आत्मन्यारोप्य सङगृह्य कलां कुण्डे निवेशयेत्। रुद्रं कारणमावाह्य विज्ञाप्य च शिशुं प्रति
पित्रोरावाहनं कृत्वा हृदये ताडयेच्छिशुं। प्रविश्य पूर्वमन्त्रेण तदात्मनि नियोजयेत्
आकृष्यादाय पूर्वोक्तविधिनाऽऽत्मनि योजयेत्। वामया योजयेद् योनौ गृहीत्वा द्वादशान्ततः
कुर्व्वीत देहसम्पत्तिं जन्माधिकारमेव च। भोगं लयन्तथा श्रोतः शुद्धितत्त्वविशोधनं
निः शेषमलकर्म्मादिपाशबन्धनिवृत्तये। निष्कृत्यैव विधानेन यजेत शतमाहुतीः
अस्त्रेण पाशशैथिल्यं मलशक्तिं तिरोहितां। छेदनं मर्द्दनं तेषां वर्त्तुलीकरणं तथा
दाहं तदक्षराभावं प्रायश्चित्तमथोदितं। रुद्राण्यावाहनं पूजा रूपगन्धसमर्पणं
ओं ह्रीं रूपगन्धौ शुल्कं रुद्र गृहाण स्वाहा। संश्राव्य शाम्भवीमाज्ञां रुद्रं विसृज्य कारणं। विधायात्मनि चैतन्यं पाशसूत्रे निवेशयेत्
विन्दुं शिरसि विन्यस्य विसृजेत् पितरौ ततः। दद्यात् पूर्णां विधानेन समस्तविधिपूरणीं
पूर्वोक्तविधिना कार्य्यं विद्यायां ताडनादिकं। स्ववीजन्तु विशेषः स्यादिति विद्या विशोधिता
ईश्वर उवाच अथैकतात्त्विकी दीक्षा लघुत्वादुपदिश्यते । सूत्रबन्धादि कुर्व्वीत यथायोगं निजात्मना
कालाग्न्यादिशिवान्तानि तत्त्वानि परिभावयेत्। समतत्त्वे समग्राणि सूत्रे मणिगणानिव
आवाह्य शिवतत्त्वादि गर्भाधानादि पूर्ववत्। मूलेन किन्तु कुर्व्वीत सर्व्वशुल्कसमर्पणं
प्रददीत ततः पूर्णां तत्त्वव्रातोपगर्भितां। एकयैव यया शिष्यो निर्व्वाणमधिगच्छति
योजनायै शिवे चान्यां स्थिरत्वापादनाय च। दत्वा पूर्णां प्रकुर्वीत शिवकुम्भाभिषेचनं
ईश्वर उवाच शिवमभ्यर्च्याभिषेकं कुर्य्याच्छिष्यादिके क्षिये। सुम्भानीशादिकाष्ठासु क्रमशो नव विन्यसेत्
तेषु क्षारोदं क्षीरीदं दध्युदं घृतसागरं। इक्षुकादम्बरीस्वादुमस्तूदानष्टसागरान्
निवेशयेद् यथासङ्ख्यमष्टौ विद्येश्वरानथ। एकं शिखण्डिनं रुद्रं श्रीकण्ठन्तु द्वितीयकं
त्रिमूर्त्तमेकरुद्राक्षमेकनेत्रं शिवोत्तमं। सप्तमं सूक्ष्मनामानमनन्तं रुद्रमष्टमं
मध्ये शिवं समुद्रञ्च शिंवमन्त्रं च विन्यसेत्। यागालयान् दिगीशस्य रचिते स्नानमण्डपे
कुर्य्यात् करद्वयायामां वेदीमष्टाङ्गुलोच्छ्रितां। श्रीपर्णाद्यासने तत्र विन्यस्यानन्तमानसं
शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत्। काञ्चिकौदनमृद्भस्मदूर्वागोमयगोलकैः
सिद्धार्थदधितोयैश्च कुर्य्यान्निर्म्मञ्छनं ततः। क्षारोदानुक्रमेणाथ हृदा विद्येशशम्बरै
कलसैः स्नापयेच्छिष्यं स्वधाधारणयान्वितं। परिधाप्य सिने वस्त्रे निवेश्य शिवदक्षिणे
पूर्व्वोदितासने शिष्यं पुनः पूर्ववदर्च्चयेत्। उष्णीषं योगपट्टञ्च मुकुटं कर्त्तरीं घटीं
अक्षमालां पुस्तकादि शिविकाद्यधिकारकं। दीक्षाव्याख्याप्रतिष्ठाद्यं ज्ञात्वाऽद्यप्रभृति त्वया
सुपरीक्ष्य विधातव्यमाज्ञां संश्रावयेदिति। अभिवाद्य ततः शिष्यं प्रणिपत्य महेश्वरं
विघ्नज्वालापनोदार्थं कुर्य्याद्विज्ञापनां यथा। अभिषेकार्थमादिष्टस्त्वयाऽहं गुरुमुर्त्तिना
संहितापारगः सोऽयमभिषिक्तो मया शिव। तृप्तये मन्त्रचक्रस्य पञ्चपञ्चाहुतीर्यजेत्
दद्यात् पूर्णां ततः शिष्यं स्थापयेन्निजदक्षिणे। शिष्यदक्षिणपाणिस्था अह्गुलष्ठाद्यङ्गुलीः क्रमात्