कोणेषु विन्यसेद् वंशौ रज्जवोऽष्टौ विकोणगाः। द्विपदाः षट्पदास्तास्तु वास्तुन्तत्रार्च्चयेद् यथा
आकुञ्चितकचं वास्तुमुत्तानमसुराकृति । स्मरेत् पूजासु कुड्यादिनिवेशे उत्तराननं
जानुनी कूर्परौ शक्थि दिशि वातहुताशयोः। पैत्र्यां पादपुटे रौद्र्यां शिरोऽस्य हृदयेऽञ्जलिः
अस्य देहे समारूढा देवताः पूजिताः शुभाः। अष्ठौ कोणाधिपास्तत्र कोणार्द्धेष्वष्टसु स्थिताः
षट्पदास्तु मरीच्याद्या दिक्षु पूर्वादिषु क्रमात्। मध्ये चतुष्पदो ब्रह्मा शेषास्तु पदिकाः स्मुताः
समस्तनाडीसंयोगे महामर्म्मानुजं फलं। त्रिशूलं स्वस्तिकं वज्रं महास्वस्तिकसम्पुटौ
त्रिकटुं मणिबन्धं च सुविशुद्धं पदं तता। इति द्वादश मर्म्माणि वास्तोर्भित्त्यादिषु त्यजेत्
साज्यमक्षतमीशाय पर्जन्यायाम्बुजोदकं। ददीताथ जयन्ताय पताकां कुङ्कुमोज्ज्वलां
रत्नवारि महेन्द्राय रवौ धूम्रं वितानकं। सत्याय घृतगोधूममाज्यभक्तं भृशाय च
विमांसमन्तरिक्षाय शक्तुन्तेभ्यस्तु पूर्वतः। मधुक्षीराकज्यसम्बूर्णां प्रदद्याद्वह्नये श्रुचं
लाजान् पूर्णे सुवर्णाम्बु वितथाय निवेदयेत्। दद्याद् गृहक्षते क्षौद्रं यमराजे पलौदनं
गन्धं गन्धर्वनाथाय जिह्वां भृङ्गाय पक्षिणः। मृगाय पद्मपर्णानि याम्यामित्यष्टदेवता
पित्रे तिलोदकं क्षीरं वृक्षजं दन्तधावनं। दौवारिकाय देवाय प्रदद्याद् धेनुमुद्रया
सुग्रीवाय दिशेत् पूपान् पुष्पदन्ताय दर्ब्भकं। रक्तं प्रचेतसे पद्ममसुराय सुरासवं
घृतं गुडौदनं शेषे रोगाय घृतमण्डकान्। लाजान् वा पश्चिमाशायां देवाष्टकमितीरितं
मारुताय ध्वजं पीतं नागाय नागकेशरं। मुख्ये भक्ष्याणि भल्लाटे मुद्गसूपं सुसंस्कृतं
सोमाय पायसं साज्यं शालूकमूषये दिशेत्। लोपीमदितये दित्यै पुरीमित्युत्तराष्टकं
मोदकान् ब्रह्मणः प्राच्यां षट्पदाय मरीचये। सवित्रे रक्तपुष्पाणि वह्न्यधः कोणकोष्ठके
तदधः कोष्ठके दद्यात् सावित्र्यै च कुशोदकं । दक्षिणे चन्दनं रक्तं षट्पदाय विवस्वते
हरिद्रौदनमिन्द्राय रक्षोधः कोणकोष्ठके। इन्द्रजयाय मिश्रान्नमिन्द्राधस्तान्निवेदयेत्
वारुण्यां षट्पदासीने मित्रे सगुडमोदनं। रुद्राय घृतसिद्धान्नं वायुकोणाधरे पदे
तदधो रुद्रदासाय मांसं मार्गमथोत्तरे। ददीत माषनैवेद्यं षट्पदस्थे धराधरे
आपाय शिवकोणाधः तद्वत्साय च तत्स्थले । क्रमाद्दद्याद्दधि क्षीरं पूजयित्वा विधानतः
चतुष्पदे निविष्टाय ब्रह्मणे मध्यदेशतः। पञ्चगव्याक्षतोपेतञ्चरुं साज्यं निवेदयेत्
ईशादिवायुपर्य्यन्तकोणेष्वथ यथाक्रमं। वास्तुवाह्ये चरक्याद्याश्चतस्रः पूजयेद् यथा
चरक्यै सघृतं मांसं विदार्य्यै दधिपङ्कजे। पूतनायै पलं पित्तं रुधिरं च निवेदयेत्
अस्थीनि पापराक्षस्यै रक्तपित्तपलानि च। ततोमाषौदनं प्राच्यां स्कन्दाय विनिवेदयेत्
अर्य्यम्णे दक्षिणाशायां पूपान् कृसरया युतान्। जम्भकाय च वारुण्यामामिषं रुधिरान्वितं
उदीच्यां पिलिपिञ्जाय रक्तान्नं कुसुमानि च। यजेद्वा सकलं वास्तुं कुशदध्यक्षतैर्जलैः
गृहे च नगरादौ च एकाशीतिपदैर्यजेत्। त्रिपदा रज्जवः कार्य्याः षट्पदाश्च विकोणके