कम्बलास्तृतेषु वर्णेषु वंशस्थूणास्वनुक्रमात् । पञ्च क्षित्यादितत्त्वानि सद्योजातादिभिर्यजेत्
सदाशिवपदव्यापि मण्डपं धाम शाङ्करं। पताकाशक्तिसंयुक्तं तत्त्वदृष्ट्यावलोकयेत्
दिव्यान्तरिक्षभूमिष्ठविघ्नानुत्सार्य्य पूर्ववत्। प्रविशेत् पश्चिमद्वारा शेषद्वाराणि दर्शयेत्
प्रदक्षिणक्रमाद्गत्वा निविष्टो वेदिदक्षिणे। उत्तराभिमुखः कुर्य्याद् भूतशुद्धिं यथा पुरा
अन्तर्य्यागं विशेषार्घ्यं मन्त्रद्रव्यादिशोधनं। कुर्व्वींत आत्मनः पूजां पञ्चगव्यादि पूर्ववत्
साधारङ्कलसन्तस्मिन् विन्यसेत्तदनन्तरं। विशेषाच्छिचवतत्त्वाय तत्त्वत्रयमनुक्रमात्
ललाटस्कन्धपादान्तं शिवविद्यात्मकं परं। रुद्रनारायणब्रह्मदैवतं निजसञ्चरैः
ओं हं हां । मूर्त्तीस्तदीश्वरंस्तत्र पूर्ववद्विनिवेशयेत्। तद्व्यापकं शिवं साङ्गं शिवहस्तञ्च मूर्द्धनि
ब्रह्मरन्ध्रप्रविष्टेन तेजसा बाह्यसान्तरं । तमः पटलमाधूय प्रद्योतितदिगन्तरं
आत्मानं मूर्त्तिपैः सार्द्वं स्रग्वस्त्रकुसुमादिभिः । भूषयित्वा शिवोस्मीति ध्यात्वा बोधासिमुद्धिरेत्
चतुष्पदान्तसंस्कारैः संस्कुर्य्यान्मशमण्डपं। विक्षिप्य विकिरादीनि कुशकूर्चोपसंहरेत्
आसनीकृत्य वर्द्धन्यां वास्त्वादीन् पूर्ववद्यजेत्। शिवकुम्भास्त्रवर्द्धन्यौ पूजयेच्च स्थिरासने
स्वदिक्षु कलशारूढांल्लोकपालाननुक्रमात्। सहस्त्रनयनं शक्रं वज्रपाणिं विभावयेत्
ऐरावतगजारूढं स्वर्णवण किरीटिनं। सहस्रनयनं शक्रं वज्रपाणिं विभावयेत्
सप्तार्च्चिषं च विभ्राणमक्षमालां कमण्डलुं। ज्वालामालाकुलं रक्तं शक्तिहस्तमजासनं
महिषस्थं दण्डहस्तं यमं कालानलं स्मरेत्। रक्तनेत्रं खरारूढं खड्गहस्तञ्च नैर्ऋृतं
वरुणं मकरे श्वेतं नागपाशधरं स्मरेत्। वायुं च हरिणे नीलं कुवेरं मेघसंस्थितं
त्रिशूलिनं वृषे चेशं कूर्म्मेनन्तन्तु चक्रिणं। ब्रह्माणं हंसगं ध्यायेच्चतुर्वक्त्रं चतुर्भुजं
स्तम्बमूलेषु कुम्भेषु वेद्यां धर्मादिकान् यजेत्। दिक्षु कुम्भेष्वनन्तादीन् पूजयन्त्यपि केचन
शिवाज्ञां श्रावयेत् कुम्भं भ्रामयेदात्मपृष्ठगं । पूर्ववत् स्थापयेदादौ कुम्भं तदनु वर्द्धनीं
शिवं स्थिरासनं कुम्भे शस्त्रार्थंञ्च ध्रुवासनं। पूजयित्वा यथापूर्वं स्पृशेदुद्भवमुद्रया
निजयागं जगन्नाथ रक्ष भक्तानुकम्पया। एभिः संश्राव्य रक्षार्थं कुम्भे खड्गं निवेशयेत्
दीक्षास्थापनयोः कुम्भे स्थण्डिले मण्डलेऽथवा। मण्डलेभ्यर्च्य देवेशं व्रजेद्वै कुण्डसन्निधौ
कुण्डनाभिं पुरस्कृत्य निविष्टा मूर्त्तिदारिणः। गुरोरादेशतः कुर्युर्न्निजकुण्डेषु संस्कृतिं
जपेयुर्जापिनः सङ्ख्यं मन्त्रमन्ये तु संहितां । पठेयुर्ब्राह्मणाः शान्तिं स्वशाखावेदपारगाः
श्रीसूक्तं पावमानीश्च मैत्रकञ्च वृषाकपिं। ऋग्वेदी पूर्वदिग्भागे सर्वमेतत् समुच्चरेत्
देवव्रतन्तु भारुण्डं ज्यष्ठसाम रथन्तरं। पुरुषं गीतिमेतानि सामवेदी तु दक्षइणे
रुद्रं पुरुषसूक्तञ्च श्लोकाद्यायं विशेषतः। ब्रह्मणञ्च यजुर्वेदी पश्चिमायां समुच्चरेत्
नीलरुद्रं तथाथर्वी सूक्ष्मासूक्ष्मन्तथैव च। उत्तरेऽथर्वशीर्षञ्च तत्परस्तु समुद्धरेत्
आचार्य्यश्चाग्निमुत्पाद्य प्रतिकुण्डंथ प्रदापयेत् । वह्नेः पूर्वादिकान् भागान् पूर्वकुण्डदितः क्रमात्