सङ्खयावृन्दे जीविताब्दं यमोऽब्ददराहा ध्रुवं। सूर्य्येभास्येशदुर्गाश्रीविष्णुमन्त्रैर्ल्लिखेत् कजे
कठिन्या जप्तया स्प्टष्टे गोमूत्राकृतिरेखया। आरभ्यैकं त्रिकं यावत्त्रिचतुष्कावसानकं
मरुद् व्योम मरुद्वीजैश्चतुः षष्टिपदे तथा। अक्षाणां पतनात् स्पर्शाद्विषमादौ शुभादिकं
एकत्रिकादिमारभ्य अन्ते चाष्टत्रिकं तथा। ध्वजाद्यायाः समा हीना विषमाः शोभनादिदाः
आइपल्लवितैः काद्यैः षोडशस्वरपूर्व्वगैः। आद्यैस्तैः सस्वरैः काद्यैस्त्रिपुरानाममन्त्रकाः
ह्रीं वीजाः प्रणवाद्याः स्युर्न्नमोऽन्ता यत्र पूजने। मन्त्रा विंशतिसाहस्राः शतं षष्ठ्यदिकं ततः
आं ह्रीं मन्त्राः सरस्वत्याश्चण्डिकायास्तथैव च। तथा गौर्य्याश्च दुर्गाया आं श्रीं मन्त्राः श्रियस्तथा
तथा क्षौं कौं मन्त्राः सूर्य्यस्य आं हौं मन्त्राः शिवस्य च। आं गं मन्त्रा गणेशस्य आं मन्त्राश्च तथा हरेः
शतार्द्धैकाधिकैः काद्यैस्तथा षोडशभिः स्वरैः। काद्यैस्तैः सस्वरैराद्यैः कान्तैर्म्मन्त्रास्तथाखिलाः
रवीशदेवीविष्णूनां खब्धिदेवेन्द्रवर्त्तनात्। शतत्रयं षष्ट्यधिकं प्रत्येकं मण्डलं क्रमात्। अभिषिक्तो जपेद् ध्यायेच्छिष्यादीन् दीक्षयेद्गुरुः
ईश्वर उवाच प्रतिष्ठां सम्प्रवक्ष्यामि क्रमात् सङ्क्षेपतो गुह। पीठं शक्तिं शिवो लिङ्गं तद्योगः स शिवाणुभिः
प्रतिष्ठायाः पञ्च भेदास्तेषां रूपं वदामि ते। यत्र ब्रह्मशिलायोगः सा प्रतिष्ठा विशेषतः
स्थापनन्तु यथायोगं पीठ एव निवेशनं। प्रतिष्ठाभिन्नपीठस्य स्थितस्थापनमुच्यते
उत्थापनञ्च सा प्रोक्ता लिङ्गोद्धारपुरःसरा। यस्या तु लिङ्गमारोप्य संस्कारः क्रियते बुधैः
आस्थापनं तदुद्दिष्टं द्विधा विष्णवादिकस्य च । आसु सर्व्वासु चैतन्यं नियुञ्जीत परं शिवम्
यदाधारादिभेदेन प्रासादेष्वपि पञ्चधा। परीक्षामथ मेदिन्याः कुर्य्यात्प्रासादकाम्यया
शुक्लाज्यगन्धा रक्ता च रक्तगन्धा सुगन्धिनी । पीता कृष्णा सुरादनधा विप्रादीनां मही क्रमात्
पूर्व्वेशोत्तरसर्वत्र पूर्वा चैषां विशिष्यते । आखाते हास्तिके यस्याः पूर्णे मृदधिका भवेत्
उत्तमान्तां महीं विद्यात्तोयाद्यैर्वा समुक्षितां। अस्थ्यङ्गारादिभिर्दुष्टामत्यन्तं शोधयेद् गुरुः
नगरग्रामदुर्गार्थं गृहप्रासादकारणं । खननैर्गोकुलावासैः कर्षणैर्वा मुहुर्मुहुः
मण्डपे द्वारपूजादि मन्त्रतृप्त्यवसानकं । कर्म्म निर्वर्त्याघोरास्त्रं सहस्रं विधिना यजेत्
समीकृत्योपलिप्तायां भूमौ संशोधयेद्दिशः। स्वर्णदध्यक्षतै रेखाः प्रकुर्वीत प्रदक्षिणं
मध्यादीशानकोष्ठस्थे पूर्णकुम्भे शिवं यजेत्। वाचस्तुमभ्यर्च्य तत्तोयैः सिञ्चेत् कुद्दालकादिकं
वाह्ये रक्षोगणानिष्ट्वा विधिना दिग्बलिं क्षिपेत्। भूमिं संसिच्य संस्नाप्य कुद्दालाद्यं प्रपूजयेत्
अन्यं वस्त्रयुगच्छन्नं कुम्भं स्कन्धे द्विजन्मनः। निधाय गीतवाद्यादिब्रह्मघोषसमाकुलं
पूजां कुम्भे समाहृत्य प्राप्ते लग्नेऽग्निकोष्ठके। कुद्दालेनाभिषिक्तेन मध्वक्तेन तु खानयेत्
नैर्ऋत्यां क्षेपयेन्मृत्स्नां खाते कुम्भजलं क्षिपेत्। पुरस्य पूर्व्वसीमान्तं नयेद् यावदभीप्सितं
अथ तत्र क्षणं स्थित्वा भ्रामयेत् परितः पुरं। सिञ्चन् सीमान्तचिह्णानि यावदीशानगोचरं
अर्घ्यदानमिदं प्रोक्तं तत्र कुम्भपरिभ्रमात्। इत्थं परिग्रहं भूमेः कुर्व्वीत तदनन्तरं
कर्करान्तं जलान्तं वा शल्यदोषजिघांसया। खानयेद् भूः कुमारीं चेद् विधिना शल्यमुद्धरेत्