अभूत् पूर्म्मथुरा काचिद् रामोक्तो भरतोऽवधीत्। कोटित्रयञ्च शैलूषपुत्राणां निशितैः शरैः
शैलूषं दुप्टगन्धर्वं सिन्धुतीरनिवासिनम्। तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः
भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः। रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः
पुत्रौ कुशल्वौ जातौ वाल्मीकेराश्रमे वरौ। लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात्
राज्येभिषिच्य ब्रह्माहमस्मीति ध्यानतत्परः। दशवर्षसहस्त्राणि दशवर्षसतानि च
अग्निरुवाच हरिवंशम्प्रवक्षयामि विष्णुनाभ्यम्बुजादजः । ब्रह्मणोत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः
तस्मादायुरभूत्तस्मान्नहुषोऽतो ययातिकः। यदुञ्च तुर्वसुन्तस्माद्देवयानी व्यजायत
द्रुह्यञ्चानुञ्च पूरुञ्च शर्म्मिष्ठा वार्षपर्वणी। यदोः कुले यादवाश्च वसुदेवस्तदुत्तमः
भूवो भारावतारार्थं देवक्यां वसुदेवतः। हिरण्यकशिपोः पुत्राः षड्गर्भा योगनिद्रया
विष्णुप्रयुक्तया नीता देवकीजठरं पुरा । अभूच्च सप्तमो गर्भो देवक्या जठराद् बलः
सङ्क्रामितोऽभूद्रोहिण्यां रौहिणेयस्ततो इरिः । कृष्णाष्टम्याञ्च नभसि अर्द्धरात्रे चतुर्भुजः
देवक्या वसुदेवेन स्तुतो बालो द्विबाहुकः । वसुदेवः कंसभयाद्यसोदाशयनेऽनयत्
यशोदावालिकां गृह्य देवकीशयनेऽनयत् । कंसो बालध्वनिं श्रुत्वा ताञ्चिक्षएप शिलातले
वारीतोपि स देवक्या मृत्युर्गर्भोष्टमो मम। श्रुत्वाऽशरीणीं वाचं मत्तो गर्भास्तु मारिताः
समर्पितास्तु देवक्या विवाहसमयेरिताः। सा क्षिप्ता बालिका कंसमाकशस्थाब्रवीदिदम्
किं मया क्षिप्ताया कंस जातो यस्त्वां वधिष्यति। सर्वस्वभूतो देवानां भूभारहरणाय सः
इत्युक्त्वा सा च सुम्भादीन् हत्वेन्द्रेण च संस्तुता। आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाल्यपि
भद्रा क्षोम्या क्षेमकरी नैकबाहुर्नमामि ताम्। त्रिसन्ध्यं यः पठेन्नाम सर्वान् कामानवाप्नुयात्
कंसोपि पूतनादींश्च प्रैषयद् बालनाशने। यशोदापतिनन्दाय वसुदेवेन चार्पितौ
रक्षणाय च संसादेर्भीतेनैव हि गोकुले। रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह
सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः। कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया
यमलार्जुनमध्येऽगाद् भग्नौ च यमलार्जुनौ। परिवृत्तश्च शकटः पादक्षेपात् स्तनार्थिना
पूतना स्तनपानेन सा हता हन्तुमुद्यता। वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात्
जित्वा निः सार्य चाब्धिस्थञ्चकार बलसंस्तुतः। क्षेमं तालवनं चक्रे हत्वा धेनुकगर्द्दभम्
अरिष्टवृषभं हत्वा केशिनं हयरूपिणम्। शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः
पर्वतं घारयित्वा च शक्राद् वृप्टिर्निवारिता। नमस्कृतो महेन्द्रेण गोविन्दोऽथार्जुनोर्पितः
इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः। रथस्थो मथुराञ्चागात् कंसोक्ताक्रूरसंस्तुतः
गोपीभिरनुरक्ताबिः क्रीडिताभिर्निरीक्षितः। रजकं चाप्रयच्छन्तं इत्वा वस्त्राणि चाग्रहीत्
सह रामेण मालाभृन्मालाकारे वरन्ददौ। दत्तानुलेपनां कुब्जामृजुं चक्रेऽहनद् गजम्
मत्तं कुवलयापीडं द्वारि रङ्गं प्रविश्य च। कंसादीनां पश्यतां च मञ्चस्थानां नियुद्धकम्