ईशाद्याः पादिकस्तस्मिन्नागाद्याश्च द्विकोष्ठगाः। षट्पदस्था मरीच्याद्या ब्रह्मा नवपदः स्मृतः
नगरग्रामखेटादौ वास्तुः शतपदोऽपि वा। वंशद्वयं कोणगतं दुर्जयं दुर्द्धरं सदा
यथा देवालये न्यासस्तथा शतपदे हितः। ग्रहाः स्कन्दादयस्तत्र विज्ञेयाश्चैव षट्पदाः
चरक्याद्या भूतपदा रज्जुवंशादि पूर्ववत्। देशसंस्थापने वास्तु चतुस्त्रिशंच्छतं भवेत्
चतुः षष्टिपदो ब्रह्मा मरीच्याद्याश्च देवताः। चतुः पञ्चाशत्पदिका आपाद्यष्टौ रसाग्निभिः
ईशानाद्या नवपदाः स्कन्दाद्याः शक्तिकाः स्मृताः। चरक्याद्यास्तद्वदेव रज्जुवंशादिपूर्ववत्
ज्ञेयो वंळशसहस्रैस्तु वास्तुमण्डलगः पदैः न्यासो नवगुणस्तत्र कर्त्तव्यो देशवास्तुवत्
पञ्चविंशतिपदो वास्तुर्वेतालाख्यश्चितौ स्मृतः। अन्यो नवपदो वास्तुः षोडशाङ्घ्निस्तथापरः
षडस्रत्र्यस्रवृत्तादेर्म्मध्ये स्याच्चतुरस्रकं। खाते वास्तोः समं पृष्ठे न्यासे ब्रह्मशिलात्मके
शावाकस्य निवेशे च मूर्त्तिसंस्थापने तथा। पायसेन तुं नैवेद्यं सर्वेषां वा प्रदापयेत्
उत्तानुक्ते तु वै वास्तुः पञ्चहस्तप्रमाणतः । गृहप्रासादमानेन वास्तुः श्रेष्ठस्तु सर्वदा
ईश्वर उवाच ईशादिषु चरक्याद्याः(५) पूर्ववत्पूजयेद्वहिः ।९४.००२ आहुतित्रितयं दद्यात्प्रतिदेवमनुक्रमात् ॥९४.००२ दत्वा भूतबलिं लग्ने शिलान्यासमनुक्रमात् ।९४.००३ मध्यसूत्रे(६) न्यसेच्छक्तिं कुम्भञ्चानन्तमुत्तमं(७) ॥९४.००३ नकारारूढमूलेन कुम्भेऽस्मिन् धारयेच्छिलां ।९४.००४ कुम्भानष्टौ सभद्रादीन् दिक्षु पूर्वादिषु क्रमात् ॥९४.००४ लोकपालाणुभिर्न्यस्य(८) श्वभ्रेषु(६) न्यस्तशक्तिषु ।९४.००५ शिलास्तेष्वथ नन्दाद्याः क्रमेण विनियोजयेत् ॥९४.००५ शम्बरैर्मूर्तिनाथानां यथा स्युर्भित्तिमध्यतः ।९४.००६ तासु धर्मादिकानष्टौ कोणात्कोणं विभागशः ॥९४.००६ सुभद्रादिषु नन्दाद्याश्चतस्रोऽग्न्यादिकोणगाः ।९४.००७ अजिताद्याश्च पूर्वादिजयादिष्वथ विन्यसेत् ॥९४.००७ ब्रह्माणं चोपरि मस्य व्यापकं च महेश्वरं ।९४.००८ चिन्तयेदेषु चाधानं व्योमप्रसादमध्यगं ॥९४.००८ बलिन्दत्त्वा जपेदस्त्रं विघ्नदोषनिवारणं ।९४.००९ शिलापञ्चकपक्षेऽपि मनागुद्दिश्यते यथा ॥९४.००९ मध्ये पूर्णशिलान्यासः सुभद्रकलशेऽर्धतः ।९४.०१० पद्मादिषु च नन्दाद्याः कोणेष्वग्न्यादिषु क्रमात् ॥९४.०१० मध्यभावे चतस्रोऽपि मातृवद्भावसम्मताः ।९४.०११ ओं पूर्णे त्वं महाविश्वे सर्वसन्दोहलक्षणे ॥९४.०११ सर्वसम्पूर्णमेवात्र कुरुष्वाङ्गिरसः सुते ।९४.०१२ ओं नन्दे त्वं नन्दिनी पुंसां त्वामत्र स्थापयाम्यहं ॥९४.०१२ प्रासादे तिष्ठ सन्तृप्ता यावच्चन्द्रार्कतारकं ।९४.०१३ आयुः कामं श्रियन्नन्दे देहि वासिष्ठ देहिनां ॥९४.०१३ अस्मिन् रक्षा सदा कार्या प्रासादे यत्नतस्त्वया ।९४.