा तु मन्त्रज्ञः पूर्णा दत्त्वा शुभावहां
पूर्ववच्चरुकं कृत्वा प्रतिकुण्डं निवेदयेत् । यजमानालङकृतास्तु व्रजेयुः स्नानमण्डपं
भद्रपीठे निधायेशं ताडयित्वावगुण्ठयेत्। स्नापयेत् पूजयित्वा तु मृदा काषायवारिणा
गोमूत्रैर्गोमयेनापि वारिणा चान्तरान्तरा। भस्माना गन्धतोयेन फडन्तास्त्रेण वारिणा
देशिको मूर्त्तिपैः सार्द्धं कृत्वा कारणशोधनं । धर्मजप्तेन सञ्छाद्य पीतवर्णेन वाससा
सम्पूज्य सितपुष्पैश्च नयदुत्तरवेदिकां। तत्र दत्तासनायाञ्च शय्यायां सन्निवेश्य च
कुङ्कुमालिप्तसूत्रेण विभज्य गुरुरालिखेत्। शलाकया सुवर्णस्य अक्षिणी शस्त्रकर्मणा
अञ्जयेल्लक्ष्मकृत् पश्चाच्छास्त्रदृष्टेन कर्मणा। कृतकर्मा चशस्त्रेण लक्ष्मी शिल्पी समुत्तक्षिपेत्
त्र्यंशादर्द्धोथ पादार्द्धादर्द्धाया अर्द्धतोथवा । सर्वकामप्रसिद्ध्यर्थं शुभं लक्ष्मावतारणं