कुर्य्यात् करद्वयायामां वेदीमष्टाङ्गुलोच्छ्रितां। श्रीपर्णाद्यासने तत्र विन्यस्यानन्तमानसं
शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत्। काञ्चिकौदनमृद्भस्मदूर्वागोमयगोलकैः
सिद्धार्थदधितोयैश्च कुर्य्यान्निर्म्मञ्छनं ततः। क्षारोदानुक्रमेणाथ हृदा विद्येशशम्बरै
कलसैः स्नापयेच्छिष्यं स्वधाधारणयान्वितं। परिधाप्य सिने वस्त्रे निवेश्य शिवदक्षिणे
पूर्व्वोदितासने शिष्यं पुनः पूर्ववदर्च्चयेत्। उष्णीषं योगपट्टञ्च मुकुटं कर्त्तरीं घटीं
अक्षमालां पुस्तकादि शिविकाद्यधिकारकं। दीक्षाव्याख्याप्रतिष्ठाद्यं ज्ञात्वाऽद्यप्रभृति त्वया
सुपरीक्ष्य विधातव्यमाज्ञां संश्रावयेदिति। अभिवाद्य ततः शिष्यं प्रणिपत्य महेश्वरं
विघ्नज्वालापनोदार्थं कुर्य्याद्विज्ञापनां यथा। अभिषेकार्थमादिष्टस्त्वयाऽहं गुरुमुर्त्तिना
संहितापारगः सोऽयमभिषिक्तो मया शिव। तृप्तये मन्त्रचक्रस्य पञ्चपञ्चाहुतीर्यजेत्
दद्यात् पूर्णां ततः शिष्यं स्थापयेन्निजदक्षिणे। शिष्यदक्षिणपाणिस्था अह्गुलष्ठाद्यङ्गुलीः क्रमात्
लात्र्छयेदुपबद्धाय दग्धदर्भाग्रशम्बरैः। कुसुमानि करे दत्वा प्रणामं कारयेदमुं
कुम्भेऽनले शिवे स्वस्मिंस्ततस्तत्कृत्यमाविशेत्। अनुग्राह्यास्त्वया शिष्याः शास्त्रेण सुपरीक्षिताः
भूपबन्मानवादीनामभिषेकादबीप्सितं। आं श्रां श्रौं पशुं हूं फडिति अस्त्रराजाभिषेकतः
ईश्वर उवाच अभिषिक्तः शिवं विष्णुं पूजयेद्भास्करादिकान्। शङ्खभेर्य्यादिनिर्घाषैः स्नापयेत् पञ्चगव्यके
यो देवान्देबलोकं स याति स्वकुलमुद्धरन्। वर्षकोटिसहस्रेषु यत् पापं समुपार्ज्जितं
घृताभ्यङ्गेन देवानां भस्मीभवति पावके। आढकेन घृताद्यैश्व देवान् स्नाप्य सुरो भवेत्
चन्दनेनानुलिप्याथ नान्धाद्यैः पूजयेत्तथा। अल्पायासन स्तुतिभि स्तुता देवास्तु सर्वदा
अतीतानागतज्ञानमन्त्रधीभुक्तिमुक्तिदाः। गृहीत्वा प्रश्नसूक्ष्मार्णे हृते द्वाभ्यां शुभाशुभं
त्रिभिर्जीवो मूलधातुश्चतुर्भिब्राह्मणादिधीः। पञ्चादौ भूततत्त्वादि शेष चैवं जपादिकं
एकत्रिकातित्रिकान्ते पदे द्विपमकान्तके। अशुभं मध्यमं मध्येष्विन्द्रश्त्रिषु नृपः शुभः
सङ्खयावृन्दे जीविताब्दं यमोऽब्ददराहा ध्रुवं। सूर्य्येभास्येशदुर्गाश्रीविष्णुमन्त्रैर्ल्लिखेत् कजे
कठिन्या जप्तया स्प्टष्टे गोमूत्राकृतिरेखया। आरभ्यैकं त्रिकं यावत्त्रिचतुष्कावसानकं
मरुद् व्योम मरुद्वीजैश्चतुः षष्टिपदे तथा। अक्षाणां पतनात् स्पर्शाद्विषमादौ शुभादिकं
एकत्रिकादिमारभ्य अन्ते चाष्टत्रिकं तथा। ध्वजाद्यायाः समा हीना विषमाः शोभनादिदाः
आइपल्लवितैः काद्यैः षोडशस्वरपूर्व्वगैः। आद्यैस्तैः सस्वरैः काद्यैस्त्रिपुरानाममन्त्रकाः
ह्रीं वीजाः प्रणवाद्याः स्युर्न्नमोऽन्ता यत्र पूजने। मन्त्रा विंशतिसाहस्राः शतं षष्ठ्यदिकं ततः
आं ह्रीं मन्त्राः सरस्वत्याश्चण्डिकायास्तथैव च। तथा गौर्य्याश्च दुर्गाया आं श्रीं मन्त्राः श्रियस्तथा
तथा क्षौं कौं मन्त्राः सूर्य्यस्य आं हौं मन्त्राः शिवस्य च। आं गं मन्त्रा गणेशस्य आं मन्त्राश्च तथा हरेः
शतार्द्धैकाधिकैः काद्यैस्तथा षोडशभिः स्वरैः। काद्यैस्तैः सस्वरैराद्यैः कान्तैर्म्मन्त्रास्तथाखिलाः
रवीशदेवीविष्णूनां खब्धिदेवेन्द्रवर्त्तनात्। शतत्रयं षष्ट्यधिकं प्रत्येकं मण्डलं क्रमात्। अभिषिक्तो जपेद् ध्यायेच्छिष्यादीन् दीक्षयेद्गुरुः