मण्डपे द्वारपूजादि मन्त्रतृप्त्यवसानकं । कर्म्म निर्वर्त्याघोरास्त्रं सहस्रं विधिना यजेत्
समीकृत्योपलिप्तायां भूमौ संशोधयेद्दिशः। स्वर्णदध्यक्षतै रेखाः प्रकुर्वीत प्रदक्षिणं
मध्यादीशानकोष्ठस्थे पूर्णकुम्भे शिवं यजेत्। वाचस्तुमभ्यर्च्य तत्तोयैः सिञ्चेत् कुद्दालकादिकं
वाह्ये रक्षोगणानिष्ट्वा विधिना दिग्बलिं क्षिपेत्। भूमिं संसिच्य संस्नाप्य कुद्दालाद्यं प्रपूजयेत्
अन्यं वस्त्रयुगच्छन्नं कुम्भं स्कन्धे द्विजन्मनः। निधाय गीतवाद्यादिब्रह्मघोषसमाकुलं
पूजां कुम्भे समाहृत्य प्राप्ते लग्नेऽग्निकोष्ठके। कुद्दालेनाभिषिक्तेन मध्वक्तेन तु खानयेत्
नैर्ऋत्यां क्षेपयेन्मृत्स्नां खाते कुम्भजलं क्षिपेत्। पुरस्य पूर्व्वसीमान्तं नयेद् यावदभीप्सितं
अथ तत्र क्षणं स्थित्वा भ्रामयेत् परितः पुरं। सिञ्चन् सीमान्तचिह्णानि यावदीशानगोचरं
अर्घ्यदानमिदं प्रोक्तं तत्र कुम्भपरिभ्रमात्। इत्थं परिग्रहं भूमेः कुर्व्वीत तदनन्तरं
कर्करान्तं जलान्तं वा शल्यदोषजिघांसया। खानयेद् भूः कुमारीं चेद् विधिना शल्यमुद्धरेत्
अकचटतपयशहान् मानवश्चेत् प्रश्नाक्षराणि तु । अग्नेर्ध्वजादिपतिताः स्वस्थाने शल्यमाख्यान्ति
कर्त्तुं श्चाङ्गविकारेण जानीयात्तत्प्रमाणतः। पश्वादीनां प्रवेशेन कीर्त्तनैर्विरुतैर्द्दिशः
मातृकामष्टवर्गाढ्यां फलके भुवि वा लिखेत्। शल्यज्ञानं वर्गवशात् पूर्वादीशान्ततः क्रमात्
अवर्गे चैव लोहन्तु कवर्गेऽङ्गारमग्नितः। चवर्गे भस्म दक्षे स्याट् टवर्गेऽस्थि च नैर्ऋते
तवर्गे चेष्टका चाप्ये कपालञ्च पवर्गके। यवर्गे शवकीटादि शवर्गे लोहमादिशेत्
हवर्गे रजतं तद्वदवर्गाच्चानर्थकरानपि। प्रोक्षयात्मभिः करापूरैरष्टाङ्गुलमृदन्तरैः
पादोनं खातमापूर्य्य सजलैर्मुद्गराहतैः । लिप्तां समप्लवां तत्र कारयित्वा भुवं गुरुः
सामान्यार्घ्यकरो यायान्मण्डपं वक्ष्यमाणकं। तोरणद्वाः पतीनिष्ट्वा प्रत्यग्द्वारेण संविशेत्
कुर्य्यात्तत्रात्मशुद्ध्यादि कुण्डमण्डपसंस्कृतिं। कलसं वर्द्धनीसक्तं लोकपालशिवार्च्चनं
अग्नेर्जननपूजादि सर्व्वं पूर्ववदाचरेत्। यजमानान्वितो यायाच्छिलानां स्नानमण्डपं
शिलाः प्रासादलिङ्गस्य पादधर्म्मादिसञ्ज्ञकाः। अष्टाङ्गुलोच्छ्रिताः शस्ताश्चतुरस्राः करायताः
पाषाणानां शिलाः कार्य्या इष्टकानां तदर्द्धतः। प्रासादेऽश्मशिलाः शैले इष्टका इष्टकामये
अङ्किता नववक्त्राद्यैः पङ्कजाः पङ्कजाङ्किताः। नन्दाभद्राजया रिक्ता पूर्णाख्या पञ्चमी मता
आसां पद्मो महापद्मः शङ्खोऽथ मकरस्तथा। समुद्रश्चेति पञ्चामी निधिकुम्भाः क्रमादधः
नन्दा भद्रा जया पूर्णा अजिता चापराजिता। विजया मङ्गलाख्या च धरणी नवमी शिला
सुभद्रश्च विभद्रश्च सुनन्दः पुष्पनन्दकः । जयोऽथ विजयश्चैव कुम्भः पूर्णस्तथोत्तरः
नवानान्तु यथासङ्ख्यं निधिकुम्भा अमी नव। आसनं प्रथमं दत्त्वा ताड्योल्लिख्य शराणुना
सर्वासामविशेषेण तनुत्रेणावगुण्ठनं । मृद्भिर्गोमयगोमूत्रकषायैर्गन्धवारिणा
अस्त्रेण हूंफडन्तेन मलस्नानं समाचरेत्। विधिना पञ्चगव्येन स्नानं पञ्चामृतेन च
गन्धतोयान्तर कुर्य्यान्निजनामाङ्किताणुना । फलरत्नसुवर्णानां गोश्रृड्गसलिलैस्ततः