शुभः शुभग्रहैर्दृष्टः शस्तो लग्नः शुभाश्रितः । गुरुशुक्रबुधैर्युक्तो लग्नो दद्याद्बलायुषी
राज्यं शौर्य्यं बलं पुत्रान् यशोधर्म्मादिकं बहु। प्रथमः सप्तमस्तुर्य्यो दशमः केन्द्र उच्यते
गुरुशुक्रबुधास्तत्र सर्वसिद्धिप्रदायकाः। त्रयेकादशचतुर्थस्था लग्नात् पापग्रहाः शुभाः
अतोप्यनीचकर्मार्थं योज्यास्तिथ्यादयो बुधैः। धाम्नः पञ्चगुणां भूमिं त्यक्त्वा वा धानसम्मितां
हस्ताद् द्वादशसोपानात् कुर्य्यान्मण्डपमग्रतः। चतुरस्रं चतुर्द्वारं स्नानार्थन्तु तदर्द्धतः
एकास्यं चतुरास्यं वा रौद्र्यां प्राच्युत्तरेथवा । हास्तिको दशहस्तो वै मण्डपोर्ककरोऽथवा
द्विहस्तोत्तरया वृद्ध्या शेष स्यान्मण्डपाष्टकं। वेदी चतुष्करा मध्ये कोणस्तम्भेन संयुता
वेदीपादान्तरं त्यक्त्वा कुण्डानि नव पञ्च वा। एकं वा शिवकाष्ठायां प्राच्यां वा तद्गुरोः परं
मुष्टिमात्रं शतार्द्धे स्याच्छते चारत्निमात्रकं । हस्तं सहस्रहोमे स्यान्नियुते तु द्विहास्तिकं
लक्षे चतुष्करं कुण्डंकोटिहोमेऽष्टहस्तकं। भगाभमग्नौ खण्डेन्दु दक्षे त्र्यस्रञ्च नैर्ऋते
षडस्रं वायवे पद्म सौम्ये चाष्टास्रकं शिवे। तिर्य्यक्पातशिवं खातमूद्र्ध्वं मेखलया सह
तद्वहिर्म्मेखलास्तिस्रो वेदवह्नियमाङ्गुलै । अङ्गुलैः षड्भिरेका वा कुण्डाकारास्तु मेखलाः
तासामुपरि योनिः स्यान्मध्येऽश्वत्थदलाकृतिः। उच्छ्रायेणाङ्गुलं तस्मादिविस्तारेणाङ्गुलाष्टकं
दैर्घ्यं कुण्डार्द्धमानेन कुण्डकण्ठसमोऽधरः। पूर्वाग्नियाम्यकुण्डानां योनिः स्यादुत्तरानना
पूर्वानना तु शेषाणामैशान्येऽन्यतरा तयोः। कुण्डानां यश्चतुर्विंशो बागः सोङ्गुल इत्यतः
प्लक्षोदुम्बरकाश्वत्थवटजास्तोरणाः क्रमात्। शान्तिभूतिबलारोग्यपूर्वाद्या नामतः क्रमात्
पञ्चषट्सप्तहस्तानि हस्तकातस्थितानि च। तदर्द्धविस्तराणि स्युर्युतान्याम्रदलादिभिः
इन्द्रायुधोपमा रक्ता कृष्णा धूम्रा शशिप्रभा। शुक्लाभा हेमवर्णा च पताका स्फाटिकोपमा
पूर्वादितोब्जजे रक्ता नीलाऽन्न्तस्य नैर्ऋते। पञ्चहस्तास्तदर्द्धाञ्च ध्वजा दीर्घाश्च विस्तराः
हस्तप्रदेशिता दण्डा ध्वजानां पञ्चहस्तकाः। वल्मीकाद्दन्तिदन्ताग्रात्तथा वृषभश्रृङ्गतः
पद्मषण्डाद्वराहाच्च गोष्ठादपि चतुष्पथात्। मृत्तिका द्वादश ग्राह्य वैकुण्ठेष्टौ पिनाकिनि
न्यग्रोधोदुम्बराश्वत्थचूतजम्वुत्वगुद्भवं। कषायपञ्चकं ग्राह्यमार्त्तवञ्च फलाष्टकं
तीर्थाम्भांसि सुगन्धीनि तथा सर्वौषधीजलं। शस्तं पुष्पफलं वक्ष्ये रत्नगोश्रृङ्गवारि च
स्नानायापाहरेत् पञ्च पञ्चगव्यामृतं तथा। पिष्टनिर्मितवस्त्रादिद्रव्यं निर्म्मज्जनाय च
सहस्रशुषिरं कुम्भं मण्डलाय च रोचना । शतमोषधिमूलानां विजया लक्ष्मणा बला
गुडूच्यतिबला पाठा सहदेवा शतावरी। ऋद्धि सुवर्चसा वृद्धिः स्नाने प्रोक्ता पृथक् पृथक
रक्षायै तिलदर्भौघो भस्मस्नानन्तु केवलं। यवगोधूमविल्वानां चुर्णानि च विचक्षणः
विलेपनं सकर्प्पूरं स्नानार्थं कुम्भगण्डकान् । खट्वाञ्च तुलिकायुग्मं सोपधानं सव स्त्रकां
कुर्य्याद्वित्तानुसारेण शयने लक्ष्यकल्पने । घृतक्षौद्रयुतं पात्रं कुर्य्यात् स्वर्णशलाकिकां
वर्द्धनीं शिवकुम्भञ्च लोकपालघटानपि। एकं निद्राकृते कुम्भं शान्त्यर्थं कुण्डसङ्ख्यया