चन्दनेन समालभ्य वस्त्रैराच्छादयेच्छिलां। स्वर्णोत्थमासनं दत्वा नीत्वा यागं प्रदक्षिणं
शय्यायां कुशतल्पे वा हृदयेन निवेशयेत्। सम्पूज्य न्यस्य बुद्ध्यादिधरान्तं तत्त्वसञ्चयं
त्रिशण्डव्यापकं तत्त्वत्रयञ्चानुक्रमान् न्यसेत्। बुद्ध्यादौ चित्तपर्य्यन्ते चिन्तातन्मात्रकावधौ
तन्मात्रादौ धरान्ते च शिवविद्यात्मनां स्थितिः। तत्त्वानि निजमन्त्रेण तत्त्वेशांश्च हृदाऽर्च्चयेत्
स्थानेषु पुष्पमालादिचिह्नितेषु यथाक्रमं । ओं हूं शिवतत्त्वाय नमः। ओं हूं शिवतत्त्वाधिपतये रुद्राय नमः। ओं हां विद्यातत्त्वाय नमः। ओं हां विद्यातत्त्वाधिपाय विष्णवे नमः। ओं हां आत्मतत्त्वाय नमः। ओं हां आत्मतत्त्वाधिपतये ब्रह्मणे नमः । क्षमाग्नियजमानार्कान् जलवातेन्दुखानि च
प्रतितत्त्वं नयसेदष्टौ मूर्त्तीः प्रतिशिलां शिलां। सर्वं पशुपति चोग्रं रुद्रं भवमतेश्वरं
महादेवं च भीमं च मूर्त्तीशांश्च यथाक्रमात्। ओं धरामूर्त्तये नमः, ओं धराधिपतये नमः इत्यादिमन्त्रान् लोकपालान् यथासङ्ख्यं निजाणुभिः
विन्यस्य पूजयेत् कुम्भांस्तन्मन्त्रैर्वा निजाणुभिः । इन्द्रादीनां तु वीजानि वक्ष्यमाणक्रमेण तु
लूं रुं शूं पूं वूं यूं मूं हूं क्षूमिति । अक्तो नवशिलापक्षः शिला पञ्चपदा तथा। प्रतितत्त्वं न्यसेन्मूर्त्तीः सृष्ट्या पञ्च धरादिकाः
ब्रकह्मा विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः। एते च पञ्च मूर्त्तीशा यष्टव्यास्तासु पूर्ववत्
ओं पृथ्वीमूर्त्तये नमः। ओं पृष्वीमूर्त्त्यधिपतये ब्रह्मणे नमः। इत्यादि मन्त्राः। सम्पूज्य कलशान् पञ्च क्रमेण निजनामभिः। निरुन्धीत विधानेन न्यासो मध्यशिलाक्रमात्
कुर्य्यात् प्राकारमन्त्रेण भूतिदर्भैस्तिलैस्ततः। कुण्डेषु धारिकां शक्तिं विन्यस्याभ्यर्च्य तर्पयेत्
तत्त्वतत्त्वाधिपान् मूर्त्तीर्मूर्त्तीशांश्च घृतादिभिः। ततो ब्रह्मांशशुद्ध्यर्थं मूलाङ्गं ब्रह्मभिः क्रमात्
कृत्वा शतादिपूर्णान्तं प्रोक्ष्याः शान्तिजलैः शिलाः। पूजयेच्च कुशैः स्पष्ट्वा प्रतितत्त्वमनुक्रमात्
सांन्निध्यमथ सन्धानं कृत्वा शुद्धं पुनर्न्यसेत् एवं भागत्रये कर्म्म गत्वा गत्वा समाचरेत्
ओं आं ईं आत्मतत्त्वविद्यातत्त्वाभ्यां नमः इति। संस्पृशेद् दर्भमूलाद्यैर्ब्रह्माङ्गादित्रयं क्रमात्। कुर्य्यात्तत्त्वानुसन्धानं ह्रस्वदीर्घप्रयोगतः
ओं हां उं विद्यातत्त्वशिवतत्त्वाभ्यां नमः। घृतेन मधुना पूर्णांस्ताम्रकुम्भान् सरत्नकान्
पञ्चगव्यार्घ्यसंसिक्तान् लोकपालाधिदैवतान्
पूजयित्वा निजैर्म्मन्त्रैः सन्निधौ होममाचरेत्। शिलानामथ सर्वासां संस्मरेदधिदेवताः ।। विद्यारूपाः कृतस्नाना हेमवर्णाः शिलाम्वराः। न्यूनादिदोषमोषार्थं वास्तुभूमेश्च शुद्धये
ईश्वर उवाच ततः प्रासादमासूत्र्य वर्त्तयेकद्वास्तुमण्डपं। कुर्य्यात् कोष्ठचतुः षष्टि वेदास्रके समे
कोणेषु विन्यसेद् वंशौ रज्जवोऽष्टौ विकोणगाः। द्विपदाः षट्पदास्तास्तु वास्तुन्तत्रार्च्चयेद् यथा
आकुञ्चितकचं वास्तुमुत्तानमसुराकृति । स्मरेत् पूजासु कुड्यादिनिवेशे उत्तराननं
जानुनी कूर्परौ शक्थि दिशि वातहुताशयोः। पैत्र्यां पादपुटे रौद्र्यां शिरोऽस्य हृदयेऽञ्जलिः
अस्य देहे समारूढा देवताः पूजिताः शुभाः। अष्ठौ कोणाधिपास्तत्र कोणार्द्धेष्वष्टसु स्थिताः
षट्पदास्तु मरीच्याद्या दिक्षु पूर्वादिषु क्रमात्। मध्ये चतुष्पदो ब्रह्मा शेषास्तु पदिकाः स्मुताः
समस्तनाडीसंयोगे महामर्म्मानुजं फलं। त्रिशूलं स्वस्तिकं वज्रं महास्वस्तिकसम्पुटौ
त्रिकटुं मणिबन्धं च सुविशुद्धं पदं तता। इति द्वादश मर्म्माणि वास्तोर्भित्त्यादिषु त्यजेत्
साज्यमक्षतमीशाय पर्जन्यायाम्बुजोदकं। ददीताथ जयन्ताय पताकां कुङ्कुमोज्ज्वलां
रत्नवारि महेन्द्राय रवौ धूम्रं वितानकं। सत्याय घृतगोधूममाज्यभक्तं भृशाय च
विमांसमन्तरिक्षाय शक्तुन्तेभ्यस्तु पूर्वतः। मधुक्षीराकज्यसम्बूर्णां प्रदद्याद्वह्नये श्रुचं