मध्यभावे चतस्रोऽपि मातृवद्भावसम्मताः। ओं पूर्णे त्वं महावद्ये सर्वसन्दोहलक्षणे
सर्वसम्पूर्णमेवात्र कुरुष्वाङिगिरसः सुते। ओं नन्दे त्वं नन्दिनी पुंसां त्वामत्र स्थापयाम्यहं
प्रासादे तिष्ठ सन्तृप्ता यावच्चन्द्रार्कतारकं। आयुः कामं श्रियन्नन्दे देहि वासिष्ठि देहिनां
अस्मिन् रक्षा सदा कार्य्या प्रासादे यत्नतस्त्वया। ओं भद्रे त्वं सर्वदा भद्रं लोकानां कुरु काश्यपि
आयुर्दा कामदा देवि श्रीप्रदा च सदा भव। ओं जयेऽत्र सर्वदा देवि श्रीदाऽऽयुर्दा सदा भव
ओं जयेऽत्र सर्वदा देवि तिष्ठ त्वं स्थापितामय । नित्यञ्जयाय भूत्यै च स्वामिनी भव भार्गवि
ओं रिक्तेऽतिरिक्तदोषघ्ने सिद्धिमुक्तिप्रदे शुभे। सर्वदा सर्वदेशस्थे तिष्ठास्मिन् विश्वरूपिणि
गगनायतनन्ध्यात्वा तत्र तत्त्वात्रयं न्यसेत्। प्रायश्चित्तन्ततो हुत्वा विधिना विसृजेन्मखं
ईश्वर उवाच वक्ष्ये लिङ्गप्रतिष्ठां च प्रासादे भुक्तिमुक्तिदां। ताञ्चरेत् सर्वदा मुक्तौ भुक्तौ देवदिने सति
विना चैत्रेण माघादौ प्रतिष्ठा मासपञ्चके। गुरुशुक्रोदये कार्य्या प्रथमे करणत्रये
शुक्लपक्षे विशेषेण कृष्णे वा पञ्चमन्दिनं । चतुर्थी नवमीं षष्ठीं वर्जयित्वा चतुर्दशीं
शोभनास्तिथयः शषाः क्रूरवारविवर्जिताः। शतभिषा धनिष्ठाद्र्द्रा अनुराधोत्तरत्रयं
रोहिणी श्रवणश्चेति स्थिरारम्भे महोदयाः। लग्नञ्च कुम्भसिहालितुलास्त्रीवृषधन्विनां
शस्तो जीवो नवर्क्षेषु सप्तस्थानेषु सर्वदा। बुधः षडष्टदिक्सप्ततुर्येषु विनर्तुं शितः
सप्तर्त्तु त्रिदशादिस्थः शशाङ्को बलदः सदा । सविर्दशत्रिषट्संस्थो राहुस्त्रिदशषङ्गतः
षट्त्रिस्थानगताः शस्ता मन्दाङ्गारार्ककेतवः। शुभाः क्रूराश्च पापाश्च सर्व एकादशस्थिताः
एषां दृष्टिर्मुनौ पूर्णा त्वार्द्धिकी ग्रहभूतयोः। पादिकी रामदिक्स्थाने चतुरष्टौ पादवर्जिताः
पादान्यूनचतुर्नाडी भोगः स्यान्मीनमेषयोः। वृषकुम्भौ च भुञ्जाते चतस्रः पादवर्जिताः
मकरो मिथुनं पञ्च चापालिहरिकर्क्कटाः। पादोनाः षट्तुलाकन्ये घटिकाः सार्द्धपञ्च च
केशरीवृषभः कुम्भ स्थिराः स्युः सिद्धिदायकाः। चरा धनुस्तुलामेषा द्विः स्वभावास्तुतृतीयकाः
शुभः शुभग्रहैर्दृष्टः शस्तो लग्नः शुभाश्रितः । गुरुशुक्रबुधैर्युक्तो लग्नो दद्याद्बलायुषी
राज्यं शौर्य्यं बलं पुत्रान् यशोधर्म्मादिकं बहु। प्रथमः सप्तमस्तुर्य्यो दशमः केन्द्र उच्यते
गुरुशुक्रबुधास्तत्र सर्वसिद्धिप्रदायकाः। त्रयेकादशचतुर्थस्था लग्नात् पापग्रहाः शुभाः
अतोप्यनीचकर्मार्थं योज्यास्तिथ्यादयो बुधैः। धाम्नः पञ्चगुणां भूमिं त्यक्त्वा वा धानसम्मितां
हस्ताद् द्वादशसोपानात् कुर्य्यान्मण्डपमग्रतः। चतुरस्रं चतुर्द्वारं स्नानार्थन्तु तदर्द्धतः
एकास्यं चतुरास्यं वा रौद्र्यां प्राच्युत्तरेथवा । हास्तिको दशहस्तो वै मण्डपोर्ककरोऽथवा
द्विहस्तोत्तरया वृद्ध्या शेष स्यान्मण्डपाष्टकं। वेदी चतुष्करा मध्ये कोणस्तम्भेन संयुता
वेदीपादान्तरं त्यक्त्वा कुण्डानि नव पञ्च वा। एकं वा शिवकाष्ठायां प्राच्यां वा तद्गुरोः परं
मुष्टिमात्रं शतार्द्धे स्याच्छते चारत्निमात्रकं । हस्तं सहस्रहोमे स्यान्नियुते तु द्विहास्तिकं
लक्षे चतुष्करं कुण्डंकोटिहोमेऽष्टहस्तकं। भगाभमग्नौ खण्डेन्दु दक्षे त्र्यस्रञ्च नैर्ऋते