द्वारपालादिधर्म्मादि प्रशान्तादिघटानपि। वास्तुलक्ष्मीगणेशानां कलशानपरानपि
धान्यपुञ्जकृताधारान् सवस्त्रान् स्रग्विभूषितान्। सहिरण्यान् समालब्धान् गन्धपानीयपूरितान्
पूर्णपात्रफलाधारान् पल्लवाद्यान् सलक्षणान्। वस्त्रैराच्छादयेत् कुम्भानाहरेद्गौरसर्षपान्
विकिरार्थन्तथा लाजान् ज्ञानखड्गञ्च पूर्ववत्। सापिधानां चरुस्थालीं दर्व्वी च ताम्रनिर्म्मितां
घृतक्षौद्रान्वितं पात्रं पादाभ्यङ्गकृते तथा। विष्टरांस्त्रिशतादर्भदलैर्बाहुप्रमाणकान्
चतुरश्चतुरस्तद्वत् पालाशान् परिधीनपि। तिलपात्रं हविः पात्रमर्धपात्रं पवित्रकं
पलविंशाष्टमानानि घटो धूपप्रदानकं । श्रुक्श्रुवौ पिटकं पीठं व्यजनं शुष्कमिन्धनं
पुष्पं पत्रं गुग्गुलञ्च घृतैर्द्दीपांश्च धूपकं। अक्षतानि त्रिसूत्रीञ्च गव्यमाज्यं यवांस्तिलान्
कुशाः शानत्यै त्रिमधुरं समिधो दशपर्विकाः। बाहुमात्रं श्रुवं हस्तम् अर्कादिग्रहशान्त्ये
समिधोऽर्कपलाशोत्थाः खादिरामार्गपिप्पलाः । उदुम्बरशमीदूर्वाकुशोत्थाः शतमष्ट च
तदभावे यवतिला गृहोपकरणं तथा। स्थालीदर्वीपिधानादि देवादिभ्योंऽशुकद्वयं
मुद्रामुकृटवासांसि हारकुण्डलकङ्कणान्। कुर्य्यादाचार्यपूजार्थं वित्तशाठ्यं विवर्जयेत्
तत्पादपादहीना च मूत्तिभृदस्त्रजापिनां । पूजा स्याज्जापिभिस्तुल्या विप्रदैवज्ञशिल्पिनां
वज्रार्कशान्तौ नीलातिनाल्मुक्ताफलानि च । पुष्पपद्मादिशगञ्च वैदूर्य्यं रत्नमष्टमं
उषीरमाधवक्रान्तारक्तचन्दनकागुरुं। श्रीखण्डं सारिकङ्कुष्ठं शङ्खिनी ह्योषधीगणः
हेमताम्रमयं रक्तं राजतञ्च सकांस्यकं। शीसकञ्चेति लोहानि हरितालं मनः शिला
गैरिकं हेममाक्षीकं पारदो वह्निगैरिकं। गन्धकाभ्रकमित्यष्टौ धातवो ब्रीहयस्तथा
गोधूमान् सतिलान्माषान्मुद्गानप्याहरेद्यवान्। नीवारान् श्यामकानेवं व्रीहयोऽप्यष्ट कीर्त्तिताः
ईश्वर उवाच स्नात्वा नित्यद्वयं कृत्वा प्रणवार्थकरो गुरुः । सहायैर्मूर्त्तिपैर्विप्रैः सह गच्छेन्मशालयं
शान्त्यादितोरणांस्तत्र पूर्ववत् पूजयेत् क्रमात्। प्रदक्षिणक्रमादेषां शाखायां द्वारपालकान्
प्राचि नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ । वारुणे वृषभस्कन्दौ देवीचण्डौ तथोत्तरे
तच्छाखामूलदेशस्थौ प्रशान्तशिशिरौ घटौ। पर्ज्जन्याशोकनामानौ भूतं सञ्जीवनामृतौ
धनदश्रीप्रदौ द्वौ द्वौ पूजयेदनुपूर्वशः । स्वनामभिश्चतुर्थ्यन्तैः प्रणवादिनमोन्तगैः
लोकग्रहावसुद्वाःस्थस्रवन्तीनां द्वयं द्वयं। भानुत्रयं युगं वेदो लक्ष्मीर्गणपतिस्तथा
इति देवा मखागारे तिष्ठन्ति प्रतितोरणं। विघ्नसङ्घापनोदाय क्रतोः संरक्षणाय च
वज्रं शक्तिं तथा दण्डं खड्गं पाशं ध्वजं गदां। त्रिशूलं चक्रमम्भोजम्पताकास्वर्च्चयेत् क्रमात्
ओ ह्रूं फट् नमः। ओं ह्रूं फट् द्वाः स्थशक्तये ह्रूं फट् नमः इत्यादिमन्त्रैः। कुमुदः कुमुदाक्षश्च पुण्डरीकोथ वामनः। शङ्कुकर्णः सर्वनेत्रः सुमुख सुप्रतिष्ठितः
ध्वजाष्टदेवताः पूज्याः पूर्वादौ भूतकोटिभिः। ओं कौं कुमुदाय नम इत्यादिमन्त्रैः
हेतुकं त्रिपुरघ्नञ्च शक्त्याख्यं यमज्ह्वकं । कालं करालिनं षष्ठमेकाङ्घ्निम्भीममष्टकं
तथैव पूजयेद् दिक्षु क्षेत्रपालाननुक्रमात्। वलिभिः कुसुमैर्धूपैः सन्तुष्टान् परिभावयेत्