०१४ ओं भद्रे त्वं सर्वदा भद्रं लोकानां कुरु काश्यपि ॥९४.०१४ आयुर्दा कामदा देवि श्रीप्रदा च सदा भव ।९४.०१५ ओं जयेऽत्र सर्वदा देवि श्रीदा.अयुर्दा च सदा भव ॥९४.०१५ ओं जयेऽत्र सर्वदा देवि तिष्ठ त्वं स्थापिता मय ।९४.०१६ नित्यञ्जयाय भूत्यै च स्वामिनी भव भार्गवि ॥९४.०१६ ओं रिक्तेऽतिरिक्तदोषघ्ने सिद्धिमुक्तिप्रदे शुभं ।९४.०१७ सर्वदा सर्वदेशस्थे तिष्ठास्मिन् विश्वरूपिणि ॥९४.०१७ गगनायतनन्ध्यात्वा तत्र तत्त्वत्रयं न्यसेत् ।९४.०१८ प्रायश्चित्तन्ततो हुत्वा विधिना विसृजेन्मखं ॥९४.०१८ इत्यादिमहापुराणे आग्नेये शिलान्यासकथनं नाम चतुर्णवतितमोऽध्यायः ॥ ईश्वर उवाच ईशादिषु चरक्याद्याः पूर्ववत् पूजयेद्वहिः। आहुतित्रितयं दद्यात् प्रतिदेवमनुक्रमात्
दत्वा भूतबलिं लग्ने शिलान्यासमनुक्रमात्। मध्यशूत्रे न्यसेच्छक्तिं कुम्भञ्चानन्तमुत्तमं
नकारारूढमूलेन कुम्भेऽस्मिन् धारयेच्छिलां। कुम्भानष्टौ सुभद्रादीन् दिक्षु पूर्वादिषु क्रमात्
लोकपालाणुभिर्न्यस्य श्वभ्रेषु न्यस्तशक्तिषु। शिलास्तेष्वथ नन्दाद्याः क्रमेण विनिवेशयेत्
शम्बरैर्मूर्त्तिनाथानां यथा स्युर्भित्तिमध्यतः। तासु धर्म्मादिकानष्टौ कोणात् कोणं विबागशः
सुभद्रादिषु नन्दाद्याश्चतस्रोऽगन्यादिकोणगाः। अजिताद्यास्च पूर्वादिजयादिष्वथ विन्यसेत्
ब्रह्माणं चोपरि नस्य व्यापकं च महेश्वरं। चिन्तयेदेषु चाधानं व्योमप्रासादमध्यगं
बलिन्दत्त्वा जपेदस्त्रं विघ्नदोषनिवारणं । शिलापञ्चकपक्षेऽपि मनागुद्दिश्यते यथा
मध्ये पूर्णशिलान्यासः सूभद्रकलशेऽर्द्धतः। पद्मादिषु च नन्दाद्याः कोणेष्वगन्यादिषु क्रमात्
मध्यभावे चतस्रोऽपि मातृवद्भावसम्मताः। ओं पूर्णे त्वं महावद्ये सर्वसन्दोहलक्षणे
सर्वसम्पूर्णमेवात्र कुरुष्वाङिगिरसः सुते। ओं नन्दे त्वं नन्दिनी पुंसां त्वामत्र स्थापयाम्यहं
प्रासादे तिष्ठ सन्तृप्ता यावच्चन्द्रार्कतारकं। आयुः कामं श्रियन्नन्दे देहि वासिष्ठि देहिनां
अस्मिन् रक्षा सदा कार्य्या प्रासादे यत्नतस्त्वया। ओं भद्रे त्वं सर्वदा भद्रं लोकानां कुरु काश्यपि
आयुर्दा कामदा देवि श्रीप्रदा च सदा भव। ओं जयेऽत्र सर्वदा देवि श्रीदाऽऽयुर्दा सदा भव
ओं जयेऽत्र सर्वदा देवि तिष्ठ त्वं स्थापितामय । नित्यञ्जयाय भूत्यै च स्वामिनी भव भार्गवि
ओं रिक्तेऽतिरिक्तदोषघ्ने सिद्धिमुक्तिप्रदे शुभे। सर्वदा सर्वदेशस्थे तिष्ठास्मिन् विश्वरूपिणि
गगनायतनन्ध्यात्वा तत्र तत्त्वात्रयं न्यसेत्। प्रायश्चित्तन्ततो हुत्वा विधिना विसृजेन्मखं
ईश्वर उवाच वक्ष्ये लिङ्गप्रतिष्ठां च प्रासादे भुक्तिमुक्तिदां। ताञ्चरेत् सर्वदा मुक्तौ भुक्तौ देवदिने सति
विना चैत्रेण माघादौ प्रतिष्ठा मासपञ्चके। गुरुशुक्रोदये कार्य्या प्रथमे करणत्रये